स्त्रीपर्व

अध्यायः १०

Stri Parva (Sanskrit) · Adhyaya 10
अक्षर का आकार

वैशम्पायन उवाच।

क्रोशमात्रं ततो गत्वा ददृशुस्तान्महारथान्।
शारद्वतं कृपं द्रौणिं कृतवर्माणमेव च।।

ते तु दृष्ट्वैव राजानं प्रज्ञाचक्षुषमीश्वरम्।
अश्रुकण्ठा विनिःश्वस्य रुदन्तमिदमब्रुवन्।।

पुत्रस्तव महाराज कृत्वा कर्म सुदुष्करम्।
गतः सानुचरो राजञ्शक्रलोकं महीपते।।

दुर्योधनबलान्मुक्ता वयमेव त्रयो रथाः।
सर्वमन्यत्परिक्षीणं सैन्यं ते भरतर्षभ।।

इत्येवमुक्त्वा राजानं कृपः शारद्वतस्ततः।
गान्धारीं पुत्रशोकार्तामिदं वचनमब्रवीत्।।

अभीता युध्यमानास्ते घ्नन्तः शत्रुगणान्बहून्।
वीरकर्माणि कुर्वाणाः पुत्रास्ते निधनं गताः।।

ध्रवं सम्प्राप्य लोकांस्ते निर्मलाञ्शस्त्रनिर्जितान्।
भास्वरं देहमास्थाय विहरन्त्यमरा इव।।

सर्वे ह्यभिमुखा राज्ञि युध्यमाना हता युधि।
न हि कश्चिद्धि शूराणां युध्यमानः पराङ्मुखः।
शस्त्रेण निधनं प्राप्तो न च कश्चित्कृताञ्जलिः।।

एतां तां क्षत्रियस्याहुः पुराणाः परमां गतिम्।
शस्त्रेण निधनं सङ्ख्ये तान्न शोचितुमर्हसि।।

न चापि शत्रवस्तेषां मुच्यन्ते राज्ञि पाण्डवाः।
शृणु यत्कृतमस्माभिरश्वत्थामपुरोगमैः।।

अधर्मेण हतं श्रुत्वा भीमसेनेन ते सुतम्।
सुप्तं शिबिरमासाद्य पाण्डूनां कदनं कृतम्।।

पाञ्चाला निहताः सर्वे धृष्टद्युम्नपुरोगमाः।
द्रुपदस्यात्मजाश्चैव द्रौपदेयाश्च पातिताः।।

तथा विशसनं कृत्वा पुत्रशत्रुगणस्य ते।
प्राद्रवाम रणे स्थातुं न हि शक्ष्यामहे त्रयः।।

ते हि शूरा महेष्वासाः क्षिप्रमेष्यन्ति पाण्डवाः।
अमर्षवशमापन्ना वैरं प्रतिजिहीर्षवः।।

ते हतानात्मजाञ्श्रुत्वा प्रमत्ताः पुरुषर्षभाः।
अन्विष्यन्तः पदं शूराः क्षिप्रमेष्यन्ति पाण्डवाः।।

तेषां तु किल्बिषं कृत्वा संस्थातुं नोत्सहामहे।
अनुजानीहि नो राज्ञि मा च शोके मनः कृथाः।।

राजंस्त्वमनुजानीहि धैर्यमातिष्ठ चोत्तमम्।
दिष्टान्तं पश्य चापि त्वं क्षात्रं धर्मं च केवलम्।।

इत्येवमुक्त्वा राजानं कृत्वा चाभिप्रदक्षिणम्।
कृपश्च कृतवर्मा च द्रोमपुत्रश्च भारत।।

अवेक्षमाणा राजानं धृतराष्ट्रं मनीषिणम्।
गङ्गामनु महाराज तूर्णमश्वानचोदयन्।।

अपक्रम्य तु ते राजन्सर्व एव महारथाः।
आमन्त्र्यान्योन्यमुद्विग्नास्त्रिधा ते प्रययुस्तदा।।

जगाम हास्तिनपुरं कृपः शारद्वतस्तदा।
स्वमेव राष्ट्रं हार्दिक्यो द्रौणिर्व्यासाश्रमं ययौ।।

एवं ते प्रययुर्वीरा वीक्षमाणाः परस्परम्।
भयार्ताः पाण्डुपुत्राणामागस्कृत्वा महात्मनाम्।।

समेत्य वीरा राजानं तदा त्वनुदिते रषौ।
विप्रजग्मुर्महात्मानो यथेष्टकमरिन्दमाः।।

[समासाद्याथ वै द्रौणिं पाण्डुपुत्रा महारथाः।
व्यजयंस्ते रणे राजन्विक्रम्य तदनन्तरम्।।]

।। इति श्रीमन्महाभारते स्त्रीपर्वणि
जलप्रदानिकपर्वणि दशमोऽध्यायः।। 10 ।।