उद्योगपर्व

अध्यायः ११३

Udyoga Parva (Sanskrit) · Adhyaya 113
अक्षर का आकार

नारद उवाच।

ऋषभस्य ततः शृङ्गं निपत्य द्विजपक्षिणौ।
शाण्डिलीं ब्राह्मणीं तत्र ददृशो तपोन्विताम् ।।

अभिवाद्य सुपर्णस्तु गालवश्चाभिपूज्य ताम्।
तया च स्वागतेनोक्तौ विष्टरे सन्निषीदतुः ।।

सिद्धमन्नं तया दत्तं बलिमन्त्रोपबृंहितम् ।
भुक्त्वा तृप्तावुभौ भूमौ सुप्तौ तावनुमोहितौ ।।

मुहूर्तात्प्रतिबुद्धस्तु सुपर्णो गमनेप्सया ।
` तां दृष्ट्वा चारुसर्वाङ्गी तापसीं ब्रह्मचारिणीम् ।।

ग्रहीतुं हि मनश्चक्रे रूपात्साक्षादिव श्रियम् ।'
अथ भ्रष्टतनूजाङ्गमात्मानं ददृशे खगः ।।

मांसपिण्डोपमोऽभूत्स मुखपादान्वितः खगः।
गालवस्तं तथा दृष्ट्वा विमनाः पर्यपृच्छत ।।

किमिदं भवता प्राप्तमिहागमनजं फलम्।
वासोऽयमिह कालं तु कियन्तं नौ भविष्यति ।।

किं नु ते मनसा ध्यातमशुभं धर्मदूषणम् ।
न ह्ययं भवतः स्वल्पो व्यभिचारो भविष्यति ।।

सुपर्णोऽथाब्रवीद्विप्रं प्रध्यातं वै मया द्विज ।
इमां सिद्धामितो नेतुं तत्र यत्र प्रजापतिः ।।

यत्र देवो महादेवो यत्र विष्णुः सनातनः ।
यत्र धर्मश्च यज्ञश्च तत्रेयं निवसेदिति ।।

सोऽहं भगवतीं याचे प्रणतः प्रियकाम्यया।
मयैतन्नाम प्रध्यातं मनसा शोचसा किल ।।

तदेवं बहुमानात्ते मयेहानीप्सितं कृतम् ।
सुकृतं दुष्कृतं वा त्वं माहात्म्यात्क्षन्तुमर्हसि ।।

सा तौ तदाऽब्रवीत्तुष्टा पतगेन्द्रद्विजर्षभौ।
न भेतव्यं सुपर्णोऽसि सुपर्ण त्यज संभ्रमम् ।।

निन्दितास्मि त्वया वत्स न च निन्दां क्षमाम्यहम् ।
लोकेभ्यः सपदि भ्रश्येद्यो मां निन्देत पापकृत् ।।

हीनयाऽलक्षणैः सर्वैस्तथाऽनिन्दितया मया।
आचारं प्रतिगृह्णन्त्या सिद्धिः प्राप्तेयमुत्तमा ।।

आचारः फलते धर्ममाचारः फलते धनम् ।
आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणम् ।।

तदायुष्मन्खगपते यथेष्टं गम्यतामितः ।
न च ते गर्हणीयाऽहं गर्हितव्याः स्त्रियः क्वचित् ।।

` यदि त्वमात्मनो ह्यर्थे मां चैवादातुमिच्छसि।
तदेव नष्टदेहस्तु स्या वै त्वं पन्नगाशन ।।

तस्यैव हि प्रसादेन देवदेवस्य चिन्तनात् ।
त्वं तु साङ्गस्तु सञ्जातः पुनरेव भविष्यसि ।।'

भवितासि यथापूर्वं बलवीर्यसमन्वितः ।

नारद उवाच।

बभूवतुस्ततस्तस्य पक्षौ द्रविणवत्तरौ ।।

अनुज्ञातस्तु शाण्डिल्या यथागतमुपागमत् ।
नैव चासादयामास तथारूपांस्तुरङ्गमान् ।।

विश्वामित्रोऽथ तं दृष्ट्वा गालवं चाध्वनि स्थितः ।
उवाच वदतां श्रेष्ठो वैनतेयस्य सन्निधौ ।।

यस्त्वया स्वयमेवार्थः प्रतिज्ञातो मम द्विज।
तस्य कालोऽपवर्गस्य यथा वा मन्यते भवान् ।।

प्रतीक्षिष्याम्यहं कालमेतावन्तं तथा परम् ।
यथासंसिध्यते विप्र स मार्गस्तु निशाम्यताम् ।।

सुपर्णोऽथाब्रवीद्दीनं गालवं भृशदुःखितम् ।
प्रत्यक्षं खल्विदानीं मे विश्वामित्रो यदुक्तवान् ।।

तदागच्छ द्विजश्रेष्ठ मन्त्रयिष्याव गालव ।
नादत्त्वा गुरवे शक्यं कृत्स्नमर्थं त्वयाऽऽसितुम् ।।

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि त्रयोदशाधिकशततमोऽध्यायः ।।