उद्योगपर्व

अध्यायः १११

Udyoga Parva (Sanskrit) · Adhyaya 111
अक्षर का आकार

सपर्ण उवाच।

यस्मादुत्तार्यते पापाद्यस्मान्निश्रेयसोऽश्रुते ।
अस्मादुत्तारणबलादुत्तरेत्युच्यते द्विज ।। 1 ।।

उत्तरस्य हिरण्यस्य परिवापस्य गालव ।
मार्गः पश्चिमपूर्वाभ्यां दिग्भ्यां वै मध्यमः स्मृतः ।।

अस्यां दिशि वरिष्ठायामुत्तरायां द्विजर्षभ ।
नासौम्यो नाविधेयात्मा नाधर्मो वसते जनः ।।

अत्र नारायणः कृष्णो जिष्णुश्चैव नरोत्तमः ।
बदर्यामाश्रमपदे तथा ब्रह्मा च शाश्वतः ।।

अत्र वै हिमवत्पृष्ठे नित्यमास्ते महेश्वरः।
`प्रकृत्या पुरुषः सार्धं युगान्ताग्निसमप्रभः ।।

न स दृश्यो मुनिगणैस्तथा देवैः सवासवैः ।
गन्धर्वयक्षसिद्धैर्वा नरनारायणादृते ।।

अत्र विष्णुः सहस्राक्षः सहस्रचरणोऽव्ययः ।
सहस्रशिरसः श्रीमानेकः पश्यति मायया।।'

अत्र राज्येन विप्राणां चन्द्रमाश्चाभ्यषिच्यत ।
अत्र गङ्गां महादेवः पतन्तीं गगनाच्च्युताम् ।।

प्रतिगृह्य ददौ लोके मानुषे ब्रह्मवित्तम ।
अत्र देव्या तपस्तप्तं महेश्वरपरीप्सया ।।

अत्र कामश्च रोषश्च शैलश्चोमा च संबभुः ।
अत्र राक्षसयक्षाणां गन्धर्वाणां च गालव ।।

आधिपत्येन कैलासे धनदोऽप्यभिषेचितः।
अत्र चैत्ररथं रम्यमत्र वैखानसाश्रमः ।।

अत्र मन्दाकिनी चैव मन्दरश्च द्विजर्षभ ।
अत्र सौगन्धिकवनं नैर्ऋतैरभिरक्ष्यते।।

शाद्वलं कदलीस्कन्धमत्र सन्तानका नगाः।
अत्र संयमनित्यानां सिद्धानां स्वैरचारिणाम् ।।

विमानान्युनुरूपाणि कामभोग्यानि गालव ।
अत्र ते ऋषयः सप्त देवी चारुन्धती तथा ।।

अत्र तिष्ठति वै रात्रिन्दिवाप्यत्रावतिष्ठते।
अत्र यज्ञं समासाद्य ध्रुवं स्थाता पितामहः ।।

ज्योतींषि चन्द्रसूर्यौ च परिवर्तन्ति नित्यशः ।
अत्र गङ्गामहाद्वारं रक्षन्ति द्विजसत्तम ।।

धामा नाम महात्मानो मुनयः सत्यवादिनः ।
न तेषां ज्ञायते मूर्तिर्नाकृतिर्न तपश्चितम् ।।

परिवर्तसहस्रामि कामभोज्याननि गालव ।
यथायथा प्रविशति तस्मात्परतरं नरः ।

तथातथा द्विजश्रेष्ठ प्रविलीयति गालव ।
नैतत्केनचिदन्येन गतपूर्वं द्विजर्षभ ।।

ऋते नारायणं देवं नरं वा जिष्णुमव्ययम् ।
अत्र कैलासमित्युक्तं स्थानमैलविलस्य तत् ।।

अत्र विद्युत्प्रभा नाम जझिरेऽप्सरसो दश।
अत्र विष्णुपदं नाम क्रमता विष्णुना कृतम् ।।

त्रिलोकविक्रमे ब्रह्मन्नुत्तरां दिशमाश्रितम् ।
अत्र राज्ञा मरुतेन यज्ञेनेष्टं द्विजोत्तम।।

उशीरबीजे विप्रर्षे यत्र जाम्बूनदं सरः।
जीमूतस्यात्र विप्रर्षेरुपतस्थे महात्मनः ।।

साक्षाद्धैमवतः पुण्यो विमलः कनकाकरः ।
ब्राह्मणेषु च यत्कृत्स्नं स्वन्तं कृत्वा धनं महत् ।।

वव्रे धनं महर्षिः स जैमूतं तद्धनं ततः।
अत्र नित्यं दिशांपालाः सायंप्रातर्द्विजर्षभ ।।

कस्य कार्यं किमिति वै परिक्रोशान्ति गालव ।
एवमेषा द्विजश्रेष्ठ गुणैरन्यैर्दिगुत्तरा ।।

उत्तरेति परिख्याता सर्वकर्मस्तु चोत्तरा ।
एता विस्तरशस्तात तव शङ्गीर्तिता दिशः ।।

चतस्रः क्रमयोगेन कामाशां गन्तुमिच्छसि।
उद्यतोऽहं द्विजश्रेष्ठ तव दर्शयितुं दिशः।
पृथिवीं चाखिलां ब्रह्मंस्तस्मादारोह मां द्विज ।।

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि एकादशाधिकशततमोऽध्यायः ।।