स्त्रीपर्व

अध्यायः ३

Stri Parva (Sanskrit) · Adhyaya 3
अक्षर का आकार

वृतराष्ट्र उवाच।

सुमाषितं महाप्राज्ञ शोकोऽयं विगतो मम।
भूय एव तु वाक्यानि श्रोतुमिच्छामि तत्त्वतः।।

अनिष्टानां च संसर्गादिष्टानां च निवर्तनात्।
कथं हि मानसं दुःखं विप्रयुज्यन्ति पण्डिताः।।

विदुर उवाच।

वतोयतो मनो दुःखात्सुखाद्र विप्रमुच्यते।
तवत्तसः शगं लब्ध्वा सुगतिं विन्दते बुधः।।

अशाधतमिदं सर्वं चिन्त्यमानं नरर्षभ।
कदलीसन्निभो लोकः सारो ह्यस्य न विद्यते।।

[यदा प्राज्ञाश्च मूढाश्च धनवन्तोऽथ निर्धनाः।
सर्वे पितृवनं प्राप्य स्वपन्ति विगतज्वराः।।

निर्मांसैरस्थिभूयिष्ठैर्गात्रैः स्नायुनिबन्धिभिः।
किं विशेषं प्रपश्यन्ति तत्र तेषां परे जनाः।।

येन प्रत्यवगच्छेयुः कुलरूपविशेषणम्।
कस्मादन्योन्यमिच्छन्ति विप्रलब्धधियो नराः।।]

गृहाण्येव हि मर्त्यानामाहुर्देहानि पण्डिताः।
कालेन विनियुज्यन्ते सत्वमेकं तु शोभनम्।।

यथा जीर्णमजीर्णं वा वस्त्रं त्यक्त्वा तु पूरुषः।
अन्यद्रोचयते वस्त्रमेवं देहाः शरीरिणाम्।।

वैचित्रवीर्य सत्यं हि दुःखं वा यदि वा सुखम्।
प्राप्नुवन्तीह भूतानि स्वकृतेनैव कर्मणा।।

कर्मणा प्राप्यते स्वर्गः सुखं दुःखं च भारत।
ततो वहति तं भारमवशः स्ववशोऽपि वा।।

यथा च मृन्मयं भाण्डं चक्रारूढं विपद्यते।
किञ्चित्प्रक्रियमाणं वा कृतमात्रमथापि वा।।

हीनं वाऽप्यवरोप्यं वा अवतीर्णमथापि वा।
आर्द्रं वाऽप्यथवा शुष्कं पच्यमानमथापि वा।।

अवतार्यन्तमापाङ्कादुद्धृतं चापि भारत।
अथवा परिभुज्जन्तमेवं देहाः शरीरिणाम्।।

गर्भस्थो वा प्रसूतो वाऽप्यथवा दशरात्रिकः।
अर्धमासगतो वाऽपि मासमात्रगतोऽपि वा।।

संवत्सरगतो वापि द्विसंवत्सर एव वा।
यौवनस्थोऽथ मध्यस्थो वृद्धो वापि विपद्यते।।

प्राक्कर्मभिस्तु भूतानि भवन्ति नभवन्ति च।
एवं संबर्धिते लोके किमर्थमनुतप्यसे।।

यथा तु सलिलं राजन्क्रीडार्थमनुसञ्चरन्।
उन्मज्जेच्च निमज्जेच्च चेष्टते च नराधिप।।

एवं संसारगहने उन्मज्जननिमज्जने।
कर्मयोगेन बध्यन्ते क्लिश्यन्ते चाल्पबुद्धयः।।

ये तु प्राज्ञाः स्थिता मध्ये संसारान्तगतैषिणः।
समागमज्ञा भूतानां ते यान्ति परमां गतिम्।।

।। इति श्रीमन्महाभारते स्त्रीपर्वणि
जलप्रदानिकपर्वणि तृतीयोऽध्यायः।। 3 ।।