स्त्रीपर्व

अध्यायः १५

Stri Parva (Sanskrit) · Adhyaya 15
अक्षर का आकार

वैशम्पायन उवाच।

तमेवमुक्त्वा गान्धारी युधिष्ठिरमपृच्छत।
क्व स राजेति सक्रोधा पुत्रपौत्रवधार्दिता।।

तामभ्यगच्छत्कौन्तेयो वेपमानः कृताञ्जलिः।
युधिष्ठिरस्तु गान्धारीं मधुरं वाक्यमब्रवीत्।।

पुत्रहन्ता नृशंसोऽहं तव देवि युधिष्ठिरः।
शापार्हः पृथिवीनाशे हेतुभूतः शपस्व माम्।।

नहि मे जीवितेनार्थो न राज्येन सुखेन वा।
तादृशान्सुहृदो हत्वा प्रमूढस्य सुहृद्द्रुहः।।

तमेवंवादिनं भीतं सन्निकर्षागतं तदा।
नोवाच किञ्चिद्गान्धारी निःश्वासपरमा नृप।।

तस्मावनतदेहस्य पादयोर्निपतिष्यतः।
युधिष्ठिरस्य नृपतेर्धर्मज्ञा दीर्घदर्शिनी।।

अङ्गुल्यग्राणि ददृशे देवी पट्टान्तरेण सा।
ततः स कुनखीभूतो दर्शनीयनखो नृपः।।

तं दृष्ट्वा चार्जुनोऽगच्छद्वासुदेवस्य पृष्ठतः।।

एवं सञ्चेष्टमानांस्तानितश्चेतश्च भारत।
गान्धारी विगतक्रोधा सांत्वयामास मातृवत्।।

ते पाण्डवा अनुज्ञाता मातरं वीतमत्सराः।
अभ्यगच्छन्त सहिताः पृथां पृथुवलक्षसः।।

चिरस्य दृष्ट्वा पुत्रान्सा पुत्राधिभिरभिप्लुता।
बाष्पमाहारयद्देवी वस्त्रेणावृत्य वै मुखम्।।

ततो बाष्पं समुत्सृज्य सह पुत्रैस्तदा पृथा।
अपश्यदेनाञ्शस्त्रौघैर्बहुधा परिविक्षतान्।।

सा तानेकैकशः पुत्रान्संस्पृशन्ती पुनःपुनः।
अन्वशोचत दुःखार्ता द्रौपदीं निहतात्मजाम्।
रुदन्तीमथ पाञ्चालीं ददर्श पतितां भुवि।।

द्रौपद्युवाच।

आर्ये पौत्रास्तु ते सर्वे सौभद्रसहिता गताः।
न त्वां तेऽद्याभिगच्छन्ति चिरं दृष्ट्वा अनिन्दिते।
किन्नु राज्येन मे कार्यं विहीनायाः सुतैर्वरैः।।

तां समाश्वासयामास पृथा पृथललोचना।
उत्थाप्याङ्केन सुदतीं रुदतीं शोककर्शिताम्।।

तयैव सहिता चापि पुत्रैरनुगता पृथा।
अभ्यगच्छत गान्धारीमार्तामार्ततरा स्वयम्।।

वैशम्पायन उवाच।

तामुवाचाथ गान्धारी सह कुन्त्या यशस्विनीम्।
मैवं पुत्रीति शोकार्ता पश्य मामपि दुःखितां।।

मन्ये लोकविनाशोऽयं कालपर्यायनोदितः।
अवश्यभावी सम्प्राप्तः स्वभावाद्रोमहर्षणः।।

इदं तत्समनुप्राप्तं विदुरस्य वचो महत्।
असिद्धानुनये कृष्णे यदुवाच महामतिः।।

तस्मिन्नपरिहार्येऽर्थे व्यतीते च विशेषतः।
मा शुचो न हि शोच्यास्ते सङ्ग्रामे निधनं गताः।।

यथैवाहं तथैव त्वं को वामाश्वासयिष्यति।
ममैव ह्यपराधेन कुलमग्र्यं विनाशितम्।।

।। इति श्रीमन्महाभारते स्त्रीपर्वणि
जलप्रदानिकपर्वणि पञ्चदशोऽध्यायः।। 15 ।।