स्त्रीपर्व

अध्यायः १

Stri Parva (Sanskrit) · Adhyaya 1
अक्षर का आकार

श्रीवेदव्यासाय नमः।

नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्।।

जनमेजय उवाच।

हते दुर्योधने चैव हते सैन्ये च सर्वशः।
धृतराष्ट्रो महाराज श्रुत्वा किमकरोन्मुने।।

तथैव कौरवो राजा धर्मपुत्रो महामनाः।
कृपप्रभृतयश्चैव किमकुर्वत ते त्रयः।।

अश्वत्थाम्नः कृतं कर्म शापश्चान्योन्यकारितः।
वृत्तान्मुत्रं ब्रूहि यदभाषत सञ्जयः।।

वैशम्पायन उवाच।

हते पुत्रशते दीनं छिन्नशाखमिव द्रुमम्।
पुत्रशोकाभिसन्प्तं धृतराष्ट्रं महीपतिम्।।

ध्यानमूकत्वमापन्नं चिन्तया समभिप्लुतम्।
सञ्जयो जयतां श्रेष्ठ राजानं वाक्यमब्रवीत्।।

किं शोचसि महाराज नास्ति शोके सहायता।
अक्षौहिण्यो हताश्चाष्टौ दश चैव विशाम्पते।
निर्जितेयं वसुमती शून्या स्थास्यति केवलम्।।

नानादिग्भ्यः समागम्य नानाजात्या नराधिपाः।
सहितास्व पुत्रेण सर्वे वै निधनं गताः।।

पितॄणां पुत्रपौत्राणां ज्ञातीनां सुहृदां तथा।
गुरूणां चानुपूर्व्येण ये चान्येऽनुचरा हताः।
प्रेतकार्याणि सर्वाणि कारयस्व नराधिप।।

वैशम्पायन उवाच।

तच्छ्रुत्वा करुणं पुत्रपौत्रवधार्दितः।
पपात भुवि दुर्धर्षो वाताहत इव द्रुमः।।

धृतराष्ट्र उवाच।

हतपुत्रो हतामात्यो हतसर्वसुहृज्जनः।
दुःखं नूनं गमिष्यामि विचरन्पृथिवीमिमाम्।।

किन्नु बन्धुविहीनस्य जीवितेन ममाद्य वै।
लूनपक्षस्य इव मे वैनतेयस्य सञ्जय।।

हृतराज्यो हतसुहृद्वतपुत्रश्च वै तथा।
न भ्राजिष्ये महाप्राज्ञ क्षीणरश्मिरिवांशुमान्।।

न कृतं सुहृदां वाक्यं जामद्ग्न्यस्य च।।
सभामध्ये तु कृष्णेन यच्छ्रेयोऽभिहितं मम।

अलं वैरेण ते राजन्पुत्रः संगृद्यतामिति।
तच्च वाक्यमकृत्वाऽहं भृशं तप्यामि दुर्मतिः।।

न हि श्रोताऽस्मि भीष्मस्य शर्मयुक्तं प्रभाषितम्।।

दुर्योधनस्य च तथा वृषभस्येव नर्दतः।
दुःशासनवधं श्रुत्वा कर्णस्य च विपर्ययम्।
द्रोणसूर्योपरागं च हृदयं मे विदीर्यते।।

न स्मराम्यात्मनः किञ्चित्पुरा सञ्जय दुष्कृतम्।
यस्येदं फलमद्येह मया मूढेन भुज्यते।।

नूनं व्यपकृतं किञ्चिन्मया पूर्वेषु जन्मसु।
येन मां दुःखभागेषु धाता कर्मसु युक्तवान्।।

परिणामश्च वयसः सर्वबन्धुक्षयश्च मे।
सुहृन्मित्रविनाशश्च दैवयोगादुपागतः।।

कोन्वस्ति दुःखिततरो मत्तोऽन्यो हि पुमान्भुवि।।

तन्मामद्यैव पश्यन्तु पाण्डवाः संशितव्रताः।
विवृतं ब्रह्मलोकस्य दीर्घमध्वानमास्थितम्।।

वैशम्पायन उवाच।

तस्य लालप्यमानस्य बहु शोकं विचिन्वतः।
शोकापहं नरेन्द्रस्य सञ्जयो वाक्यमब्रवीत्।।

शोकं राजन्व्यपनुद श्रुतास्ते वेदनिश्चयाः।
शास्त्रागमाश्च विविधा वृद्धेभ्यो नृपसत्तम।।

सृञ्जये पुत्रशोकार्ते यदूर्चुर्मुनयः पुरा।
यथा यौवनजं दर्पमास्थिते ते सुते नृप।।

न त्वया सुहृदां वाक्यं ब्रुवतामवधारितम्।
स्वार्थश्च न कृतः कश्चिल्लुब्धेन फलगृद्धिना।।

असिनैवैकधारेण स्वबुद्ध्या तु विचेष्टितम्।
प्रायशोऽवृत्तसम्पन्नाः सततं पर्युपासिताः।।

यस्य दुःशासनो मन्त्री राधेयश्च दुरात्मवान्।
शकुनिश्चैव दुष्टात्मा चित्रसेनश्च दुर्मतिः।।

अनल्पं येन वै सर्वं शल्यभूतं कृतं जगत्।
कुरुवृद्धस्य भीष्मस्य गान्धार्या विदुरस्य च।।

द्रोणस्य च महाराज कृपस्य च शरद्वतः।
कृष्णस्य च महाबाहो नारदस्य च धीमतः।।

ऋषीणां च तथाऽन्येषां व्यासस्यामिततेजसः।
न कृतं तेन वचनं तव पुत्रेण भारत।
क्षपिताः क्षत्रियाः सर्वे शत्रूणां वर्धितं यशः।।

अधर्मसंयुतं किञ्चिन्नित्यं युद्धमिति ब्रुवन्।
मध्यस्थो हि त्वमप्यासीर्न क्षमं किञ्चिदुक्तवान्।।

धूर्धरेण त्वया भारस्तुलया न समं धृतः।।

आदावेव मनुष्येण वर्तितव्यं यथाक्रमम्।
यथा नातीतमर्थं वै पश्चात्तापेन युज्यते।।

पुत्रगृद्ध्या त्वया राजन्प्रियं तस्य चिकीर्षितम्।
पश्चात्तापमिमं प्राप्तो न त्वं शोचितुमर्हसि।।

मधु यः केवलं दृष्ट्वा प्रपातं नानुपश्यति।
स भ्रष्टोमधुलोभेन शोचत्येव यथा भवान्।।

अर्थान्न शोचन्प्राप्नोति न शोचन्विन्दते सुखम्।
न शोचञ्श्रियमाप्नोति न शोचन्विन्दते जयम्।।

स्वयमुत्पादयित्वाऽग्निं परीतस्तेन योऽग्निना।
दह्यमानः पुनस्तापं भजते न स पण्डितः।।

त्वयैव ससुतेनायं वाक्यवायुसमीरितः।
लोभाज्येन च संसिक्तो ज्वलितः पार्थपावकः।।

तस्मिन्समिद्धे पतिताः शलभा इव ते सुताः।
तान्केशवाग्निनिर्दग्धान्न त्वं शोचितुमर्हसि।।

यच्चाश्रुपातकलिलं वदनं वहसे नृप।
अशास्त्रदृष्टमेतद्धि न प्रशंसन्ति पण्डिताः।।

विस्फुलिङ्गा इव ह्येतान्दहन्ति किल मानवान्।
जहीहि मन्युं बुद्ध्या वै धास्यात्मानमात्मना।। 41 ।।

वैशम्पायन उवाच।

एवमाश्वासितं तेन सञ्जयेन महात्मना।
विदुरो भूय एवाह बुद्धिपूर्वं परन्तप।।

।। इति श्रीमन्महाभारते स्त्रीपर्वणि
जलप्रदानिकपर्वणि प्रथमोऽध्यायः।। 1 ।।