उद्योगपर्व
अध्यायः ११८
नारद उवाच।
तथैव तां श्रियं त्यक्त्वा कन्या भूत्वा यशस्विनी ।
माधवी गालवं विप्रमभ्ययात्सत्यसङ्गरा ।।
गालवो विमृशन्नेव स्वकार्यगतमानसः ।
जगाम भोजनगरं द्रष्टुमौशीनरं नृपम् ।।
तमुवाचाथ गत्वा स नृपतिं सत्यविक्रमम्।
इय कन्या सुतौ द्वौ ते जनयिष्यति पार्थिवौ ।।
अस्यां भवानवाप्तार्थो भविता प्रेत्य चेह च।
सोमार्कप्रतिसङ्काशौ जनयित्वा सुतौ नृप ।।
शुल्कं तु सर्वधर्मज्ञ हयानां चन्द्रवर्चसाम्।
एकतःश्यामकर्णानां देयं मह्यं चतुःशतम् ।।
गुर्वर्थोऽयं समारम्भो न हयैः कृत्यमस्ति मे।
यदि शक्यं महाराज क्रियतामविचारितम् ।।
अनपत्योऽसि राजर्षे पुत्रौ जनय पार्थिव ।
पितॄन्पुत्रप्लवेन त्वमात्मानं चैव तारय ।।
न पुत्रफलभोक्ता हि राजर्षे पात्यते दिवः।
न याति नरकं घोरं यत्र गच्छन्त्यनात्मजाः ।।
एतच्चान्यच्च विविधं श्रुत्वा गालवभाषितम् ।
उशीनरः प्रतिवचो ददौ तस्य नराधिपः ।।
श्रुतवानस्मि ते वाक्यं यथा वदसि गालव ।
विधिस्तु बलवान्ब्रह्मन्प्रवणं हि मनो मम ।।
शते द्वे तु ममाश्वानामीदृशानां द्विजोत्तम।
इतरेषां सहस्राणि सुबहूनि चरन्ति मे ।।
अहमप्येकमेवास्यां जनयिष्यामि गालव ।
पुत्रवद्भिर्गतं मार्गं गमिष्यामि परैरहम् ।।
मूल्येनापि समं कुर्यां तवाहं द्विजसत्तम।
पौरजानपदार्थं तु ममार्थो नात्मभोगतः ।।
कामतो हि धनं राजा पारक्यं यः प्रयच्छति।
न स धर्मेण धर्मात्मन्युज्यते यशसा न च ।।
सोऽहं प्रतिग्रहीष्यामि ददात्वेतां भवान्मम ।
कुमारीं देवगर्भाभामेकपुत्रभवाय मे।।
तथा तु बहुधा कन्यामुक्तवन्तं नराधिपम् ।
उशीनरं द्विजश्रेष्ठो गालवः प्रत्यपूजयत् ।।
उशीनरं प्रतिग्राह्य गालवः प्रययौ वनम् ।
रेमे स तां समासाद्य कृतपुण्य इव श्रियम् ।।
कन्दरेषु च शैलानां नदीनां निर्झरेषु च।
उद्यानेषु विचित्रेषु वनेषूपवनेषु च ।।
हर्म्येषु रमणीयेषु प्रासादशिखरेषु च।
वातायनविमानेषु तथा गर्भगृहेषु च।।
ततोऽस्य समये यज्ञे पुत्रो बालरविप्रभः ।
शिबिर्नाम्नाभिविख्यातो यः स पार्थिवसत्तमः ।।
उपस्थाय स तं विप्रो गालवः प्रतिगृह्य च।
कन्यां प्रयातस्तां राजन्दृष्टवान्विनतात्मजम् ।।
।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि अष्टादशाधिकशततमोऽध्यायाः ।।