स्त्रीपर्व
अध्यायः ९
`जनमेजय उवाच।
गते व्यासे तु धर्मात्मा धृतराष्ट्रो महीपतिः।
किमचेष्टत विप्रर्षे तन्मे व्याख्यातुमर्हसि।।
वैशम्पायन उवाच।
एतच्छ्रुत्वा नरश्रेष्ठश्चिरं ध्यात्वा त्वचेतनः।
सञ्जयं योजयेत्युक्त्वा विदुरं प्रत्यभाषत।।
क्षिप्रमानय गान्धारीं सर्वाश्च भरतस्त्रियः।
कुन्तीं चैव तथा क्षत्तः समानय ममाऽन्तिकम्'।।
एवमुक्त्वा स धर्मात्मा विदुरं धर्मवित्तमम्।
शोकविप्रहतज्ञानो यानमेवान्वरोहत।।
गान्धारी पुत्रशोकार्ता भर्तुर्वचननोदिता।
सह कुन्त्या यतो राजा सह स्त्रीभिरुपाद्रवत्।।
ताः समासाद्य राजानं भृशं शोकसमन्विताः।
आमन्त्र्यान्योन्यमायस्ता भृशमुच्चुक्रुशुस्ततः।।
ताः समाश्वासयत्क्षत्ता ताभ्यश्चार्ततरः स्वयम्।
अश्रुकण्ठीः समारोप्य ततोऽसौ निर्ययौ पुरात्।।
ततः प्रणादः सञ्जज्ञे सर्वेषु कुरुवेश्मसु।
आकुमारं पुरं सर्वमभवच्छोककर्शितम्।।
अदृष्टपूर्वा या नार्यः पुरा देवगणैरपि।
पृथग्जनेन दृश्यन्ते तास्तदा निहतेश्वराः।।
प्रकीर्य केशान्सुशुभान्भूषणान्यवमुच्य च।
एकवस्त्रधरा नार्यः परिपेतुरनाथवत्।।
श्वतेपर्वतरूपेभ्यो गृहेभ्यस्ता निराक्रमन्।
गुहाभ्य इव शैलानां पृषत्यो हतयूथपाः।।
तान्युदीर्णानि नारीणां तदा वृन्दान्यनेकशः।
शोकार्तान्यद्रवन्राजन्किशोरीणामिवाङ्गणे।।
प्रगृह्य बाहून्क्रोशन्त्यः पुत्रान्भ्रातॄन्पितॄनपि।
दर्शयन्ति हता हि स्म युगान्ते लोकसङ्क्षयम्।।
विलपन्त्यो रुदन्त्यश्च धावमानास्ततस्ततः।
शोकेनोपहतज्ञाताः कर्तव्यं न प्रजज्ञिरे।।
व्रीडां जग्मुः पुरा याः स्म सखीनामपि योषितः।
ता एकवस्त्रा निर्लज्जाः श्वश्रूणां पुरतोऽभवन्।।
परस्परं सुसूक्ष्मेषु शोकेष्वाश्वासयन्ति याः।
ताः शोकविह्वला राजन्नवैक्षन्त परस्परम्।।
ताभिः परिवृतो राजा रुदतीभिः सहस्रशः।
निर्ययौ नगराद्दीनस्तूर्णमायोधनं प्रति।।
शिल्पिनो वणिजो वैश्याः सर्वे कर्मोपजीविनः।
ते पार्थिवं पुरस्कृत्य निर्ययुर्नगराद्बहिः।।
तेषां विक्रोशमानानामार्तानां कुरुसङ्क्षये।
प्रादुरासीन्महाञ्शब्दो व्यथयन्भुवनान्युत।।
युगान्तकाले सम्प्राप्ते भूतानां दह्यतामिव।
अभावस्योदयः प्राप्त इति भूतानि मेनिरे।।
भृशमुद्विग्नमनसस्ते पौराः कुरुसङ्क्षये।
प्राक्रोशन्त महाराज स्वनुरक्तास्तदा भृशम्।।
।। इति श्रीमन्महाभारते स्त्रीपर्वणि
जलप्रदानिकपर्वणि नवमोऽध्यायः।। 9 ।।
वैशम्पायन उवाच।
विदुरस्य तु तद्वाक्यं श्रुत्वा तु पुरुषर्षभः।
युज्यतां यानमित्युक्त्वा पुनर्वचनमव्रवीत्।।
धृतराष्ट्र उवाच।
शीघ्रमानय गान्धारीं सर्वाश्च भरतस्त्रियः।
वधूं कुन्तीमुपादाय याश्चान्यास्तत्र योषितः।।