उद्योगपर्व
अध्यायः ११०
सुपर्ण उवाच।
इयं दिग्दियिता राज्ञो वरुणस्य तु गोपतेः ।
सदा सलिलराजस्य प्रतिष्ठा चादिरेव च ।।
अत्र पश्चादहः सूर्यो विसर्जयति गाः स्वयम् ।
पश्चिमेत्यभिविख्याता दिगियं द्विजसत्तम ।।
यादसामत्र राज्येन सलिलस्य च गुप्तये ।
कश्यपो भगवान्देवो वरुणं स्माभ्यषेचयत् ।।
अत्र पीत्वा समस्तान्वै वरुणस्य रसांस्तु षट् ।
जायते तरुणः सोमः शुक्लस्यादौ तमिस्रहा ।।
अत्र पञ्चात्कृता दैत्या वायुना संयतास्तदा ।
निश्चसन्तो महावातैरर्दिताः सुषुपुर्द्विज ।।
अत्र सूर्यं प्रणयिनं प्रतिगृह्णाति पर्वतः ।
अस्तो नाम यतः सन्ध्या पश्चिमा प्रतिसर्यति ।।
अतो रात्रिश्च निद्रा च निर्गता दिवसक्षये।
जायते जीवलोकस्य हर्तुमर्धमिवायुषः ।।
अत्र देवीं दितिं सुप्तामात्मप्रसवधारिणीम् ।
विगर्भामकरोच्छक्रो यत्र जातो मरुद्गणः ।।
अत्र मूलं हिमवतो मन्दरं याति शाश्वतम् ।
अपि वर्षसहस्रेण न चास्यान्तोऽधिगम्यते ।।
अत्र काञ्चनशैलस्य काञ्चनाम्बुरुहस्य च।
उदधेस्तीरमासाद्य सुरभिः क्षरते पयः ।।
अत्र मध्ये समुद्रस्य कबन्धः प्रतिदृश्यते।
स्वर्भानोः सूर्यकल्पस्य सोमसूर्यौ जिघांसतः ।।
सुवर्णशिरसोऽप्यत्र हरिरोम्णः प्रगायतः ।
अदृश्यस्याप्रमेयस्य श्रूयते विपुलो ध्वनिः ।।
अत्र ध्वजवती नाम कुमारी हरिमेधसः।
आकाशे तिष्ठतिष्ठेति तस्थौ सूर्यस्य शासनात् ।।
अत्र वायुस्तथा वह्निरापः खं चापि गालव ।
आह्निकं चैव नैशं च दुःखं स्पर्शं विमुञ्चति ।।
अतःप्रभृति सूर्यस्य तिर्यगावर्तते गतिः।
अत्र ज्योतींषि सर्वाणि विशन्त्यादित्यमण्डलम् ।।
अष्टाविंशतिरात्रं च क्रम्य सह भानुना।
निष्पतन्ति पुनः सूर्यात्सोमसंयोगयोगतः ।।
अत्र नित्यं स्रवन्तीनां प्रभवः सागरोदयः ।
अत्र लोकत्रयस्यापस्तिष्ठन्ति वरुणालये ।।
अत्र पन्नगराजस्याप्यनन्तस्य निवेशनम् ।
अनादिनिधनस्यात्र विष्णोः स्थानमनुत्तमम् ।।
अत्रानलसखस्यापि पवनस्य निवेशनम्।
महर्षेः कश्यपस्यात्र मारीचस्य निवेशनम् ।।
एष ते पश्चिमो मार्गो दिग्द्वारेण प्रकीर्तितः।
ब्रूहि गालव गच्छावो बुद्धिः का द्विजसत्तम ।।
।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि दशाधिकशततमोऽध्यायः ।।