स्त्रीपर्व
अध्यायः ८
वैशम्पायन उवाच।
विदुरस्य तु तद्वाक्यं निशम्य कुरुसत्तमः।
पुत्रशोकाभिसन्तप्तः पपात भुवि मूर्छितः।।
तं तथा पतितं भूमौ निःसंज्ञं प्रेक्ष्य बान्धवाः।
कृष्णद्वैपायनश्चैव क्षत्ता च विदुरस्तथा।।
सञ्जयः सुहृदश्चान्ये द्वास्था ये चास्य सम्मताः।
जलेन सुखशीतेन तालवृन्तैश्च भारत।।
पस्पर्शुश्च करैर्गात्रं वीजमानाश्च यत्नतः।
अन्वासत चिरं कालं धृतराष्ट्रं तथाविधम्।।
अथ दीर्घस्य कालस्य लब्धस़ञ्ज्ञो महीपतिः।
विललाप चिरं कालं पुत्राधिभिरभिप्लुतः।।
धिगस्तु खलु मानुष्यं मानुष्ये च परिग्रहम्।
यतोमूलानि दुःखानि सम्भवन्ति पुनःपुनः।।
मित्रनाशेऽर्थनाशे च ज्ञातिसम्बन्धिनामपि।
प्राप्यते सुमहद्दुःखं विषाग्निप्रतिमं विभो।।
येन दह्यन्ति गात्राणि येन प्रज्ञा विनश्यति।
येनाभिभूतः पुरुषो मरणं प्रतिपद्यते।।
तदिदं मरणं प्राप्तं मया भाग्यविपर्ययात्।
[तस्यान्तं नाधिगच्छामि ऋते प्राणविमोक्षणात्]
तच्चैवाहं करिष्यामि अद्यैव द्विजसत्तम।
इत्युक्त्वा तु महात्मानं पितरं ब्रह्मवित्तमम्।।
धृतराष्ट्रोऽभवन्मूढः स शोकं परमं गतः।
अभूच्च तूष्णीं राजाऽसौ ध्यायमानो महीपतिः।।
तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनः प्रभुः।
पुत्रशोकाभिसन्तप्तं पुत्रं वचनमब्रवीत्।।
व्यास उवाच।
धृतराष्ट्र महाबाहो शृणु वक्ष्यामि पुत्रक।
श्रुतवानसि मेधावी धर्मार्थकुशलः प्रभो।।
न तेऽस्त्यविदितं किञ्चिद्वेदितव्यं परन्तप।
अनित्यतां हि भूतानां विजानासि न संशयः।।
अध्रुवे जीवलोके च स्थाने वा शाश्वते सति।
जीविते मरणान्ते च कस्माच्छोचसि पुत्रक।।
प्रत्यक्षं तव राजेन्द्र वैरस्यास्य समुद्भवः।
पुत्रं ते कारणं कृत्वा कालयोगेन निर्मितः।।
अवश्यं भवितव्ये च कुरूणां सङ्क्षये नृप।
कस्माच्छोचसि ताञ्शूरान्गतान्परमिकां गतिम्।।
जानता च महाबाहो विदुरेण महात्मना।
यतितं सर्वयत्नेन शमं प्रति जनेश्वर।।
न च दैवकृतो मार्गः शक्यो भूतेन केनचित्।
घटताऽपि चिरं कालं नियन्तुमिति मे मतिः।।
देवतानां हि यत्कार्यं मया प्रत्यक्षतः श्रुतम्।
तत्तेऽहं सम्प्रवक्ष्यामि यथा स्थैर्यं भवेत्तव।।
पुराऽहं परितो यातः सभामैन्द्रीं जितक्लमः।
अपश्यं तत्र च सदा समवेतान्दिवौकसः।।
नारदप्रमुखांश्चापि सर्वान्देवर्षिसत्तमान्।
तत्र चापि मया दृष्टा पृथिवी पृथिवीपते।।
कार्यार्थमुपसम्पन्ना देवतानां समीपतः।
उपगम्य तदा धात्री देवानाह समागतान्।।
यत्कार्यं मम युष्माभिर्ब्रह्मणः सदने तदा।
प्रतिज्ञातं महाभागास्तच्छीघ्रं संविधीयताम्।।
तस्यास्तद्वचनं श्रुत्वा विष्णुर्लोकनमस्कृतः।
उवाच वाक्यं प्रहसन्प्रभुस्तां देवसंसदि।।
धृतराष्ट्रस्य पुत्राणां यस्तु ज्येष्ठः शतस्य वै।
दुर्योधन इति ख्यातः स ते कार्यं करिष्यति।।
तं च प्राप्य महीपालं कृतकृत्या भविष्यसि।
तस्यार्थे पृथिवीपालाः कुरुक्षेत्रं समागताः।।
अन्योन्यं घातयिष्यन्ति दृढैः शस्त्रैः प्रहारिणः।
ततस्ते भविता देवि भारस्य युधि नाशनम्।।
गच्छ शीघ्रं स्वकं स्थानं लोकान्धारय शोभने।
स एष ते सुतो राजँल्लोकसंहारकारणात्।।
कलेरंशः समुत्पन्नो गान्धार्या जठरे नृप।
अमर्षी बलवाञ्शूरः क्रोधनो दुष्प्रसाधनः।।
दैवयोगात्समुत्पन्ना भ्रातरस्तस्य तादृशाः।
शकुनिर्मातुलश्चैव कर्णश्च परमः सखा।।
समुत्पन्ना विनाशार्थं पृथिव्यां सहिता नृपाः।
[यादृशो जायते राजा तादृशोऽस्य जनो भवेत्।।
अधर्मो धर्मतां याति स्वामी चेद्धार्मिको भवेत्।
स्वामिनो गुणदोषाभ्यां भृत्याः स्युर्नात्र संशयः।।
दुष्टं राजानमासाद्य गतास्ते तनया नृप।]
एतमर्थं महाबाहो नारदो वेद तत्त्ववित्।।
आत्मापराधात्पुत्रास्ते विनष्टाः पृथिवीपते।
मा ताञ्शोचस्व राजेन्द्र न हि शोकेऽस्ति कारणम्।।
न हि ते पाण्डवाः स्वल्पमपराध्यन्ति भारत।
पुत्रास्तव दुरात्मानो यैरियं घातिता मही।।
नारदेन च भद्रं ते पूर्वमेव न संशयः।
युधिष्ठिरस्य समितौ राजसूये निवेदितम्।।
पाण्डवाः कौरवाः सर्वे समासाद्य परस्परम्।
नभविष्यन्ति कौन्तेय यत्ते कृत्यं तदाचर।।
नारदस्य वचः श्रुत्वा तथाऽकुर्वत पाण्डवाः।
एतत्ते सर्वमाख्यातं देवगुह्यं सनातनम्।।
कथं ते शोकनाशः स्यात्प्राणेषु च दया प्रभो।
स्नेहश्च पाण्डुपुत्रेषु ज्ञात्वा दैवकृतं विधिम्।।
एष चार्थो महाबाहो पूर्वमेव मया श्रुतः।
कथितो धर्मराजस्य राजसूये कुरूत्तम।।
यतितं धर्मपुत्रेण मया गुह्ये निवेदिते।
अविग्रहे कौरवाणां दैवं तु बलवत्तरम्।।
अनतिक्रमणीयो हि विधी राजन्कथञ्चन।
कृतान्तस्य तु भूतेन स्थावरेण चरेण च।।
भवान्धर्मपरो यत्र बुद्धिश्रेष्ठश्च भारत।
मुह्यते प्राणिनां ज्ञात्वा गतिं चागतिमेव च।।
त्वां तु शोकेन सन्तप्तं मुह्यमानं मुहुर्मुहुः।
ज्ञात्वा युधिष्ठिरो राजा प्राणानपि परित्यजेत्।।
कृपालुर्नित्यशो वीरस्तिर्यग्योनिगतेष्वपि।
स कथं त्वयि राजेन्द्र कृपां नैव करिष्यति।।
मम चैव नियोगेन विधेश्चाप्यनिवर्तनाम्।
पाण्डवानां च कारुण्यात्प्राणान्धारय भारत।।
एवं ते वर्तमानस्य लोके कीर्तिर्भविष्यति।
धर्मार्थः सुमहांस्तात तप्तं स्याच्च तपश्चिरात्।।
पुत्रशोकं समुत्पन्नं हुताशं ज्वलितं यथा।
प्रज्ञाम्भसा महाराज निर्वापय सदा सता।।
वैशम्पायन उवाच।
तच्छ्रुत्वा तस्य वचनं व्यासस्यामिततेजसः।
मुहूर्तं समनुध्यायन्धृतराष्ट्रोऽभ्यभाषत।।
महता शोकजालेन प्रणुन्नोऽस्मि द्विजोत्तम।
नात्मानमवबुध्यामि मुह्यमानो मुहुर्मुहुः।।
इदं तु वचनं श्रुत्वा तव देवनियोगजम्।
धारयिष्याम्यहं प्राणान्यतिष्ये च न शोचितुं।।
एतच्छ्रुत्वा तु वचनं व्यासः सत्यवतीसुतः।
धृतराष्ट्रस्य राजेन्द्र तत्रैवान्तरधीयत।।
।। इति श्रीमन्महाभारते स्त्रीपर्वणि
जलप्रदानिकपर्वणि अष्टमोऽध्यायः।। 8 ।।*
गते भगवति व्यासे धृतराष्ट्रो महीपतिः।
किमचेष्टत विप्रर्षे तन्मे व्याख्यातुमर्हसि।।
तथैव कौरवो राजा धर्मपुत्रो महामनाः।
कृपप्रभृतयश्चैव किमकुर्वत ते त्रयः।।
अश्वत्थाम्नः श्रुतं कर्म शापश्चान्योन्यकारितः।
वृत्तान्तमुत्तरं ब्रूहि यदभाषत सञ्जयः।।
वैशम्पायन उवाच।
हते दुर्योधने चैव हते सैन्ये च सर्वशः।
सञ्जयो विगतप्रज्ञो धृतराष्ट्रमुपस्थितः।।
सञ्जय उवाच।
आगम्य नानादेशेभ्यो नानाजनपदेश्वराः।
पितृलोकं गता राजन्सर्वे तव सुतैः सह।।
याच्यमानेन सततं तव पुत्रेण भारत।
घातिता पृथिवी सर्वा वैरस्यान्तं विधित्सता।।
पुत्राणामथ पौत्राणां पितॄणां च महीपते।
आनुपूर्व्येण सर्वेषां प्रेतकार्याणि कारय।।
वैशम्पायन उवाच।
तच्छ्रुत्वा वचनं घोरं सञ्जयस्य महीपतिः।
गतासुरिव निश्चेष्टो न्यपतत्पृथिवीतले।।
तं शयानमुपागम्य पृथिव्यां पृथिवीपतिम्।
विदुरः सर्वधर्मज्ञ इदं वचनमब्रवीत्।।
उत्तिष्ठ राजन्किं शेषे मा शुचो भरतर्षभ।
एषा वै सर्वसत्वानां लोकेश्वर परा गतिः।।
अभावादीनि भूतानि भावमध्यानि भारत।
अभावनिधनान्येव तत्र का परिदेवना।।
न शोचन्मृतमन्वेति न शोचन्म्रियते नरः।
एवं सांसिद्धिके लोके किमर्थमनुशोचसि।।
अयुध्यमानो म्रियते युध्यमानस्तु जीवति।
कालं प्राप्य महाराज न कश्चिदतिवर्तते।।
कालः कर्षति भूतानि सर्वाणि विविधानि च।
न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम।।
यथा वायुस्तृणाग्राणि संवर्तपति सर्वतः।
तथा कालवशं यान्ति भूतानि भरतर्षभ।।
एकसार्थप्रयातानां सर्वेषां तत्र गामिनाम्।
यस्य कालः प्रयात्यग्रे तत्र का परिदेवना।।
यांश्चापि निहतान्युद्धे राजंस्त्वमनुशोचसि।
न शोच्या हि माहत्मानः सर्वे ते त्रिदिवं गताः।।
न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया।
तथा स्वर्गमुपायान्ति यथा शूरास्तनुत्यजः।।
सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः।
सर्वे चाभिमुखाः क्षीणास्तत्र का परिदेवना।।
शरीराग्निषु शूराणां जुहुवुस्ते शराहुतीः।
हूयमानाञ्शरांश्चैव सेहुरुत्तमपूरषाः।।
एवं राजंस्तवाचक्षे स्वर्ग्यं पन्थानमुत्तमम्।
न युद्धादधिकं किञ्चित्क्षत्रियस्येह विद्यते।।
क्षत्रियास्ते महात्मानः शूराः समितिशोभनाः।
आशिषं परमां प्राप्ता न शोच्याः सर्व एव हि।।
आत्मनाऽऽत्मानमाश्वास्य मा शुचः पुरुषर्षभ।
नाद्य शोकाभिभूतस्त्वं कार्यमुत्स्नष्टुमर्हसि।।
।। इति श्रीमन्महाभारते स्त्रीपर्वणि
जलप्रदानिकपर्वणि अध्यायः।।