स्त्रीपर्व
अध्यायः २
वैशम्पायन उवाच।
ततोऽमृतरसैर्वाक्यैर्ह्लादयन्पुरुषर्षभम्।
वैचित्रवीर्यं विदुरो यदुवाच निबोध तत्।।
विदुर उवाच।
उत्तिष्ठ राजन्किं शेषे धारयात्मानमात्मना।
एषा वै सर्वसत्वानां लोकेश्वर परा गतिः।।
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः।
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम्।।
यदा शूरं च भीरुं च यमः कर्षति भारत।
तत्किं न योत्स्यन्ति हि ते क्षत्रियाः क्षत्रियर्षभ।।
अयुध्यमानो म्रियते युध्यमानश्च जीवति।
कालं प्राप्य महाराज न कश्चिदतिवर्तते।।
अभावादीनि भूतानि भावमध्यानि भारत।
अभावनिधनान्येव तत्र का परिदेवना।।
न शोचन्मृतमन्वेति न शोचन्म्रियते नरः।
एवं सांसिद्धिके लोके किमर्थमनुशोचसि।।
कालः कर्षति भूतानि सर्वाणि विविधान्युत।
न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम।।
यथा वायुस्तृणाग्राणि संवर्तयति सर्वशः।
तथा कालवशं यान्ति भूतानि भरतर्षभ।।
एकसार्थप्रयातानां सर्वेषां तत्र गामिनाम्।
यस्य कालः स यात्यग्रे तत्र का परिदेवना।।
न चाप्येतान्हतान्युद्धे राजञ्शोचितुमर्हसि।
प्रमाणं यदि शास्त्राणि गतास्ते परमां गतिम्।।
सर्वे स्वाध्यायवन्तो हि सर्वे च चरितव्रताः।
सर्वे चाभिमुखाः क्षीणास्तत्र का परिदेवना।।
अदर्शनादापतिताः पुनश्चादर्शनं गताः।
नैते तव न तेषां त्वं तत्र का परिदेवना।।
हतो हि लभते स्वर्गं जित्वा च लभते यशः।
उभयं नो बहुगुणं नास्ति निष्फलता रणे।।
तेषां कामदुघाँल्लोकानिन्द्रः सङ्कल्पयिष्यति।
इन्द्रस्यातिथयो ह्येते भवन्ति भरतर्षभ।।
न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया।
स्वर्गं यान्ति तथा मर्त्या यथा शूरा रणे हताः।।
शरीराग्निषु शूराणां जुहुवुस्ते शराहुतीः।
हूयमानाञ्शरांश्चैव सेहुस्तेजस्विनो मिथः।।
एवं राजंस्तवाचक्षे स्वर्ग्यं पन्थानमुत्तमम्।
न युद्धादधिकं किञ्चित्क्षत्रियस्येह विद्यते।।
क्षत्रियास्ते महात्मानः शूराः समितिशोभनाः।
आशिषः परमाः प्राप्ता न शोच्याः सर्व एव हि।।
आत्मानमात्मनाऽऽश्वास्य मा शुचः पुरुषर्षभ।
नाद्य शोकाभिभूतस्त्वं कायमुत्स्रष्टुमर्हसि।।
मातापितृसहस्राणि पुत्रदारशतानि च।
संसारेष्वनुभूतानि कस्य ते कस्य वा वयम्।।
शोकस्थानसहसाणि भयस्थानशतानि च।
दिवसेदिवसे मूढमाविशन्ति न पण्डितम्।।
न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम।
न मध्यस्थः क्वचित्कालः सर्वं कालः प्रकर्षति।।
कालः पचति भूतानि कालः संहरते प्रजाः।
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः।।
अनित्यं यौवनं रूपं जीवितं द्रव्यसञ्चयः।
आरोग्यं प्रियसंवासो गृद्ध्येदेषु न पण्डितः।।
न जानपदिकं दुःखमेकः शोचितुमर्हसि।
अप्यभावेन युज्येत तच्चास्य न निवर्तते।।
अशोचन्प्रतिकुर्वीत यदि पश्येत्पराक्रमम्।
भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत्।।
चिन्त्यमानं हि न व्येति भूयश्चापि प्रवर्धते।।
अनिष्टसम्प्रयोगाच्च विप्रयोगात्प्रियस्य च।
मानुषा मानसैर्दुःखैर्युज्यन्ते येऽल्पबुद्धयः।।
नार्थो न धर्मो न सुखं यदेतदनुशोचति।
तच्च नाप्नोति कार्यार्थं त्रिवर्गाच्चैव भ्रश्यते।।
अन्योन्यबाधनावस्थां प्राप्य वैषयिकीं नराः।
असन्तुष्टाः प्रमुह्यन्ति सन्तोषं यान्ति पण्डिताः।।
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः।
एतद्विज्ञानसामर्थ्यं न बालैः समतामियात्।।
शयानं चानुशेते हि तिष्ठन्तं चानुतिष्ठति।
अनुधावति धावन्तं कर्म पूर्वकृतं नरम्।।
यस्यांयस्यामवस्थायां यत्करोति शुभाशुभम्।
तस्यांतस्यामवस्थायां तत्तत्फलमवाप्नुते।।
[येनयेन शरीरेण यद्यत्कर्म करोति यः।
तेनतेन शरीरेण तत्फलं समुपाश्नुते।।
आत्मैव ह्यात्मनः साक्षी कृतस्यापकृतस्य च।।
शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा।
कृतं भवति सर्वत्र नाकृतं विद्यते क्वचित्।।
न हि ज्ञानविरुद्धेषु बह्वपायेषु कर्मसु।
मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विघाः।।]
।। इति श्रीमन्महाभारते स्त्रीपर्वणि
जलप्रदानिकपर्वणि द्वितीयोऽध्यायः।। 2 ।।