उद्योगपर्व
अध्यायः ११२
गालव उवाच।
गरुत्मन्भुजगेन्द्रारे सुपर्ण विनतात्मज ।
नय मां तार्क्ष्य पूर्वेण यत्र धर्मस्य चक्षुषी ।।
पूर्वमेतां दिशं गच्छ या पूर्वं परिकीर्तिता ।
देवतानां हि सान्निध्यमत्र कीर्तितवानसि ।।
अत्र सत्यं च धर्मश्च त्वया सम्यक्प्रकीर्तितः।
इच्छेयं तु समागन्तुं समस्तैर्दैवतैरहम्।
भूयश्च तान्सुरान्द्रष्टुमिच्छेयमरुणानुज।।
नारद उवाच।
तमाह विनतासूनुरारोहस्वेति वै द्विजम्।
आरुरोहाथ स मुनिर्गरुडं गालवस्तदा ।।
गालव उवाच।
क्रममाणस्य ते रूपं दृश्यते पन्नगाशन।
भास्करस्येव पूर्वाह्णे सहस्रांशोर्विवस्वतः ।।
पक्षवातप्रणुन्नानां वृक्षाणामनुगामिनाम् ।
प्रस्थितानामिव समं पश्यामीह गतिं खग ।।
ससागरवनामुर्वी सशैलवनकाननाम् ।
आकर्षन्निव चाभासि पक्षवातेन खेचर ।।
समीननागनक्रं च खमिवारोप्यते जलम्।
वायुना चैव महता पक्षवातेन चानिशम् ।।
तुल्यरूपाननान्मत्स्यांस्तथा तिमितिमिङ्गिलान् ।
नागाश्वनरवक्रांश्च पश्याम्युन्मथितानिव ।।
महार्णवस्य च रवैः श्रोत्रे मे बधिरे कृते।
न श्रृणोमि न पश्यामि नात्मनो वेद्मि कारणम् ।।
शनैः स तु भवात्यातु ब्रह्मवध्यामनुस्मरन् ।
न दृश्यते रविस्तात न दिशो न च खं खग ।।
तम एव तु पश्यामि शरीरं ते न लक्षये ।
मणी व जात्यौ पश्यामि चक्षुषी तेऽहमण्डज ।।
शरीरं तु न पश्यामि तव चैवात्मनश्च ह।
पदेपदे तु पश्यामि शरीरादग्निमुत्थितम् ।।
स मे निर्वाप्य सहसा चक्षुषी शाम्यते पुनः।
तन्नियच्छ महावेगं गमने विनतात्मज ।।
न मे प्रयोजनं किंचिद्गमने पन्नगाशन ।
संनिवर्त महाभाग न वेगं विषहामि ते ।।
गुरवे संश्रुतानीह शतान्यष्टौ हि वाजिनाम् ।
एकतःश्यामकर्णानां शुभ्राणां चन्द्रवर्चसाम् ।।
तेषां चैवापवर्गाय मार्गं पश्यामि नाण्डज।
ततोऽयं जीवितत्यागे दृष्टो मार्गोमयाऽऽत्मनः ।।
नैव मेऽस्ति धनं किंचिन्न धनेनान्वितः सुहृत् ।
न चार्थेनापि महता शक्यमेतद्व्यपोहितुम् ।।
नारद उवाच।
एवं बहु च दीनं च ब्रुवाणं गालवं तदा।
प्रत्युवाच व्रजन्नेव प्रहसन्विनतात्मजः ।।
नातिप्रज्ञोऽसि विप्रर्षे योत्मानं त्युक्तुमिच्छसि ।
न चापि कृत्रिमः कालः कालो हि परमेश्वरः ।।
किमहं पूर्वमेवेह भवता नाभिचोदितः।
उपायोऽत्र महानस्ति येनैतदुपपद्यते ।।
तदेष ऋषभो नाम पर्वतः सागरान्तिके।
अत्र विश्रम्य भुक्त्वा च निवर्तिष्याव गालव ।।
।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि द्वादशाधिकशततमोऽध्यायः ।।