उद्योगपर्व

अध्यायः १०८

Udyoga Parva (Sanskrit) · Adhyaya 108
अक्षर का आकार

सुपर्ण उवाच।

अनुशिष्टोऽस्मि देवेन गालव ज्ञानयोनिना।
ब्रूहि कामं तु कां यामि द्रष्टुं प्रथममो दिशम् ।।

पूर्वां वा दक्षिणां वाहमथवा पश्चिमां दिशम्।
उत्तरां वा द्विजश्रेष्ठ कुतो गच्छामि गालव ।।

यस्यामुदयते पूर्वं सर्वलोकप्रभावनः ।
सविता यत्र सन्ध्यायां साध्यानां वर्तते तपः ।।

यस्यां पूर्वं मतिर्जाता यया व्याप्तमिदं जगत्।
चक्षुषी यत्र धर्मस्य यत्र चैष प्रतिष्ठितः ।।

कृतं यतो हुतं हव्यं सर्पते सर्वतोदिशम् ।।
एतद्‌द्वारं द्विजश्रेष्ठ दिवसस्य तथाऽध्वनः ।।

अत्र पूर्वं प्रसूता वै दाक्षायण्यः प्रजाः स्त्रियः ।
यस्यां दिशि प्रवृद्धाश्च कश्यपस्यात्मसंभवाः ।।

अदोमूला सुराणां श्रीर्यत्र शक्रोऽभ्यषिच्यत।
सुरराज्येन विप्रर्षे देवैश्चात्र तपश्चितम् ।।

एतस्मात्कारणाद्ब्रह्मन्पूर्वेत्येषा दिगुच्यते।
यस्मात्पूर्वतरे काले पूर्वमेवावृतासुरैः ।।

अत एव च सर्वेषां पूर्वामाशां प्रचक्षते ।
पूर्वं सर्वाणि कार्याणि दैवानि सुखमीप्सता ।।

अत्र वेदाञ्जगौ पूर्वं भगवाँल्लोकभावनः ।
अत्रैवोक्ता सवित्रासीत्सावित्री ब्रह्मवादिषु ।।

अत्र दत्तानि सूर्येण यजूंषि द्विजसत्तम ।
अत्र लब्धवरः सोमः सुरैः क्रतुषु पीयते ।।

अत्र तृप्ता हुतवहाः स्वां योनिमुपभुञ्जते ।
अत्र पातालमाश्रित्य वरुणः श्रियमाप च ।।

अत्र पूर्वं वसिष्ठस्य पौराणस्य द्विजर्षभ ।
सूतिश्चैव प्रतिष्ठा च निधनं च प्रकाशते ।।

ओङ्कारस्यात्र जायन्ते सृतयो दशतीर्दश ।
पिबन्ति मुनयो यत्र हविर्धूमं स्म धूमपाः ।।

प्रोक्षिता यत्र बहवो वराहाद्या मृगा वने।
शक्रेण यज्ञभागार्थे दैवतेषु प्रकल्पिताः ।।

अत्राहिताः कृतघ्नाश्च मानुषाश्चासुराश्च ये।
उदयंस्तान्हि सर्वान्वै क्रोधाद्धन्ति विभावसुः ।।

एतद्द्वारं त्रिलोकस्य स्वर्गस्य च सुखस्य च।
एष पूर्वो दिशां भागो विशावोऽत्र यदीच्छसि ।।

प्रियं कार्यं हि मे तस्य यस्यास्मि वचने स्थितः।
ब्रूहि गालव यास्यामि शृणु चाप्यपरां दिशम् ।।

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि अष्टाधिकशततमोऽध्यायः ।।