स्त्रीपर्व
अध्यायः २४
गान्धार्युवाच।
सोमदत्तसुतं पश्य युयुधानेन पातितम्।
वितुद्यमानं विहगैर्बहुभिर्माधवान्तिके।।
पुत्रशोकाभिसन्तप्तः शोमदत्तो जनार्दन।
युयुधानं महेष्वासं गर्हयन्निव दृश्यते।।
असौ हि भूरिश्वसो माता शोकपरिप्लुता।
आश्वासयति भर्तारं सोमदत्तमनिन्दिता।।
दिष्ट्या नैनं महाराज दारुणं भरतक्षयम्।
कुरुसङ्क्रन्दनं घोरं युगान्तमनुपश्यसि।।
दिष्ट्या यूपध्वजं पुत्रं वीरं भूरिसहस्रदम्।
अनेकक्रतुयज्वानं निहतं नानुपश्यसि।।
दिष्ट्या स्नुषाणामाक्रन्दे घोरं विलपितं बहु।
न शृणोषि महाराज सारसीनामिवार्णवे।।
एकवस्त्रास्तु पञ्चैताः प्रकीर्णासितमूर्धजाः।
स्नुषास्ते परिधावन्ति हतापत्या हतेश्वराः।।
श्वापदैर्भक्ष्यमाणं त्वमहो दिष्ट्या न पश्यसि।
छिन्नबाहुं नरव्याघ्रमर्जुनेन निपातितम्।।
शलं विनिहतं सङ्ख्ये भूरिश्रवसमेव च।
स्नुषाश्च विविधाः सर्वा दिष्ट्या नाद्येह पश्यसि।।
दिष्ट्या तत्काञ्चनं छत्रं यूपकेतोर्महात्मनः।
विनीकीर्णं रथोपस्थे सौमदत्तेर्न पश्यसि।।
अमूस्तु भूरिश्रवसो भार्याः सात्यकिना हतम्।
परिवार्यानुशोचन्ति भर्तारमसितेक्षणाः।।
एता विलप्य करुणं भर्तृशोकेन कर्शिताः।
पतन्त्यभिमुखा भूमौ कृपणं बत केशव।।
बीभत्सुरतिबीभत्सं कर्मेदमकरोत्कथम्।
प्रमत्तस्य यदच्छैत्सीद्बाहुं शूरस्य यज्वनः।।
ततः पापतरं कर्म कृतवानपि सात्यकिः।
यस्मात्प्रायोपविष्टस्य प्राहार्षीत्संशितात्मनः।।
एको द्वाभ्यां हतः शेते क्षत्रधर्मेण धार्मिकः।
किन्नु वक्ष्यति वै सत्सु गोष्ठीषु च सभासु च।।
अपुण्यमयशस्यं च कर्मेदं सात्यकिः स्वयम्।
इति यूपध्वजस्यैताः स्त्रियः क्रोशन्ति माधव।।
भार्या यूपध्वजस्यैषा करसम्मितमध्यमा।
कृत्वोत्सङ्गे भुजं भर्तुः कृपणं परिदेवति।।
अयं स हन्ता शूराणां मित्राणामभयप्रदः।
प्रदाता गोसहस्राणां क्षत्रियान्तकरः करः।।
अयं स रशनोत्कर्षी पीनस्तनविमर्दनः।
नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः।।
वासुदेवस्य सान्निध्ये पार्थेनाक्लिष्टकर्मणा।
युध्यतः समरेऽन्येन प्रमत्तस्य निपातितः।।
किन्नु वक्ष्यसि संसत्सु कथासु च जनार्दन।
अर्जुनस्य महत्कर्म स्वयं वा स किरीटभृत्।।
इत्येवं गर्हयित्वैषा तूष्णीमास्ते वराङ्गना।
तामेतामनुशोचन्ति सपत्न्यः स्वामिव स्नुषाम्।।
गान्धारराजः शकुनिर्बलवान्सत्यविक्रमः।
निहतः सहदेवेन भागिनेमेन मातुलः।।
यः पुरा हेमदण्डाभ्यां व्यजनाभ्यां स्म वीज्यते।
स एष पक्षिभिः पक्षैः शयान उपवीज्यते।।
यः स्वरूपाणि कुरुते शतशोऽथ सहस्रशः।
तस्य मायाविनो माया दग्धाः पाण्डवतेजसा।।
मायया निकृतिप्रज्ञो जितवान्यो युधिष्ठिरम्।
सभायां विपुलं राज्यं स जहौ जीवितं कथम्।।
शकुन्ताः शकुनिं कृष्ण समन्तात्पर्युपासते।
कितवं मम पुत्राणां विनाशायोपशिक्षितम्।।
एतेनैतन्महद्वैरं प्रसक्तं पाण्डवैः सह।
वधाय मम पुत्राणामात्मनः सगणस्य च।।
यथैव मम पुत्राणां लोकाः शस्त्रजिताः प्रभो।
एवमस्यापि दुर्बुद्धेर्लोकाः शस्त्रेण वै जिताः।।
कथं च नायं तत्रापि पुत्रान्मे भ्रातृभिः सह।
विरोधयेदृजुप्रज्ञाननृजुर्मधुसूदन।।
।। इति श्रीमन्महाभारते स्त्रीपर्वणि
स्त्रीविलापपर्वणि चतुर्विंशोऽध्यायः।। 24 ।।