उद्योगपर्व

अध्यायः १२३

Udyoga Parva (Sanskrit) · Adhyaya 123
अक्षर का आकार

नारद उवाच।

सद्भिरारोपितः स्वर्गं पार्थिवैर्भूरिदक्षिणैः ।
अभ्यनुज्ञाय दौहित्रान्ययातिर्दिवमास्थितः ।।

अभिवृष्टश्च वर्षेण नानापुष्पसुगन्धिना।
परिष्वक्तश्च पुण्येन वायुना पुण्यगन्धिना ।।

अचलं स्थानमासाद्य दौहित्रफलनिर्जितम् ।
कर्मभिः स्वैरुपचितो जज्वाल परया श्रिया ।।

उपगीतोपनृत्तश्च गन्धर्वाप्सरसां गणैः ।
प्रीत्या प्रतिगृहीतश्च स्वर्गे दुन्दुभिनिःस्वनैः ।।

अभिष्टुतश्च विविधैर्देवराजर्षिचारणैः ।
अर्चितश्चोत्तमार्घेण दैवतैरभिनन्दितः ।।

प्राप्तः स्वर्गफलं चैव तमुवाच पितामहः ।
निर्वृतं शान्तमनसं वचोभिस्तर्पयन्निव ।।

चतुष्पादस्त्वया धर्मश्रितो लोक्येन कर्मणा ।
अक्षयस्तव लोकोऽयं कीर्तिश्चैवाक्षया दिवि ।।

पुनस्त्वयैव राजर्षे स्वकृतेन विघातितम्।
आवृतं तमसा चेतः सर्वेषां स्वर्गवासिनाम् ।।

येन त्वां नाभिजानन्ति ततोऽज्ञातोसि पातितः ।
प्रीत्यैव चासि दौहित्रैस्तारितस्त्वमिहागतः ।।

स्थानं च प्रतिपन्नोऽसि कर्मणा स्वेन निर्जितम् ।
अचलं शाश्वतं पुण्यमुत्तमं ध्रुवमव्ययम् ।।

ययातिरुवाच।

भगवन्संशयो मेऽस्ति कश्चितं छेत्तुमर्हसि ।
न ह्यन्यमहमर्हामि प्रष्टुं लोकपितामह ।।

बहुवर्षसहस्रान्तं प्रजापालनवर्धितम्।
अनेकक्रतुदानौघैरार्जितं मे महत्फलम् ।।

कथं तदल्पकालेन क्षीणं येनास्मि पातितः ।
भगवन्वेत्थ लोकांश्च शाश्वतान्मम निर्मितान् ।
कथं नु मम तत्सर्वं विप्रनष्टं महाद्युते ।।

पितामह उवाच।

बहुवर्षसहस्रान्तं प्रजापालनवर्धितम्।
अनेकक्रतुदानौघैर्यत्त्वयोपार्जितं फलम् ।।

तदनेनैव दोषेण क्षीणं येनासि पातितः।
अभिमानेन राजेन्द्र धिक्कृतः स्वर्गवासिभिः ।।

नायं मानेन राजर्षे न बलेन न हिंसया।
न शाठ्येन न मायाभिर्लोको भवति शाश्वतः ।।

नावमान्यास्त्वया राजन्नधमोत्कृष्टमध्यमाः।
न हि मानप्रदग्धानां कश्चिदस्ति शमः क्वचित् ।।

पतनारोहणमिदं कथयिष्यन्ति ये नराः ।
विषमाण्यपि ते प्राप्तास्तरिष्यन्ति न संशयः ।।

नारद उवाच।

एष दोषोऽभिमानेन पुरा प्राप्तो ययातिना ।
निर्बध्नताऽतिमात्रं च गालवेन महीपते ।।

श्रोतव्यं हितकामानां सुहृदां हितमिच्छताम्।
न कर्तव्यो हि निर्बन्धो निर्बन्धो हि क्षयोदयः ।।

तस्मात्त्वमपि गान्धारे मानं क्रोधं च वर्जय ।
सन्धत्स्व पाण्डवैर्वीर संरम्भं त्यज पार्थिव ।।

स भवान्सुहृदां पथ्यं वचो गृह्णातु माऽनृतम् ।
समर्थैर्विग्रहं कृत्वा विषमस्थो भविष्यसि ।।

ददाति यत्पार्थिव यत्करति
यद्वा तपस्तप्यति यञ्जुहोति।
न तस्य नाशोऽस्ति न चापकर्षो
नान्यस्तदश्नाति स एव कर्ता ।।

इदं महाख्यानमनुत्तमं हितं
बहुश्रुतानां गतरोषरागिणाम्।
समीक्ष्य लोके बहुधा प्रधारितं
त्रिवर्गदृष्टिः पृथिवीमुपाश्नुते ।।

` एतत्पुण्यतमं राजन्ययातेश्चरितं महत्।
यच्छ्रुत्वा श्रावयित्वा च स्वर्गं यान्तीह मानवाः ।।'

।। इति श्रीमन्महाभारते
उद्योगपर्वणि भगवद्यानपर्वणि
त्रयोविंशत्यधिकशततमोऽध्यायः ।।