उद्योगपर्व

अध्यायः १२२

Udyoga Parva (Sanskrit) · Adhyaya 122
अक्षर का आकार

नारद उवाच।

प्रत्यभिज्ञातमात्रोऽथ सद्भिस्तैर्नरपुङ्गवः।
समारुरोह नृपतिरस्पृशन्वसुधातलम् ।
ययातिर्दिव्यसंस्थानो बभूव विगतज्वरः ।।

दिव्यमाल्याम्बरधरो दिव्याभरणभूषितः।
दिव्यगन्धगुणोपेतो न पृथ्वीमस्पृशत्पदा ।।

ततो वसुमनाः पूर्वमुच्चैरुच्चारयन्वचः ।।
ख्यातो दानपतिर्लोके व्याजहार नृपं तदा ।।

प्राप्तवानस्मि यल्लोके सर्ववर्णेष्वगर्हया ।
तदप्यथ च दास्यामि तेन संयुज्यतां भवान् ।।

यत्फलं दानशीलस्य क्षमाशीलस्य यत्फलम् ।
यच्च मे फलमाधाने तेन संयुज्यतां भवान् ।।

ततः प्रतर्दनोऽप्याह वाक्यं क्षत्रियपुङ्गवः ।
यथा धर्मरतिर्नित्यं नित्यं युद्धपरायणः ।।

प्राप्तवानस्मि यल्लोके क्षत्रवंशोद्भवं यशः ।
वीरशब्दफलं चैव तेन संयुज्यतां भवान् ।
यथा धर्मे रतिर्नित्यं तेन सत्येन खं व्रज ।।

शिबिरौशीनरो धीमानुवाच मधुरां गिरम्।
यथा बालेषु नारीषु वैवाह्येषु तथैव च ।।

सङ्गरेषु निपातेषु तथा तद्व्यसनेषु च ।
अनृतं नोक्तपूर्वं मे तेन सत्येन खं व्रज ।।

यथा प्राणांश्च राज्यं च राजन्कामसुखानि च।
त्यजेयं न पुनः सत्यं तेन सत्येन खं व्रज ।।

यथा सत्येन मे धर्मो यथा सत्येन पावकः ।
प्रीतः शतक्रतुश्चैव तेन सत्येन खं व्रज ।।

अष्टकस्त्वथ राजर्षिः कौशिको माधवीसुतः।
अनेकशतयज्वानं नाहुषं प्राह धर्मवित् ।।

शतशः पुण्डरीका मे गोसवाश्चरिताः प्रभो ।
क्रतवो वाजपेयाश्च तेषां फलमवाप्नुहि ।।

न मे रत्नानि न धनं न तथाऽन्ये परिच्छदा ।
क्रतुष्वनुपयुक्तानि तेन सत्येन खं व्रज ।।

नारद उवाच।

यथायथा हि जल्पन्ति दौहित्रास्तं नराधिपम् ।
तथतथा वसुमतीं त्यक्त्वा राजा दिवं ययौ ।।

एवं सर्वे समस्तैस्ते राजानः सुकृतैस्तदा ।
ययातिं स्वर्गतो भ्रष्टं तारयामासुरञ्जसा ।।

दौहित्राः स्वेन धर्मेण यज्ञदानकृतेन वै ।
चतुर्षु राजवंशेषु संभूताः कुलवर्धनाः।
मातामहं महाप्राज्ञं दिवमारोपयन्त ते ।।

राजान ऊचुः ।

राजधर्मगुणोपेताः सर्वधर्मगुणान्विताः ।
दौहित्रास्ते वयं राजन्दिवमारोह पार्थिव ।।

।। इति श्रीमन्महाभारते
उद्योगपर्वणि भगवद्यानपर्वणि
द्वाविंशत्यधिकशततमोऽध्यायः ।।