उद्योगपर्व

अध्यायः ११९

Udyoga Parva (Sanskrit) · Adhyaya 119
अक्षर का आकार

नारद उवाच।

गालवं वैनतेयोऽथ प्रहसन्निदमब्रवीत्।
दिष्ट्या कृतार्थं पश्यामि भवन्तमिह वै द्विज ।।

गालवस्तु वचः श्रुत्वा वैनतेयेन भाषितम् ।
चतुर्भागावशिष्टं तदाचख्यौ कार्यमस्य हि ।।

सुपर्णस्त्वब्रवीदेनं गालवं वदतां वरः।
प्रयत्नस्ते न कर्तव्यो नैष संपत्स्यते तव ।।

पुरा हि कान्यकुब्जे वै गाधेः सत्यवतीं सुताम्।
भार्यार्थे वरयत्कन्यामृचीकस्तेन भाषितः।।

एकतःश्यामकर्णानां हयानां चन्द्रवर्चसाम् ।
भगवन्दीयतां मह्यं सहस्रमिति गालव ।।

ऋचीकस्तु तथेत्युक्त्वा वरुणस्यालयं गतः।
अश्वतीर्थे हयाँल्लब्ध्वा दत्तवान्पार्थिवाय वै ।।

इष्ट्वा ते पुण्डरीकेण दत्ता राज्ञा द्विजातिषु।
तेभ्यो द्वे द्वे शते क्रीत्वा प्राप्ते तैः पार्थिवैस्तदा ।।

अपराण्यपि चत्वारि शतानि द्विजसत्तम ।
नीयमानानि संतारे हृतान्यासन्नितस्ततः।।

एवं न शक्यमप्राप्यं प्राप्तुं गालव कर्हिचित् ।
इमामश्वशताभ्यां वै द्वाभ्यां तस्मै निवेदय ।।

विश्वामित्राय धर्मात्मन्षड्भिरश्वशतैः सह।
ततोऽसि गतसंमोहः कृतकृत्यो द्विजोत्तम ।।

गालवस्तं तथेत्युक्त्वा सुपर्णसहितस्ततः ।
आदायाश्वांश्च कन्यां च विश्वामित्रमुपागमत् ।।

अश्वानां काङ्क्षितार्थानां षडिमानि शतानि वै ।
शतद्वयेन कन्येयं भवता प्रतिगृह्यताम् ।।

अस्यां राजर्षिभिः पुत्रा जाता वै धार्मिकास्त्रयः ।
चतुर्थं जनयत्वेकं भवानपि नरोत्तमम् ।।

पूर्णान्येवं शतान्यष्टौ तुरगाणां भवन्तु ते।
भवतो ह्यनृणो भूत्वा तपः कुर्यां यथासुखम् ।।

विश्वामित्रस्तु तं दृष्ट्वा गालवं सह पक्षिणा।
कन्यां च तां वरारोहामिदमित्यब्रवीद्वचः ।।

किमियं पूर्वमेवेह न दत्ता मम गालव।
पुत्रा ममैव चत्वारो भवेयुः कुलभावनाः ।।

प्रतिगृह्णामि ते कन्यामेकपुत्रफलाय वै ।
अश्वाश्चाश्रममासाद्य चरन्तु मम सर्वशः ।।

नारद उवाच।

स तया रममाणोऽथ विश्वामित्रो महाद्युतिः ।
आत्मजं जनयामास माधवीपुत्रमष्टकम् ।।

जातमात्रं सुतं तं च विश्वामित्रो महामुनिः ।
संयोज्यार्थैस्तथा धर्मैरश्वैस्तैः समयोजयत् ।।

अथाष्टकः पुरं प्रायात्तदा सोमपुरप्रभम् ।
निर्यात्य कन्यां शिष्याय कौशिकोपि वनं ययौ ।।

गालवोपि सुपर्णेन सह निर्यात्य दक्षिणाम्।
मनसाऽतिप्रतीतेन कन्यामिदमुवाच ह ।।

जातो दानपतिः पुत्रस्त्वया शूरस्तथाऽपरः।
सत्यधर्मरतश्चान्यो यज्वा चापि तथाऽपरः ।।

तदागच्छ वरारोहे तारितस्ते पिता सुतैः ।
चत्वारश्चैव राजानस्तथा चाहं सुमध्यमे ।।

नारद उवाच।

गालवस्त्वभ्यनुज्ञाय सुपर्णं पन्नगाशनम् ।
पितुर्निर्यात्य तां कन्यां प्रययौ वनमेव ह ।।

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवाद्यनपर्वणि एकोनविंशत्यधिकशततमोऽध्यायः ।।