स्त्रीपर्व
अध्यायः १९
गान्धार्युवाच।
एष माधव पुत्रो मे विकर्णः पाज्ञसम्मतः।
भूमौ विनिहतः शेते भीमेन शतधा कृतः।।
गजमध्ये हतः शेते विकर्णो मधुसूदन।
नीलमेघपरिक्षिप्तः शरदीव निशाकरः।।
अस्य चापग्रहेणैव पाणिः कृतकिणो महान्।
कथञ्चिच्छिद्यते गृध्रैरत्तुकामैस्तलत्रवान्।।
अस्य भार्याऽऽमिषप्रेप्सून्गृध्रकाकांस्तपस्विनी।
वारयत्यनिशं बाला न च शक्नोति माधव।।
युवा वृन्दारकसमो विकर्णः पुरुषर्षभ।
सुखोषितः सुखार्हश्च शेते पांसुषु माधव।।
कर्णिनालीकनाराचैर्भिन्नमर्माणमाहवे।
अद्यापि न जहात्येनं लक्ष्मीर्भरतसत्तमम्।।
एष सङ्ग्रामशूरणे प्रतिज्ञां पालयिष्यता।
दुर्मुखोऽभिमुखः शेते हतोऽरिगणहा रणे।।
तस्यैतद्वदनं कृष्ण श्वापदैरर्धभक्षितम्।
विभात्यभ्यधिकं तात सप्तम्यामिव चन्द्रमाः।।
शूरस्य हि रणे कृष्ण पश्याननमथेदृशम्।
स कथं निहतोऽमित्रैः पांसून्ग्रसति मे सुतः।।
यस्याहवमुखे सौम्य स्थाता नैवोपपद्यते।
स कथं दुर्मुखोऽमित्रैर्हतो विबुधलोकजित्।।
चित्रसेनं हतं भूमौ शयानं मधुसूदन।
धार्तराष्ट्रमिमं पश्य प्रतिमानं धनुष्मताम्।।
तं चित्रमाल्याभरणं युवत्यः शोककर्शिताः।
क्रव्यादसङ्घैः सहिता रुदन्त्यः पर्युपासते।।
स्त्रीणां रुदितनिर्घोषः श्वापदानां च गर्जितम्।
चित्ररूपमिदं कृष्ण विमृश्य प्रतिभाति मे।।
युवा वृन्दारको नित्यं प्रवरस्त्रीनिषेवितः।
विविंशतिरसौ शेते ध्वस्तः पांसुषु माधव।।
शरसङ्कृत्तवर्माणं वीरं विशसने हतम्।
परिवार्यासते गृध्राः परिविंशं विविंशतिम्।।
प्रविश्य समरे शूरः पाण्डवानामनीकिनीम्।
स वीरशयने शेते परः सत्पुरुषोचिते।।
स्मितोपपन्नं सुनसं सुभ्रु ताराधिपोपमम्।
अतीव सौम्यवदनं कृष्ण पश्य विविंशतेः।।
यं स्म तं पर्युपासन्ते बहुधा वरयोषितः।
क्रीडन्तमिव गन्धर्वं देवकन्याः सहस्रशः।।
हन्तारं परसैन्यानां शूरं समितिशोभनम्।
निबर्हणममित्राणां दुःसहं विषहेत कः।।
दुःसहस्यैतदाभाति शरीरं संवृतं शरैः।
गिरिरात्मरुहैः फुल्लैः कर्णिकारैरिवाचितः।।
शातकौम्भ्या स्रजा भाति कवचेन च भास्वता।
अग्निनेव गिरिः श्वेतो गतासुरपि दुःसहः।।
।। इति श्रीमन्महाभारते स्त्रीपर्वणि
स्त्रीविलापपर्वणि एकोनविंशोऽध्यायः।। 19 ।।