स्त्रीपर्व
अध्यायः ७
धृतराष्ट्र उवाच।
अहोऽभिहितमाख्यान भवता तत्त्वदर्शिना।
भूय एव तु मे हर्षः श्रोतुं वागमृतं तव।।
विदुर उवाच।
शृणु भूयः प्रवक्ष्यामि मार्गस्यैतस्य विस्तरम्।
यच्छ्रुत्वा विप्रमुच्यन्ते संसाराद्वि विचक्षणाः।।
यथा तु पुरुषो राजन्दीर्घमध्वानमास्थितः।
क्वचित्क्वचिच्छ्रमस्थानं कुरुते वासमेव वा।।
एवं संसारपर्याये गर्भवासेषु भारत।
कुर्वन्ति दुर्बुधा वासं मुच्यन्ते तत्र पण्डिताः।।
तस्मादध्वानमेवैतमाहुः शास्त्रविदो जनाः।
यत्तत्संसारगहनं वनमाहुर्मनीषिणः।।
सोयं लोकसमावर्तो मर्त्यानां भरतर्षभ।
चराणां स्थावराणां च न गृध्येत्तत्र पाण्डितः।।
शारीरा मानसाश्चैव मर्त्यानां व्याधयश्च ये।
प्रत्यक्षाश्च परोक्षाश्च ते व्यालाः कथिता बुधैः।।
क्लिश्यमानाश्च तैर्नित्यं मार्यमाणाश्च भारत।
स्वकर्मभिर्महाव्यालैर्नोद्विजन्त्यल्पबुद्धयः।।
अथापि तैर्विमुच्येत व्याधिभिः पुरुषो नृप।
आवृणोत्येव तं पश्चाज्जरा रूपविनाशिनी।।
शब्दरूपरसस्पर्शगन्धैश्च विविधैरपि।
मज्जमानं महापङ्के निरालम्बे समन्ततः।।
संवत्सरर्तवो मासाः पक्षाहोरात्रसन्धयः।
क्रमेणास्य प्रवृज्जन्ति रूपमायुस्तथैव च।।
एते कालस्य विधयो नैताञ्जानान्ति दुर्बुधाः।
धात्राऽभिलिखितान्याहुः सर्वभूतानि कर्मणा।।
रथः शरीरं भूतानां सत्वमाहुस्तु सारथिम्।
इन्द्रियाणि हयानाहुः कर्मबुद्विस्तु रश्मयः।।
तेषां हयानां यो वेगं धावतामनु धावति।
सतु संसारचक्रेऽस्मिंश्चक्रवत्परिवर्तते।।
यस्तान्संयमते बुद्ध्या संयतो न निवर्तते।
यस्तु संसारचक्रेऽस्मिंश्चक्रवत्परिवर्तते।।
[भ्रममाणा न मुह्यन्ति संसारे न भ्रमन्ति ते।
संसारे भ्रमतां राजन्दुःखमेतद्धि जायते।।
तस्पादस्य निवृत्त्यर्थं यत्नमेवाचरेद्बुधः।
उपेक्षा नात्र कर्तव्या शतशाखः प्रवर्धते।।
यतेन्द्रियो नरो राजन्क्रोधलोभनिराकृतः।
सन्तुष्टः सत्यवादी यः स शान्तिमधिगच्छति।।]
याम्यमाहू रथं ह्येनं मुह्यन्ते येन दुर्बुधाः।
स चैतत्प्राप्नुयाद्राजन्यत्त्वं प्राप्तो नराधिप।।
अनुतर्षुलमेवैतद्दुःखं भवति मारिष।
राज्यनाशः सुहृन्नाशः सुतनाशश्च भारत।
साधुः परमदुःखानां दुःखभैषज्यमारभेत्।।
ज्ञानौषधमवाप्येह दूरपारं महौषधम्।
छिन्द्याद्दुःखमहाव्याधिं नरः संयतमानसः।।
न विक्रमो न चाप्यर्थो न मित्रं न सुहृज्जनः।
तस्मान्मोचयते दुःखाद्यथात्मा स्थिरनिश्चयः।।
तस्मान्मैत्रं समास्थाय शीलमापदि भारत।
दमस्त्यागोऽप्रमादश्च ते त्रयो ब्रह्मणो हयाः।।
शीलरश्मिसमायुक्ते स्थितो यो मानसे रथे।
त्यक्त्वा मृत्युभयं राजन्ब्रह्मलोकं स गच्छति।।
अभयं सर्वभूतेभ्यो यो ददाति महीपते।
स गच्छति परं स्थानं विष्णोः पदमनामयम्।।
न तत्क्रतुसहस्रेण नोपवासैश्च नित्यशः।
अभयस्य च दानेन यत्फलं प्राप्नुयान्नरः।।
न ह्यात्मनः प्रियतरं किञ्चिद्भूतेषु निश्चितम्।
अनिष्टं सर्वभूतानां मरणं नाम भारत।।
तस्मात्सर्वेषु भूतेषु दया कार्या विपश्चिता।।
नानायोगसमायुक्ता बुद्धिजालेन संवृताः।
असूक्ष्मदृष्टयो मन्दा भ्राम्यन्ते तत्रतत्र ह।
सुसूक्ष्मदृष्टयो राजन्व्रजन्ति ब्रह्मसाम्यताम्।।
एवं ज्ञात्वा महाप्राज्ञ स तेषामौर्ध्वदैहिकम्।
कर्तुमर्हति तेनैव फल प्राप्स्यति वै भवान्।।
।। इति श्रीमन्महाभारते स्त्रीपर्वणि
जलप्रदानिकपर्वणि सप्तमोऽध्यायः।। 7 ।।