स्त्रीपर्व
अध्यायः ४
धृतराष्ट्र उवाच।
कथं संसारगहनं विज्ञेयं वदतां वर।
एतदिच्छाम्यहं श्रोतुं तत्त्वमाख्याहि पृच्छतः।।
विदुर उवाच।
जन्मप्रभृति भूतानां क्रियाः सर्वास्तु लक्षयन्।
पूर्वमेवेह कलिले वसते किञ्चिदन्तरम्।।
ततः स पञ्चमेऽतीते मासे मांसमकल्पयत्।
ततः सर्वाङ्गसम्पूर्णो गर्भो मासे तु जायते।।
अमेध्यमध्ये वसति मांसशोणितलेपने।
ततस्तु वायुवेगेन ऊर्ध्वपादो ह्यधोमुखः।।
योनिद्वारमुपागम्य बहून्क्लेशान्समृच्छति।
योनिसंपीडनाच्चैव पूर्वकर्मभिरन्वितः।।
तस्मान्मुक्तः स संसारादन्यान्पश्यत्युपद्रवान्।
ग्रहास्तमनुच्छन्ति सारमेया इवामिषम्।।
ततः कालान्तरे प्राप्ते व्याधयश्चापि तं तथा।
उपसर्पन्ति जीवन्तं बध्यमानं स्वकर्मभिः।।
बद्धमिन्द्रियपाशैस्तं सङ्गकामुकमातुरम्।
व्यसनान्यनुवर्तन्ते विविधानि नराधिप।।
बाध्यमानश्च तैर्भूयो नैव तृप्तिमुपैति सः।
[तदा नावैति चैवायं प्रकुर्वन्साध्वसाधु वा।।]
तत्रैनं परिपश्यन्ति ये ध्यानपरिनिष्ठिताः।
अयं न बुध्यते तावद्यमलोकादिहागमे।।
यमदूतैर्विकृष्यंश्च मृत्युं कालेन गच्छति।
वाग्घीनस्य च या मात्रा इष्टानिष्टकृताऽस्य वै।
भूय एवात्मनाऽऽत्मानं बध्यमानमुपैति सः।।
अहो विनिकृतो लोको लोभेन च वशीकृतः।
लोभक्रोधमदोन्मत्तो नात्मानमवबुध्यते।।
कुलीनत्वे च रमते दुष्कुलीनान्विकुत्सयन्।
धनदर्पेण दृप्तश्च दरिद्रान्परिकुत्सयन्।।
मूर्खानिति परानाह नात्मानं समवेक्षते।
दोषान्क्षिपति चान्येषां नात्मानं शास्तुमिच्छति।।
यदा प्राज्ञाश्च मूर्खाश्च धनवन्तश्च निर्धनाः।
कुलीनाश्चाकुलीनाश्च मानिनोऽथाप्यमानिनः।।
सर्वे पितृवनं प्राप्ताः स्वपन्ति विगतत्वचः।
निर्मांसैरस्थिभूयिष्ठैर्गात्रैः स्नायुनिबन्धनैः।।
किं विशेषं प्रपश्यन्ति तत्र तेषां परे जनाः।
येन प्रत्यवगच्छेयुः कुलरूपविशेषणम्।।
यदा सर्वे समं न्यस्ताः स्वपन्ति धरणीतले।
कस्मादन्योन्यमिच्छन्ति विप्रलब्धुमिहाबुधाः।।
प्रत्यक्षं च परोक्षं च यो निशम्य श्रुतिं त्विमाम्।
[अध्रुवे जीवलोकेऽस्मिन्यो धर्ममनुपालयन्।]
जन्मप्रभृति वर्तेत प्राप्नुयात्परमां गतिम्।।
एवं सर्वं विदित्वा वै यस्तत्त्वमनुवर्तते।
स प्रमोक्षयते चैव पन्थानं मनुजेश्वर।।
।। इति श्रीमन्महाभारते स्त्रीपर्वणि
जलप्रदानिकपर्वणि चतुर्थोऽध्यायः।। 4 ।।