उद्योगपर्व
अध्यायः ११४
नारद उवाच।
अथाह गालवं दीनं सुपर्णः पततां वरः।
निर्मितं वह्निना भूमौ वायुना शोधितं तथा।
यस्माद्धिरण्मयं सर्वं हिरण्यं तेन चोच्यते ।।
धत्ते धारयते चेदमतस्मात्कारणाद्धनम् ।
तदेतत्रिषु लोकेषु धनं तिष्ठति शाश्वतम् ।।
नित्यं प्रोष्ठपदाभ्यां च शुक्रे धनपतौ तथा।
मनुष्येभ्यः समादत्ते शुक्रश्चित्तार्जितं धनम् ।।
अजैकपादहिर्बुध्न्यौ रक्ष्येते धनदेन च।
एवं न शक्यते लब्धुमलब्धव्यं द्विजर्षभ ।
ऋते च धनमश्वानां नावाप्तिर्विद्यते तव ।।
स त्वं याचात्र राजानं कंचिद्राजर्षिवंशजम् ।
अपीड्य राजा पौरान्हि यो नौ कुर्यात्कृतार्थिनौ ।।
अस्ति सोमान्ववाये मे जातः कश्चिन्नृपः सखा ।
अभिगच्छावहे तं वै तस्यास्ति विभवो भुवि ।।
ययातिर्नाम राजर्षिर्नोहुषः सत्यविक्रमः ।
स दास्यति मया चोक्तो भवता चार्थितः स्वयम् ।।
विभवश्चास्य सुमहानासीद्धनपतेरिव ।
एवं गुरुधनं विद्वन्दानेनैव विशोधय ।।
तथा तौ कथयन्तौ च चिन्तयन्तौ च यत्क्षमम्।
प्रतिष्ठाने नरपतिं ययातिं प्रत्युपस्थितौ ।।
प्रतिगृह्य च सत्कारैरर्घ्यपाद्यादिकं वरम् ।
पृष्टश्चागमने हेतुमुवाच विनतासुतः ।।
अयं मे नाहुष सखा गालवस्तपसो निधिः ।
विश्वामित्रस्य शिष्योऽभूद्वर्षाण्ययुतशो नृप ।।
सोऽयं तेनाभ्यनुज्ञात उपकारेप्सया द्विजः।
तमाह भगवान्किं ते ददानि गुरुदक्षिणाम् ।।
असकृत्तेन चोक्तेन किंचिदागतमन्युना ।
अयमुक्तः प्रयच्छेति जानता विभवं लघु ।।
एकतःश्यामकर्णानां शुभ्राणां शुद्धजन्मनाम् ।
अष्टौ शतानि मे देहि हयानां चन्द्रवर्चसाम् ।।
गुर्वर्थो दीयतामेव यदि गालव मन्यसे ।
इत्येवमाह सक्रोधो विश्वामित्रस्तपोधनः ।।
सोऽयं शोकेन महता तप्यमानो द्विजर्षभः ।
अशक्तः प्रतिकर्तुं तद्भवन्तं शरणं गतः ।।
प्रतिगृह्य नरव्याघ्र त्वत्तो भिक्षां गतव्यथः ।
कृत्वाऽऽपवर्गं गुरवे चरिष्यति महत्तपः ।।
तपसः संविभागेन भवन्तमपि योक्ष्यते।
स्वेन राजर्षितपसा पूर्णं त्वां पूरयिष्यति ।।
यावन्ति रोमाणि हये भवन्तीह नरेश्वर ।
तावन्तो वाजिनो लोकान्प्राप्नुवन्ति महीपते ।।
पात्रं प्रतिग्रहस्यायं दातुं पात्रं तथा भवान् ।
शङ्खे क्षीरमिवासक्तं भवत्वेतत्तथोपमम् ।।
।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि चतुर्दशाधिकशततमोऽध्यायः ।।