स्त्रीपर्व

अध्यायः २०

Stri Parva (Sanskrit) · Adhyaya 20
अक्षर का आकार

गान्धार्युवाच।

अध्यर्धगुणमाहुर्यं बले शौर्ये च केशव।
पित्रा त्वया च दाशार्ह दृप्तं सिंहमिवोत्कटम्।।

यो बिभेद चमूमेको मम पुत्रस्य दुर्भिदाम्।
स भूत्वा मृत्युरन्येषां स्वयं मृत्युवशं गतः।।

तस्योपलक्षये कृष्ण कार्ष्णेरमिततेजसः।
अभिमन्योर्हतस्यापि प्रभा नैवोपशाम्यति।।

एषा विराटदुहिता स्नुषा गाण्डीवधन्वनः।
हतं बाला पतिं वीरं दृष्ट्वा शोचत्यनिन्दिता।।

तमेषा हि समागम्य भार्या भर्तारमन्तिके।
विराटदुहिता कृष्ण पाणिना परिमार्जति।।

तस्य वक्त्रमुपाघ्राय सौभद्रस्य मनस्विनी।
विबुद्धकमलाकारं कम्बुवृत्तशिरोधरम्।।

कामरूपवती चैषा परिष्वजति भामिनी।
लज्जमाना पुरा चैनं माध्वीकमदमूर्च्छिता।।

तस्य क्षतजसन्दिग्धं जातरूपपरिष्कृतम्।
विमुच्य कवचं कृष्ण शीरमभिवीक्षते।।

अवेक्षमाणा तं बाला कुष्ण त्वामभिभाषते।
अयं ते पुण्डरीकाक्ष कसदृशाक्षो निपातितः।।

बले वीर्ये च सदृशस्तेजसा चैव तेऽनघ।
रूपेण च तथाऽत्यर्थं शेते भुवि निपातितः।।

अत्यन्तं सुकुमारस्य राङ्कवाजिनशायिनः।
कच्चिदद्य शरीरं ते भूमौ न परितप्यते।।

मातङ्गभुजवर्ष्णाणौ ज्याक्षेपकठिनत्वचौ।
काञ्चनाङ्गदिनौ शेते निक्षिप्य विपुलौ भुजौ।
व्यायम्य बहुधा नूनं सुखसुप्तः श्रमादिव।।

एवं विलपतीमार्तां किं मां न प्रतिभाषसे।
न स्मराम्यपराधं ते किं मां न प्रतिभाषसे।।

ननु मां त्वं पुरा दूरादभिवीक्ष्याभिभाषसे।
न स्मराम्यपराधं मे किं मां न प्रतिभाषसे।।

आर्यामार्य सुभद्रां तवमिमां श्च त्रिदशोपमान्।
पितॄन्मां चैव दुःखार्तां विहाय क्व गमिष्यसि।।

तस्य शोणितदिग्धान्वै केशानुन्नम्य पाणिना।
उत्सङ्गे वक्तमाधाय जीवन्तमिव पृच्छति।।

स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः।
कथं त्वां रणमध्यस्थं जघ्रुरेते महारथाः।।

धिगस्तु क्रूरकर्तॄंस्तान्कृपकर्णजयद्रथान्।
द्रोणद्रौणायतनी चोभौ यैरहं विधवा कृता।।

रथर्षभाणां सर्वेषां कथमासीत्तदा मनः।
बालं त्वां पिरवार्यैकमनेकेषां च जघ्नताम्।।

कथं नु पाण्डवानां च पाञ्चालानां तु पश्यताम्।
त्वं वीर निधनं प्राप्तो नाथवान्सन्ननाथवत्।।

दृष्ट्वा बहुभिराक्रन्दे निहतं त्वां पिता तव।
वीरः पुरुषशार्दूलः कथं जीवति पाण्डवः।।

न राज्यलाभो विपुलः शत्रूणां च पराभवः।
प्रीतिं धास्यति पार्थानां त्वामृते पुष्करेक्षण।।

तव शस्त्रजिताँल्लोकान्धर्मेण च दमेन च।
क्षिप्रमन्वागमिष्यामि तत्र मां प्रतिपालय।।

दुर्मरं पुनरप्राप्ते काले भवति केनचित्।
यदहं त्वां रणे दृष्ट्वा हतं जीवामि दुर्भगा।।

कामिदानीं नरव्याघ्र श्लक्ष्णया स्मितया गिरा।
पितृलोके समेत्यान्यां मामिवामन्त्रयिष्यसि।।

नूनमप्सरसां स्वर्गे मनांसि प्रमथिष्यसि।
परमेण च रूपेण गिरा च स्मितपूर्वया।।

प्राप्य पुण्यकृताँल्लोकानप्सरोभिः समेयिवान्।
सौभद्र विहन्काले स्मरेथाः सुकृतानि मे।।

एतावानिह संवासो विहितस्ते मया सह।
षण्मासान्सप्तमे मासि त्वं वीर निधनं गतः।।

इत्युक्तवचनामेनामपकर्षन्ति दुःखिताम्।
उत्तरां मोघसङ्कल्पां मत्स्यराजकुलस्त्रियः।।

उत्तरामपकृष्यैनामार्तामार्ततराः स्वयम्।
विराटं निहतं दृष्ट्वा क्रोशन्ति विलपन्ति च।।

द्रोणास्त्रशरसङ्कृत्तं शयानं रुधिरोक्षितम्।
विराटं वितुदन्त्येते गृध्रगोमायुवायसाः।।

वितुद्यमानं विहगैर्विराटमसितेक्षणाः।
न शक्नुवन्ति विहगान्निवारयितुमातुराः।।

आसामातपतप्तानामायासेन च योषिताम्।
श्रमेण च विवर्णानां वक्त्राणां विप्लुतं वपुः।।

उत्तरं चाभिमन्युं च काम्भोजं च सुदक्षिणम्।
कार्ष्णिनाऽभिहतं पश्य लक्ष्मणं प्रियदर्शनम्।

आयोधनशिरोमध्ये शयानं पश्य माधव।।

।। इति श्रीमन्महाभारते कर्णपर्वणि