उद्योगपर्व
अध्यायः १२०
नारद उवाच।
स तु राजा पुनस्तस्याः कर्तुकामः स्वयंवरम्।
उपगम्याश्रमपदं गङ्गायामुनसङ्गमे ।।
गृहीतमाल्यदामां तां रथमारोप्य माधवीम् ।
पूरुर्यदुश्च भगिनीमाश्रमे पर्यधावताम् ।।
नागयक्षमनुष्याणां गन्धर्वमृगपक्षिणाम् ।
शैलद्रुमवनौकानामासीत्तत्र समागमः ।।
नानापुरुषदेश्यानामीश्वरैश्च समाकुलम् ।
ऋषिभिर्ब्रह्मकल्पैश्च समन्तादावृतं वनम् ।।
निर्दिश्यमानेषु तु सा वरेषु वरवर्णिनी ।
वरानुत्क्रम्य सर्वास्तान्वरं वृतवती वनम् ।।
अवतीर्य रथात्कन्या नमस्कृत्य च बन्धुषु।
उपगम्य वनं पुण्यं तपस्तेपे ययातिजा ।।
उपवासैश्च विविधैर्दीक्षाभिर्नियमैस्तथा ।
आत्मनो लघुतां कृत्वा बभूव मृगचारिणी ।।
वैदूर्याङ्कुरकल्पानि मृदूनि हरितानि च।
चरन्ती श्लक्ष्णशष्पाणि तिक्तानि मधुराणि च ।।
स्रवन्तीनां च पुण्यानां सुरसानि सुचीनि च।
पिबन्ती वारिमुख्यानि शीतानि विमलानि च।।
वनेषु मृगराजेषु व्याघ्रविप्रोषितेषु च ।
दावाग्निविप्रयुक्तेषु शून्येषु गहनेषु च ।।
चरन्ती हरिणैः सार्धं मृगीव वनचारिणी ।
चचार विपुलं धर्मं ब्रह्मचर्येण संवृतम् ।।
ययातिरपि पूर्वेषां राज्ञां वृत्तमनुष्ठितः।
बहुवर्षसहस्रायुर्युयुजे कालधर्मणा ।।
पुरुर्यदुश्च द्वौ वंशे वर्धमानौ नरोत्तमौ ।
ताभ्भां प्रतिष्ठितो लोके परलोके च नाहुषः ।।
महीपते नरपतिर्ययातिः स्वर्गमास्थितः।
महर्षिकल्पो नृपतिः स्वर्गाग्र्यफलभुग्विभुः ।।
बहुवर्षसहस्राख्ये काले बहुगुणे गते।
राजर्षिषु निषण्णेषु महीयःसु महर्धिषु ।।
अवमेने नरान्सर्वान्देवानृषिगणांस्तथा।
ययातिर्मूढविज्ञानो विस्मयाविष्टचेतनः ।।
ततस्तं बुबुधे देवः शक्रो बलनिषूदनः ।
ते च राजर्षयः सर्वे धिग्धिगित्येवमब्रुवन् ।।
विचारश्च समुत्पन्नो निरीक्ष्य नहुषात्मजम् ।
कोऽन्वयं कस्य वा राज्ञः कथं वा स्वर्गमागतः ।।
कर्मणा केनसिद्धोऽयं क्व वाऽनेन तपश्चितम्।
कथं वा ज्ञायते स्वर्गे केन वा ज्ञायतेऽप्युत ।।
एवं विचास्यन्तस्ते राजानं स्वर्गवासिनः ।
दृष्ट्वा पप्रच्छुरन्योन्यं ययातिं नृपतिं प्रति ।।
विमानपालाः शतशः स्वर्गद्वाराभिरक्षिणः ।
पृष्टा आसनपालाश्च न जानीमेत्यथाऽब्रुवन् ।।
सर्वे ते ह्यावृतज्ञाना नाभ्यजानन्त तं नृपम् ।
स मुहूर्तादथ नृपो हतौजाश्चाभवत्तदा ।।
।। इति श्रीमन्महाभारते
उद्योगपर्वणि भगवद्यानपर्वणि
विंशत्यधिकशततमोऽध्यायः ।।