उद्योगपर्व

अध्यायः ११७

Udyoga Parva (Sanskrit) · Adhyaya 117
अक्षर का आकार

गालव उवाच।

महावीर्यो महीपालः काशीनामीश्वरः प्रभुः।
दिवोदास इति ख्यातो भैमसेनिर्नराधिपः ।।

तत्र गच्छावहे भद्रे शनैरागच्छ मा शुचः ।
धार्मिकः संयमे युक्तः सत्ये चैव जनेश्वरः ।।

नारद उवाच।

तमुपागम्य स मुनिर्न्यायतस्तेन सत्कृतः।
गालवः प्रसवस्यार्थे तं नृपं प्रत्यचोदयत् ।।

दिवोदाम उवाच।

श्रुतमेतन्मया पूर्वं किमुक्त्वा विस्तरं द्विज।
काङ्क्षितो हि मयैषोऽर्थः श्रुत्वैव द्विजसत्तम ।।

एतच्च मे बहुमतं यदुत्सृज्य नराधिपान्।
मामेवमुपयातोऽसि भावि चैतदसंशयम् ।।

स एव विभवोऽसमाकमश्वानामपि गालव।
अहमप्येकमेवास्यां जनयिष्यामि पार्थिवम् ।।

नारद उवाच।

तथेत्युक्त्वा द्विजश्रेष्ठः प्रादात्कन्यां महीपतेः।
विधिपूर्वां च तां राजा कन्यां प्रतिगृहीतवान् ।।

रेमे स तस्यां राजर्षिः प्रभावत्यां यथा रविः।
स्वाहायां च यथा वह्निर्यथा शाच्यां च वासवः ।।

यथा चन्द्रश्च रोहिण्यां यथा धूमोर्णया यमः।
वरुणश्च यथा गौर्यां यथा चर्ध्यां धनेश्वरः ।।

यथा नारायणो लक्ष्म्यां जाह्नव्यां च यथोदधिः ।
यथा रुद्रश्च रुद्राण्यां यथा वेद्यां पितामहः ।।

अदृश्यन्त्यां च वासिष्ठो वसिष्ठश्चाक्षमालया।
च्यवनश्च सुकन्यायां पुलस्त्यः सन्ध्यया यथा ।।

अगस्त्यश्चापि वैदर्भ्यां सावित्र्यां सत्यवान्यथा।
यथा भृगुः पुलोमायामदित्यां कश्यपो यथा ।।

रेणुकायां यथार्चीको हैमवत्यां च कौशिकः।
बृहस्पतिश्च तारायां शुक्रश्च शतपर्वणा ।।

यथा भूम्यां भूमिपतिरुर्वश्यां च पुरूरवाः।
ऋचीकः सत्यवत्यां च सरस्वस्यां यथा मनुः ।।

शकुन्तलायां दुष्यन्तो धृत्यां धर्मश्च शाश्वतः।
दमयन्त्यां नलश्चैव सत्यवत्यां च नारदः ।।

जरत्कारुर्जरत्कार्वां पुलस्त्यश्च प्रतीच्यया।
मेनकायां यथोर्णायुस्तुम्बुरुश्चैव रम्भया ।।

वासुकिः शतशीर्षायां कुमार्यां च धनञ्जयः।
वैदेह्यां च यथा रामो रुक्मिण्यां च जनार्दनः ।।

तथा तु रममाणस्य दिवोदासस्य भूपतेः ।
माधवी जनयामास पुत्रमेकं प्रतर्दनम् ।।

अथाजगाम भगवान्दिवोदासं स गालवः ।
समये समनुप्राप्ते वचनं चेदमब्रवीत् ।।

निर्यातयतु मे कन्यां भवांस्तिष्ठन्तु वाजिनः ।
यावदन्यत्र गच्छामि शुल्कार्थं पृथिवीपते ।।

नारद उवाच।

दिवोदासोऽथ धर्मात्मा समये गालवस्य ताम्।
कान्यां निर्यातयामास स्थितः सत्ये महीपतिः ।।

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि सप्तदशाधिकशततमोऽध्यायः ।।