उद्योगपर्व

अध्यायः १२१

Udyoga Parva (Sanskrit) · Adhyaya 121
अक्षर का आकार

नारद उवाच।

अथ प्रचलितः स्थानादासनाच्च परिच्युतः।
कम्पितेनेव मनसा धर्षितः शेकवाह्निना ।।

म्लानस्रग्भ्रष्टविज्ञानः प्रभ्रष्टमुकुटाङ्गदः ।
विघूर्णन्स्रस्तसर्वाङ्गः प्रभ्रष्टाभरणाम्बरः ।।

अदृश्यमानस्तान्पश्यन्नपश्यंश्च पुनः पुनः ।
शून्यः शून्येन मनसा प्रपतिष्यन्महीतलम् ।।

किं मया मनसा ध्यातमशुभं धर्मदूषणम् ।
येनाहं चलितः स्थानादिति राजा व्यचिन्तयत् ।।

ते तु तत्रैव राजानः सिद्धाश्चाप्सरसस्तथा ।
अपश्यन्त निरालम्बं तं ययातिं परिच्युतम् ।।

अथैत्य पुरुषः कश्चित्क्षीणपुण्यनिपातकः ।
ययातिमब्रवीद्राजन्द्रेवराजस्य शासनात् ।।

अतीव मदमत्तस्त्वं न कंचिन्नावमन्यसे ।
मानेन भ्रष्टः स्वर्गस्ते नार्हस्त्वं पार्थिवात्मज ।।

न च प्रज्ञायसे गच्छ पतस्वेति तमब्रवीत् ।
पतेयं सत्स्विति वचस्त्रिरुत्त्का नहुषात्मजः ।।

पतिष्यंन्तयामास गतिं गतिमतां वरः।
एतस्मिन्नेव काले तु नैमिषे पार्थिवर्षभान् ।।

चतुरोऽपश्यत नृपस्तेषां मध्ये पपात ह ।
प्रतर्दनो वसुमनाः शिबिरौशीनरोऽष्टकः ।।

वाजपेयेन यज्ञेन तर्पयन्ति सुरेश्वरम् ।
तेषामध्वरजं धूमं स्वर्गद्वारमुपस्थितम् ।।

ययातिरुपजिघ्रन्वै निपपात महीं प्रति ।
भूमौ स्वर्गे च संबद्धां नदीं धूममयीमिव ।
गङ्गां गामिव गच्छन्तीमालम्ब्य जगतीपतिः ।।

श्रीमत्स्ववभृथाग्र्‌येषु चतुर्षु प्रतिबन्धुषु ।
मध्ये निपतितो राजा लोकपालोपमेषु सः ।।

चतुर्षु हुतकल्पेषु राजसिंहमहाग्निषु ।
पपात मध्ये राजर्षिर्ययातिः पुण्यसङ्क्षये ।।

तमाहुः पार्थिवाः सर्वे दीप्यमानमिव श्रिया ।
को भवान्कस्य वा बन्धुर्देशस्य नगरस्य वा ।।

यक्षो वाऽप्यथवा देवो गन्धर्वो राक्षसोऽपि वा ।
न हि मानुषरूपोसि कोवार्थः काङ्क्ष्यते त्वया ।।

ययातिरुवाच।

ययातिरस्मि राजर्षिः क्षीणपुण्यश्च्युतो दिवः।
पतेयं सत्स्विति ध्यायन्भवत्सु पतितस्ततः ।।

राजान ऊचुः ।

सत्यमेतद्भवतु ते काङ्क्षितं पुरुषर्षभ ।
सर्वेषां नः क्रतुफलं धर्मश्च प्रतिगृह्यताम् ।।

ययातिरुवाच।

नाहं प्रतिग्रहधनो ब्राह्मणः क्षत्रियोऽह्यहम्।
न च मे प्रवणा बुद्धिः परपुण्यविनाशने ।।

नारद उवाच।

एतस्मिन्नेव काले तु मृगचर्याक्रमागताम्।
माधवीं प्रेक्ष्य राजानस्तेऽभिवाद्येदमब्रुवन् ।।

किमागमनकृत्यं ते किं कुर्मः शासनं तव।
आज्ञाप्या हि वयं सर्वे तव पुत्रास्तपोधने ।।

नारद उवाच।

तेषां तद्भाषितं श्रुत्वा माधवी परया मुदा।
पितरं समुपागच्छद्ययातिं सा ववन्द च ।।

स्पृष्ट्वा मूर्धनि तान्पुत्रांस्तापसी वाक्यमब्रवीत् ।
दौहित्रास्तव राजेन्द्र मम पुत्रा न ते पराः ।।

इमे त्वां तारयिष्यन्ति दिष्टमेतत्पुरातनम् ।
अहं ते दुहिता राजन्माधवी मृगचारिणी ।।

मयाऽप्युपचितो धर्मस्ततोऽर्धं प्रतिगृह्यताम् ।
यस्माद्राजन्नराः सर्वे अपत्यफलभागिनः ।।

तस्मादिच्छन्ति दौहित्रान्यथा त्वं वसुधाधिप ।

नारद उवाच।

ततस्ते पार्थिवाः सर्वे शिरसा जननीं तदा ।।

अभिवाद्य नमस्कृत्य मातामहमथाब्रुवन् ।
उच्चैरनुपमैः स्निग्धैः स्वरैरापूर्य मेदिनीम् ।
मातामहं नृपतयस्तारयन्तो दिवश्च्युतम् ।

` राजान ऊचुः ।

राजधर्मगुणोपेताः सत्यधर्मगुणान्विताः।
दौहित्रास्ते वयं राजन्दिवमारोह पार्थिव ।।

नारद उवाच।'

अथाकस्मादुपगतो गालवोऽप्याह पार्थिवम् ।
तपसो मेऽष्टभागेन स्वर्गमारोहतां भवान् ।।

।। इति श्रीमन्महाभारते
उद्योगपर्वणि भगवद्यानपर्वणि
एकविंशत्यधिकशततमोऽध्यायः ।।