स्त्रीपर्व

अध्यायः १४

Stri Parva (Sanskrit) · Adhyaya 14
अक्षर का आकार

वैशम्पायन उवाच।

तच्छ्रुत्वा वचनं तस्या भीमसेनोऽथ भीतवत्।
गान्धारीं प्रत्युवाचेदं वचः सानुनयं तदा।।

अधर्मो यदि वा धर्मस्त्रासात्तत्र मया कृतः।
आत्मानं त्रातुकामेन तन्मे त्वं क्षन्तुमर्हसि।।

न हि युद्धेन पुत्रस्ते धर्मेण स महाबलः।
दुःशक्यः केनचिद्धर्तुमतो विषममाचरम्।।

अधर्मेण जितः पूर्वं तेन चापि युधिष्ठिरः।
निकृताश्च सदैव स्म तो विषममाचरम्।।

सैन्यस्यैकोऽवशिष्टोऽयं गदायुद्धे च वीर्यवान्।
न त्यक्ष्यति हृतं राज्यमिति वै तत्कृतं मया।।

एकपत्नीं च पाश्चालीमेकवस्त्रां रजस्वलाम्।
भवत्या विदितं सर्वमुक्तवान्यत्सुतस्तव।।

सुयोधनं त्वसंहृत्य न शक्या भूः ससागरा।
केवला भोक्तुमस्माभिरतश्चैतत्कृतं मया।।

तच्चाप्यप्रियमस्माकं पुत्रस्ते समुपाचरत्।
द्रौपद्या यत्सभामध्ये सव्यमूरुमदर्शयत्।।

तत्रैव वध्यः सोऽस्माकं दुराचारोऽप्ब ते सुतः।
धर्मराजाज्ञया चैव स्थिताः स्म समये पुरा।।

वैरमुद्दीपितं राज्ञि पुत्रेण तव यन्महत्।
क्लेशिताश्च वने नित्यं तत एतत्कृतं मया।।

वैरस्यास्य गताः पारं हत्वा दुर्योधनं रणे।
राज्यं युधिष्ठिरे प्राप्ते वयं च गतमन्यवः।।

गान्धार्युवाच।

न तस्यैवं वधस्तात यं प्रशंससि मे सुतम्।
कृतवांश्चापि तत्सर्वं यदिदं भाषसे मयि।।

हताश्वे नकुले यत्तु वृषसेनेन भारत।
अपिबः शोणितं सङ्ख्ये दुःशासनशरीरजम्।।

सद्भिर्विगर्हितं घोरमनार्यजनसेवितम्।
क्रूरं कर्माकृथास्तस्मात्तदयुक्तं वृकोदर।।

भीम उवाच।

हताश्वं नकुलं दृष्ट्वा वृषसेनेन संयुगे।
शत्रूणां तु प्रहृष्टानां त्रासः सञ्जनितो मया।।

`स प्रतिज्ञामकरवं पिबाम्यसृगरेरिति'।
रुधिरं नातिचक्राम दन्तोष्ठादम्ब मा शुचः।।

[अन्यस्यापि न पातव्यं रुधिरं किंपुनः स्वकम्।
यथैवात्मा तथा भ्राता विशेषो नास्ति कश्चन।।

वैवस्तितो हि तद्वेद यथावत्कुलनन्दिनि।
मा कृथा हृदि तन्मातर्न तत्पीतं मयाऽनधे।।

केशपक्षपरामर्शे द्रौपद्या द्यूतकारिते।
क्रोधाद्यदब्रवं चाहं तच्च मे हृदि वर्तते।।

क्षत्रधर्माच्च्युतो राज्ञि भवेयं शाश्वतीः समाः।
प्रतिज्ञां तामनिस्तीर्य ततस्तत्कृतवानहम्।।

अनिगृह्य पुरा पुत्रानस्मस्वनपकारिषु।
न ममार्हसि कल्याणि दोषेण परिशङ्कितुम्।।

गान्धार्युवाच।

वृद्धस्यास्य शतं पुत्रान्निघ्नंस्त्वमपराजितः।
कस्मानाशेषयः कञ्चिद्येनाल्पमपराधितम्।।

सन्तानमावयोस्तात वृद्धयोर्हृतराज्ययोः।
नाशेषयः कथं यष्टिमेकां वृद्धयुगस्य वै।।

शेषे ह्यवस्थिते तात पुत्राणामल्पकेऽपि च।
मन्ददुःखं भवेदद्य यदि त्वं धर्ममाचरेः।।

।। इति श्रीमन्महाभारते स्त्रीपर्वणि
जलप्रदानिकपर्वणि चतुर्दशोऽध्यायः।। 14 ।।