स्त्रीपर्व

अध्यायः २

Stri Parva (Sanskrit) · Adhyaya 2
अक्षर का आकार

वैशम्पायन उवाच।

ततोऽमृतरसैर्वाक्यैर्ह्लादयन्पुरुषर्षभम्।
वैचित्रवीर्यं विदुरो यदुवाच निबोध तत्।।

विदुर उवाच।

उत्तिष्ठ राजन्किं शेषे धारयात्मानमात्मना।
एषा वै सर्वसत्वानां लोकेश्वर परा गतिः।।

सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः।
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम्।।

यदा शूरं च भीरुं च यमः कर्षति भारत।
तत्किं न योत्स्यन्ति हि ते क्षत्रियाः क्षत्रियर्षभ।।

अयुध्यमानो म्रियते युध्यमानश्च जीवति।
कालं प्राप्य महाराज न कश्चिदतिवर्तते।।

अभावादीनि भूतानि भावमध्यानि भारत।
अभावनिधनान्येव तत्र का परिदेवना।।

न शोचन्मृतमन्वेति न शोचन्म्रियते नरः।
एवं सांसिद्धिके लोके किमर्थमनुशोचसि।।

कालः कर्षति भूतानि सर्वाणि विविधान्युत।
न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम।।

यथा वायुस्तृणाग्राणि संवर्तयति सर्वशः।
तथा कालवशं यान्ति भूतानि भरतर्षभ।।

एकसार्थप्रयातानां सर्वेषां तत्र गामिनाम्।
यस्य कालः स यात्यग्रे तत्र का परिदेवना।।

न चाप्येतान्हतान्युद्धे राजञ्शोचितुमर्हसि।
प्रमाणं यदि शास्त्राणि गतास्ते परमां गतिम्।।

सर्वे स्वाध्यायवन्तो हि सर्वे च चरितव्रताः।
सर्वे चाभिमुखाः क्षीणास्तत्र का परिदेवना।।

अदर्शनादापतिताः पुनश्चादर्शनं गताः।
नैते तव न तेषां त्वं तत्र का परिदेवना।।

हतो हि लभते स्वर्गं जित्वा च लभते यशः।
उभयं नो बहुगुणं नास्ति निष्फलता रणे।।

तेषां कामदुघाँल्लोकानिन्द्रः सङ्कल्पयिष्यति।
इन्द्रस्यातिथयो ह्येते भवन्ति भरतर्षभ।।

न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया।
स्वर्गं यान्ति तथा मर्त्या यथा शूरा रणे हताः।।

शरीराग्निषु शूराणां जुहुवुस्ते शराहुतीः।
हूयमानाञ्शरांश्चैव सेहुस्तेजस्विनो मिथः।।

एवं राजंस्तवाचक्षे स्वर्ग्यं पन्थानमुत्तमम्।
न युद्धादधिकं किञ्चित्क्षत्रियस्येह विद्यते।।

क्षत्रियास्ते महात्मानः शूराः समितिशोभनाः।
आशिषः परमाः प्राप्ता न शोच्याः सर्व एव हि।।

आत्मानमात्मनाऽऽश्वास्य मा शुचः पुरुषर्षभ।
नाद्य शोकाभिभूतस्त्वं कायमुत्स्रष्टुमर्हसि।।

मातापितृसहस्राणि पुत्रदारशतानि च।
संसारेष्वनुभूतानि कस्य ते कस्य वा वयम्।।

शोकस्थानसहसाणि भयस्थानशतानि च।
दिवसेदिवसे मूढमाविशन्ति न पण्‍डितम्।।

न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम।
न मध्यस्थः क्वचित्कालः सर्वं कालः प्रकर्षति।।

कालः पचति भूतानि कालः संहरते प्रजाः।
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः।।

अनित्यं यौवनं रूपं जीवितं द्रव्यसञ्चयः।
आरोग्यं प्रियसंवासो गृद्ध्येदेषु न पण्डितः।।

न जानपदिकं दुःखमेकः शोचितुमर्हसि।
अप्यभावेन युज्येत तच्चास्य न निवर्तते।।

अशोचन्प्रतिकुर्वीत यदि पश्येत्पराक्रमम्।
भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत्।।

चिन्त्यमानं हि न व्येति भूयश्चापि प्रवर्धते।।
अनिष्टसम्प्रयोगाच्च विप्रयोगात्प्रियस्य च।

मानुषा मानसैर्दुःखैर्युज्यन्ते येऽल्पबुद्धयः।।
नार्थो न धर्मो न सुखं यदेतदनुशोचति।

तच्च नाप्नोति कार्यार्थं त्रिवर्गाच्चैव भ्रश्यते।।
अन्योन्यबाधनावस्थां प्राप्य वैषयिकीं नराः।

असन्तुष्टाः प्रमुह्यन्ति सन्तोषं यान्ति पण्डिताः।।
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः।

एतद्विज्ञानसामर्थ्यं न बालैः समतामियात्।।
शयानं चानुशेते हि तिष्ठन्तं चानुतिष्ठति।

अनुधावति धावन्तं कर्म पूर्वकृतं नरम्।।
यस्यांयस्यामवस्थायां यत्करोति शुभाशुभम्।

तस्यांतस्यामवस्थायां तत्तत्फलमवाप्नुते।।
[येनयेन शरीरेण यद्यत्कर्म करोति यः।

तेनतेन शरीरेण तत्फलं समुपाश्नुते।।
आत्मैव ह्यात्मनः साक्षी कृतस्यापकृतस्य च।।

शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा।
कृतं भवति सर्वत्र नाकृतं विद्यते क्वचित्।।

न हि ज्ञानविरुद्धेषु बह्वपायेषु कर्मसु।
मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विघाः।।]

।। इति श्रीमन्महाभारते स्त्रीपर्वणि
जलप्रदानिकपर्वणि द्वितीयोऽध्यायः।। 2 ।।