स्त्रीपर्व

अध्यायः १८

Stri Parva (Sanskrit) · Adhyaya 18
अक्षर का आकार

गान्धार्युवाच।

पश्य माधव पुत्रान्मे शतसङ्ख्याञ्जितक्लमान्।
गदया भीमसेनेन भूयिष्ठं निहतान्रणे।।

इदं दुःखतरं मेऽद्य यदिमा मुक्तमूर्धजाः।
हतपुत्रा रणे बालाः परिधावन्ति मे स्नुषाः।।

प्रासादतलचारिण्यश्चरमैर्भूषणान्वितैः।
कायेनाद्य स्पृशन्तीमां रुधिरार्द्रां वसुन्धराम्।।

कृच्छ्रादुत्सारयन्ति स्म गृध्रगोमायुवायसान्।
दुःखेनार्ता विघूर्णन्त्यो मत्ता इव चरन्त्युत।।

एषाऽन्या त्वनवद्याङ्गी करसम्मितमध्यमा।
घोरमायोधनं दृष्ट्वा निपतत्यतिदुःखिता।।

दृष्ट्वा मे पार्थिवसुतामेतां लक्ष्मणमातरम्।
राजपुत्रीं महाबाहो मनो न ह्युपशाम्यति।।

भ्रातॄंश्चान्याः पितॄंश्चान्याः पुत्रांश्च निहतान्भुवि।
दृष्ट्वा परिपतन्त्येषाः प्रगृह्य सुमहाभुजान्।।

मध्यमानां तु नारीणां वृद्धानां चापराजित।
आक्रन्दं हतबन्धूना दारुणे वैशसे शृणु।।

रथनीडानि देहांश्च हतानां गजवाजिनाम्।
आश्रित्य श्रममोहार्ताः स्थिताः पश्य महाभुज।।

अन्या चापहृतं कायाच्चारुकुण्डलमुन्नसम्।
स्वस्य बन्धोः शिरः कृष्ण गृहीत्वा पश्य तिष्ठति।।

पूर्वजातिकृतं पापं मन्ये नाल्पमिवानघ।
एताभिर्निरवद्याभिर्मया चैवाल्पपुण्यया।
यदिदं धर्मराजेन घातितं नो जनार्दन।।

न हि नाशोऽस्ति वार्ष्णेय कर्मणोः शुभपापयोः।।

प्रत्यग्रवयसः पश्य दर्शनीयकुचाननाः।
कुलेषु जाता हीमत्यः कृष्णपक्ष्माक्षिमूर्धजाः।।

हंसगद्गदभाषिण्यो दुःखशोकप्रमोहिताः।
सारस्य इव वाशन्त्यः पतिताः पश्य माधव।।

फुल्लुपद्यप्रकाशानि पुण्डरीकाक्ष योषिताम्।
अनवद्यानि वक्त्राणि तापयत्येष रश्मिवान्।।

सेर्ष्याणां मम पुत्राणां वासुदेवावरोधनम्।
मत्तमातङ्गदर्पाणां पश्यन्त्यद्य पृथग्जनाः।।

शतचन्द्राणि चर्माणि ध्वजांश्चादित्यवर्चसः।
रौक्माणि चैव वर्माणि निष्कानपि च काञ्चनान्।।

शिरस्त्राणानि चैतानि पुत्राणां मे महीतले।
पश्य दीप्तानि गोविन्द पावकान्सुहुतानिव।।

एष दुःशासनः शेते शूरेणामित्रघातिना।
पीतशोणिxx सर्वाङ्गो युधि भीमेन पातितः।।

गदया भीमसेनेन पश्य माधव मे सुतम्।
द्यूतक्लेशाननुस्मृत्य द्रौपदीचोदितेन च।।

उक्ता ह्यनेन पाञ्चाली सभायां द्यूतनिर्जिता।
प्रियं चिकीर्षता भ्रातुः कर्णस्य च जनार्दन।।

सहैव सहदेवेन नकुलेनार्जुनेन च।
दासीभूताऽसि पाञ्चालि क्षिप्रं प्रविश नो गृहान्।।

ततोऽहमब्रुवं कृष्ण तदा दुर्योधनं नृपम्।
मृत्युपाशपरिक्षिप्तां द्रौपदीं पुत्र वर्जय।।

निबोधैनं सुदुर्बुद्धिं मातुलं कलहप्रियम्।
क्षिप्रमेनं परित्यज्य पुत्र संशाम्य पाण्डवैः।।

न बुद्ध्यसे त्वं दुर्बुद्धे भीमसेनममर्षणम्।
वाङ्गराचैस्तुदंस्तीक्ष्णैरुल्काभिरिव कुञ्जरम्।।

तानेवं रहसि क्रुद्धो वाक्शल्यानवधारयन्।
उत्ससर्ज विषं तेषु सर्पो गोवृषभेष्विव।।

एष दुःशासनः शेते विक्षिप्य विपुलौ भुजौ।
निहतो भीमसेनेन सिहेनेव महागजः।।

अत्यर्थमकरोद्रौद्रं भीमसेनोऽत्यमर्षणः।
दुःशासनस्य यत्क्रुद्धोऽपिबच्छोणितमाहवे।।

।। इति श्रीमन्महाभारते स्त्रीपर्वणि
स्त्रीविलापपर्वणि अष्टादशोऽध्यायः।। 18 ।।