स्त्रीपर्व
अध्यायः २३
गान्धार्युवाच।
एष शल्यो हतः शेते साक्षान्नकुलमातुलः।
धर्मज्ञेन हतस्तात धर्मराजेन संयुगे।।
यस्त्वया स्पर्धते नित्यं सर्वत्र पुरुषर्षभ।
स एष निहतः शेते मद्रराजो महाबलः।।
`जयद्रथे यदि ब्रूयुरुपरोधं कथञ्चन।
मद्रपुत्रे कथं ब्रूयुरुपरोधं विवक्षवः।।'
येन सङ्गृह्णता तात रथमाधिरथेर्युधि।
जयार्थं पाण्डुपुत्राणां तदा तेजोवधः कृतः।।
अहो धिक्फश्य शल्यस्य पूर्णचन्द्रसुदर्शनम्।
मुखं प्द्मपलाशाक्षं काकैरादष्टमव्रणम्।।
एषा चामीकराभस्य तप्तकाञ्चनसप्रभा।
आस्याद्विनिः सृता जिह्वा भक्ष्यते कृष्ण पक्षिभिः।।
युधिष्ठिरेण निहतं शल्यं समितिशोभनम्।
रुदन्त्यः पर्युपासन्ते मद्रराजं कुलाङ्गनाः।।
एताः सुसूक्ष्मवसना मद्रराजं नरर्षभम्।
क्रोशन्त्योऽथ समासाद्य क्षत्रियाः क्षत्रियर्षभम्।।
शल्यं निपतितं नार्यः परिवार्याभितः स्थिताः।
वासिता गृष्टयः पङ्के परिमग्नमिवर्षभम्।।
शल्यं शरणदं शूरं पश्येमं वृष्णिनन्दन।
शयानं वीरशयने शरैर्विशकलीकृतम्।।
एष शैलालयो राजा भगदत्तः प्रतापवान्।
गजाङ्कुशधरः श्रीमाञ्शेते भुवि निपातितः।।
यस्य रुक्ममयी माला शिरस्येषा विराजते।
श्वापदैर्भक्ष्यमाणस्य शोभयन्तीव मूर्धजान्।।
एतेन किल पार्थस्य युद्धमासीत्सुदारुणम्।
रोमहर्षणमत्युग्रं शक्रस्य त्वहिना यथा।।
योधयित्वा माहाबाहुरेष पार्थं धनञ्जयम्।
संशयं गमयित्वा च कुन्तीपुत्रेण पातितः।।
यस्य नास्ति समो लोके शौर्ये वीर्ये च कश्चन्।
स एष निहतः शेते भीष्मो भीष्मकृदाहवे।।
पश्य शान्तनवं कृष्ण शयानं सूर्यवर्चसम्।
युगान्त इव कालेन पातितं सूर्यमम्बरात्।।
एष तप्त्वा रणे शत्रूञ्शस्त्रतापेन वीर्यवान्।
नरसूर्योऽस्तमभ्येति सूर्योऽस्तमिव केशव।।
शरतल्पगतं भीष्ममूर्ध्वरेतसमच्युतम्।
शयानं वीरशयने पश्य शूरनिषेविते।।
कर्णिनालीकनाराचैरास्तीर्य शयनोत्तमम्।
आविश्य शेते भगवान्स्कन्दः शरवणं यथा।।
अतूलपूर्णं गाङ्गेयस्त्रिभिर्बाणैः समन्वितम्।
उपधायोपधानाग्र्यं दत्तं गाण्डीवधन्वना।।
पालयानः पितुः शास्त्रमूर्ध्वरेता महायशाः।
एष शान्तनवः शेते माधवाप्रतिमो युधि।।
धर्मात्मा तात सर्वज्ञः पारावर्येण निर्णये।
अमर्त्य इव मर्त्यः सन्नेष प्राणानधारयत्।।
नास्ति युद्धे कृती कश्चिन्न विद्वान्न पराक्रमी।
यत्र शान्तनवो भीष्मः शेतेऽद्य निहतः परैः।।
स्वयमेतेन शूरेण पृच्छयमानेन पाण्डवैः।
धर्मज्ञेनाहवे मृत्युरादिष्टः सत्यवादिना।।
प्रनष्टः कुरुवंशश्च पुनर्येन समुद्वृतः।
स गतः कुरुभिः सार्धं महाबुद्धिः पराभवम्।।
धर्मेण कुरवः केन परिद्रक्ष्यन्ति माधव।
हते देवव्रते भीष्मे देवकल्पे नरर्षभे।।
अर्जुनस्य विनेतारमाचार्यं सात्यकेस्तथा।
तं पश्य पतितं द्रोणं कुरूणां गुरुमुत्तमम्।।
अस्त्रं चतुर्विधं वेद यथैव त्रिदशेश्वरः।
भार्गवो वा महावीर्यस्तथा द्रोणोऽपि माधव।।
यस्य प्रसादाद्बीभत्सुः पाण्डवः कर्म दुष्करम्।
चकार स हतः शेते नैनमस्त्राण्यपालयन्।।
यं पुरोधाय कुरव आह्वयन्ति स्म पाण्डवान्।
सोऽयं शस्त्रभृतां श्रेष्ठो द्रोणः शस्त्रपृथक्कृतः।।
यस्य निर्दहतः सेनां गतिरग्नरिवाभवत्।
स भूमौ निहतः शेते शान्तार्चिरिव पावकः।।
धनुर्मुष्टिरशीर्णश्च हस्तावापश्च माधव।
द्रोणस्य निहतस्यापि दृश्यते जीवतो यथा।।
वेदा यस्माच्च चत्वारः सर्वाण्यस्त्राणि केशव।
अनपेतानि वै शूराद्यथैवादौ प्रजापतेः।।
चन्दनार्हाविमौ तस्य बन्दिभिर्वन्दितौ शुभौ।
गोमायवो विकर्षन्ति पादौ शिष्यशतार्चितौ।।
द्रोणं द्रुपदपुत्रेण निहतं मधुसूदन।
कृपी कृपणमन्वास्ते दुःखोपहतचेतना।।
तां पश्य रुदतीमार्तां मुक्तकेशीमधोमुखीम्।
हतं पतिमुपासन्तीं द्रोणं शस्त्रभृतां वरम्।।
बाणैर्भिन्नतनुत्राणं धृष्टद्युम्नेन केशव।
उपास्ते वै मृधे द्रोणं जटिला ब्रह्मचारिणी।।
प्रेतकृत्ये च यतते कृपी कृपणमातुरा।
हतस्य समरे भर्तुः सुकुमारी यशस्विनी।।
अग्नीनाधाय विविधवच्चितां प्रज्वाल्य सर्वतः।
द्रोणमाधाय गायन्ति त्रीणि सामानि सामगाः।।
कुर्वन्ति च चितामेते जटिला ब्रह्मचारिणः।
धनुर्भिः शक्तिभिश्चैव रथनीडैश्च माधव।।
शरैश्च विविधैरन्यैर्धक्ष्यन्ते भूरितेजसम्।
त एते द्रोणमादाय गायन्ति च रुदन्ति च।।
सामभिस्त्रिभिरन्तस्थैरनुशंसन्ति चापरे।
अग्नावग्निं समाधाय द्रोणं हुत्वा हुताशने।।
गच्छन्त्यभिमुखा गङ्गां द्रोणशिष्या द्विजातयः।
अपसव्यां चितिं कृत्वा पुरस्कृत्य कृपीं तथा।।
।। इति श्रीमन्महाभारते स्त्रीपर्वणि
स्त्रीविलापपर्वणि त्रयोविंशोऽध्यायः।। 23 ।।