उद्योगपर्व
अध्यायः १०९
सुपर्ण उवाच।
इयं विवस्वदा पूर्वं श्रौतेन विधिना किल।
गुरवे दक्षिणा दत्ता दक्षिणेत्युच्यते च दिक् ।।
अत्र लोकत्रयस्यास्य पितृपक्षः प्रतिष्ठितः।
अत्रोष्मपाणां देवानां निवासः श्रूयते द्विज ।।
अत्र विश्वे सदा देवाः पितृभिः सार्धमासते।
इज्यमानाः स्म लोकेषु संप्राप्तास्तुल्यभागताम् ।।
एतद्द्वितीयं देवस्य द्वारमाचक्षते द्विज।
त्रुटिशो लवशश्चापि गण्यते कालनिश्चयः ।।
अत्र देवर्षयो नित्यं पितृलोकर्षयस्तथा।
तथा राजर्षयः सर्वे निवसन्ति गतव्यथाः ।।
अत्र धर्मश्च सत्यं च कर्म चात्र निगद्यते।
गतिरेषा द्विजश्रेष्ठ कर्मणामवसायिनाम् ।।
एषा दिक्सा द्विजश्रेष्ठ यां सर्वः प्रतिपद्यते।
वृता त्वनवबोधेन सुखं तेन न गम्यते ।।
नैर्ऋतानां सहस्रामि बहून्यत्र द्विजर्षभ ।
सृष्टानि प्रतिकूलानि द्रष्टव्यान्यकृतात्मभिः ।।
अत्र मन्दरकुञ्जेषु विप्रर्षिसदनेषु च।
गायन्ति गाथा गन्धर्वाश्चित्तबुद्धिहरा द्विज ।।
अत्र सामानि गाथाभिः श्रुत्वा गीतानि रैवतः ।
गतदारो गतामात्यो गतराज्यो वनं गतः ।।
अत्र सावर्मिना चैव यवक्रीतात्मजेन च।
मर्यादा स्थापिता ब्रह्मन्यां सूर्यो नातिवर्तते ।।
अत्र राक्षसराजेन पौलस्त्येन महात्मना ।
रावणेन तपः कृत्वा सुरेभ्योऽमरता वृता ।।
अत्र वृत्तेन वृत्रोऽपि शक्रशत्रुत्वमेयिवान् ।
अत्र सर्वासवः प्राप्ताः पुनर्गच्छन्ति पञ्चधा ।।
अत्र दुष्कृतकर्माणो नराः पच्यन्ति गालव ।
अत्र वैतरणी नाम नदी वैतरणैर्वृता ।।
अत्र गत्वा सुखस्यान्तं दुःखस्यान्तं प्रपद्यते।
अत्रावृत्तो दिनकरः सुरसं क्षरते पयः ।।
काष्ठां चासाद्य वासिष्ठीं हिममुत्सृजते पुनः।
अत्राहं गालव पुरा क्षुधाऽऽर्तः परिचिन्तयन् ।।
लब्धवान्युध्यमानौ द्वौ बृहन्तौ गजकच्छपौ ।
अत्र चक्रधनुर्नाम सूर्याञ्जातो महानृषिः ।।
विदुर्यं कपिलं देवं येनार्ताः सगरात्मजाः ।
अत्र सिद्धाः शिवा नाम ब्राह्मणा वेदपारगाः ।।
अधीत्य सकलान्वेदाँल्लेभिरे मोक्षमक्षयम्।
अत्र भोगवती नाम पुरी वासुकिपालिता ।।
तक्षकेण च नागेन तथैवैरावतेन च।
अत्र निर्याणकालेऽपि तमः संप्राप्यते महत् ।।
अभेद्यं भास्करेणापि स्वयं वा कृष्णवर्त्मना ।
एष तस्यापि ते मार्गः परिचारस्य गालव ।
ब्रूहि मे यदि गन्तव्यं प्रतीचीं शृणु चापराम् ।।
।। इति श्रीमन्महाभरते उद्योगपर्वणि
भगवद्यानपर्वणि नवाधिकशततमोऽध्यायः ।।