स्त्रीपर्व

अध्यायः २२

Stri Parva (Sanskrit) · Adhyaya 22
अक्षर का आकार

गान्धार्युवाच।

आवनत्यं भीमसेनेन भक्षयन्ति निपातितम्।
गृध्रगोमायवः शूरं दूरबन्धुमबन्धुवत्।।

तं पश्य कदनं कृत्वा शूराणां मधुसूदन।
शयानं वीरशयने रुधिरेण समुक्षितम्।।

तं सृगालाश्च कङ्काश्च क्रव्यादाश्च पृथग्विधाः।
तेनतेन विकर्षन्ति पश्य कालस्य पर्ययम्।।

शयानं वीरशयने शूरमाक्रन्दकारिणम्।
आवन्त्यमभितो नार्यो रुदत्यः पर्युपासते।।

प्रातिपेयं महेष्वासं हतं भीमेन बाह्लिकम्।
प्रसुप्तमिव शार्दुलं पश्य कृष्णमनस्विनम्।।

अतीव मुखवर्णोऽस्य निहतस्यापि शोभते।
सोमस्यवाभिपूर्णस्य पौर्णमास्यां समुद्यतः।।

पुत्रशोकाभितप्तेन प्रतिज्ञां चाभिरक्षता।
पाकशासनिना सङ्ख्ये वार्धक्षत्रिर्निपातितः।।

एकादशचमूर्भित्त्वा रक्ष्यमाणं महात्मभिः।
सत्यं चिकीर्षता पश्य हतमेनं जयद्रथम्।।

सिन्धुसौवीरभर्तारं दर्पपूर्णं मनस्विनम्।
भक्षयन्ति शिवा गृध्रा जनार्दन जयद्रथम्।।

संरक्ष्यमाणं भार्याभिरनुरक्ताभिरच्युत।
भीषयन्त्यो विकर्षन्ति गहनं निम्नमन्तिकात्।।

तमेताः पर्यपासन्ते वीक्षमाणा महाभुजम्।
सिन्धुसौवीरकाम्भोजगान्धारयवनस्त्रियः।।

यदा कृष्णामुपादाय प्राद्रवत्केकयैः सह।
तदैव वध्यः पाण्डूनां जनार्दन जयद्रथः।।

दुःशलां मानयद्भिस्तु तदा मुक्तो जयद्रथः।
कथमद्य न तां कृष्ण मानयन्ति स्म ते पुनः।।

सैन्धवं मे सुता बाला प्रस्स्वलन्तीव दुःखिता।
प्रमापयन्ती चात्मानमाक्रोशन्तीव पाण्डवान्।।

किन्नु दुःखतरं कृष्ण परं मम भविष्यति।
यत्सुता विधवा बाला स्नुषाश्च निहतेश्वराः।।

हाहा धिग्धुःशलां पश्य वीतशोकभयामिव।
भर्तुः शिर अपश्यन्तीं धावमानामितस्ततः।।

वारयामास यः सर्वान्पाण्डवान्पुत्रगृद्विनः।
स हत्वा विपुलाः सेनाः सर्वयं मृत्युवशं गतः।।

तं मत्तमिव मातङ्गं वीरं परमदुर्जयम्।
परिवार्य रुदन्त्येताः स्त्रियश्चन्द्रोपमाननाः।।

।। इति श्रीमन्महाभारते स्त्रीपर्वणि
स्त्रीविलापपर्वणि द्वाविंशोऽध्यायः।। 22 ।।