स्त्रीपर्व
अध्यायः १६
वैशम्पायन उवाच।
एवमुक्त्वा तु गान्धारी कुरूणामवकर्तनम्।
अपश्यत्तत्र तिष्ठन्ती सर्वं तत्र यथास्थितम्।।
पतिव्रता महाभागा समानव्रतचारिणी।
उग्रेण तपसा युक्ता सततं सत्यवादिनी।।
वरदानेन कृष्णस्य महर्षेः पुण्यकर्मणः।
दिव्यज्ञानबलोपेता विविधं पर्यदेवयत्।।
ददर्श सा बुद्धिमती दूरादपि यथाऽन्तिके।
रणाजिरं तद्वीराणामद्भुतं रोमहर्षणम्।।
अस्थिकेशवसाकीर्णं शोणितौघपरिप्लुतम्।
शरीरैर्बहुसाहस्रैर्विनिकीर्णं समन्ततः।।
गजाश्वरथयोधानामावृतं रुधिराविलैः।
शरीरैरशिरस्कैश्च विदेहैश्च शिरोगणैः।।
गजाश्वनरवीराणां निःसत्वैरभिसंवृतम्।
सृगालवलगोमायुकङ्ककाकनिषेवितम्।।
रक्षसां पुरुषादाना मोदनं कुरराकुलम्।
अशिवाभिः शिवाभिश्च नादितं गृध्रसेवितम्।।
ततो व्यासाभ्यनुज्ञातो धृतराष्ट्रो महीपतिः।
पाण्डुपुत्राश्च ते सर्वे युधिष्ठिरपुरोगमाः।।
वासुदेवं पुरस्कृत्य हतबन्धुं च पार्थिवम्।
कुरुस्त्रियः समादाय जग्मुरायोधनं प्रति।।
समासाद्य कुरुक्षेत्रं ताः स्त्रियो निहतेश्वराः।
अपश्यन्त हतांस्तत्र पुत्रान्भ्रातॄन्पितॄन्पतीन्।।
क्रव्यादैर्भक्ष्यमाणांश्च गोमायुवलवायसैः।
भूतैः पिशाचै रक्षोभिर्विविधैश्च निशाचरैः।।
रुद्राक्रीडनिभं दृष्ट्वा तदा विशसनं स्त्रियः।
कुरर्य इव शोकार्ता विक्रोशन्त्यो निपेतिरे।।
अदृष्टपूर्वं पशन्त्यो दुःखार्ता भरतस्त्रियः।
शरीरेषु स्खलन्त्यश्च न्यपतंश्च परासुवत्।।
श्रान्तानां चाप्यनाथानां क्रन्दन्तीनां भृशं तदा।
पाञ्चालकुरुयोषाणां कृपणं तदभून्महत्।।
दुःखोपहतचित्ताभिः समन्तादनुनादितम्।
दृष्ट्वाऽऽयोधनमत्युग्रं धर्मज्ञा सुबलात्मजा।।
ततः सा पुण्डरीकाक्षमामन्त्र्य पुरुषोत्तमम्।
कुरूणां वैशमं दृष्ट्वा इदं वचनमब्रवीत्।।
पश्यैताः पुण्डरीकाक्ष स्नुषा मे निहतेश्वराः।
प्रकीर्णकेशाः क्रोशन्तीः कुररीरिव माधव।।
अमूस्त्वभिसमागम्य स्मरन्त्यो भरतर्षभान्।
पृथगेवानुपद्यन्ते पुत्रान्भ्रातॄन्पितॄन्पतीन्।।
वीरसूभिर्महाबाहो हतपुत्राभिरावृतम्।
क्वचिच्च वीरपत्नीभिर्हतवीराभिरावृतम्।।
शोभितं पुरुषव्याघ्रैः कर्णभीष्माभिमन्युभिः।
द्रोणद्रुपदशल्यैश्च ज्वलद्भिरिव पावकैः।।
काञ्चनैः कवचैर्निष्कैर्मणिभिश्च महाधनैः।
अद्भुतैर्हस्तकेयूरैः स्रग्भिश्च समलंकृतम्।।
वीरबाहुविसृष्टाभिः शक्तिभिः परिघैरपि।
खङ्गैश्च विविधैस्तीक्ष्णैः सशरैश्च शरासनैः।।
क्रव्यादसङ्घैर्मुदितैस्तिष्ठद्भिः सहितैः क्वचित्।
क्वचिदाक्रीडमानैश्च शयानैश्चापरैः क्वचित्।।
एतदेवंविधं वीर सम्पश्यायोधनं विभो।
`त्वया तु श्रावितं कर्म पुष्कराक्ष महाद्युते'।
पश्यमाना हि दह्यामि शोकेनाहं जनार्दन।।
पाञ्चालानां कुरूणां च विनाशं मधुसूदन।
पञ्चानामपि भूतानामहं वधमचिन्तयम्।।
तान्सुपर्णाश्च गृध्राश्च कर्षयन्त्यसृगुक्षितान्।
विगृह्य चरणैर्गृध्रा भक्षयन्ति सहस्रशः।।
जयद्रथस्य कर्णस्य तथैव द्रोमभीष्मयोः।
अभिमन्योर्विनाशं च कश्चिन्तयितुमर्हति।।
अवध्यकल्पान्निहतान्गतसत्वानचेतसः।
गृध्रकङ्कवलश्येनश्वसृगालसमावृतान्।।
अमर्षवशमापन्नान्दुर्योधनवशे स्थितान्।
पश्येमान्पुरुषव्याघ्रान्संशान्तान्पावकानिव ।।
शयनान्युचिताः सर्वे मृदूनि विमलानि च।
विपन्नास्तेऽद्य वसुधां विवृतामधिशेरते।।
बन्दिभिः सततं काले स्तुवद्भिरभिनन्दिताः।
शिवानामशिवा घोराः शृण्वन्ति विविधा गिरः।।
ये पुरा शेरते वीराः शयनेषु यशस्विनः।
चन्दनागुरुदिग्धाङ्गास्तेऽद्य पांसुषु शेरते।।
तेषामाभरणान्येते गृघ्रगोमायुवायसाः।
आक्षिपन्ति शिवा घोरा विनदन्त्यः पुनः पुनः।।
बाणान्वनिनिशितान्पीतान्निस्त्रिंशान्विमला गदाः।
युद्धाभिमानिनः सर्वे जीवन्त इव बिभ्रति।।
सुरूपवर्णा बहवः क्रव्यादैरवघट्टिताः।
ऋषभप्रतिरूपाक्षाः शेरते च सहस्रशः।।
अपरे पुनरालिङ्ग्य गदाः परिघबाहवः।
शेरतेऽभिमुखाः शूरा दयिता इव योषितः।।
बिभ्रतः कवचान्यन्ये विमलान्यायुधानि च।
न धर्षयन्ति क्रव्यादा जीवन्तीति जनार्दन।।
क्रव्यादैः कृष्यमाणानामपरेषां महात्मनाम्।
शातकौम्भ्यः स्रजश्चित्रा विप्रकीर्णाः समन्ततः।।
एते गोमायवो भीमा निहतानां यशस्विनाम्।
कण्ठान्तरगतान्हारानाक्षिपन्ति सहस्रशः।।
सर्वेष्वपररात्रेषु यानवन्दन्त बन्दिनः।
स्तुतिभिश्च परार्ध्याभिरुपचारैश्च शिक्षिताः।।
तानद्य परिदेवन्ति दुःखार्ता परमाङ्गनाः।
कृपणा वृष्णिशार्दूल दुःखशोकार्दिता भृशम्।।
रक्तोत्पलवनानीव विभान्ति रुचिराणि च।
मुखानि परमस्त्रीणां परिशुष्काणि केशव।।
रुदित्वा विरता ह्येता ध्यायन्त्यः सपरिक्लमाः।
कुरुस्त्रियोऽभिगच्छन्ति तेन तेनैव दुःखिताः।।
एतान्यादित्यवर्णानि तपमीयनिभानि च।
पश्य रोदनताम्राणि वक्त्राणि कुरुयोषिताम्।।
श्यामानां वरवर्णानां गौरीणामेकवाससाम्।
दुर्योधनवरस्त्रीणां पश्य वृन्दानि केशव।।
आसामपरिपूर्णार्थं निशम्य परिदेवितम्।
इतरेरसङ्क्रन्दान्न विजानन्ति योषितः।।
एता दीर्घमिवोच्छ्वस्य विक्रुश्य च विलप्य च।
विस्पन्दमाना दुःखेन वीरा जहति जीवितम्।।
बह्व्यो दृष्ट्व शरीराणि क्रोशन्ति विलपन्ति च।
पाणिभिश्चापरा घ्नन्ति शिरांसि मृदुपाणयः।।
शिरोभिः पतितैर्हस्तैः सर्वाङ्गैः खण्डशः कृतैः।
इतरेतसम्पृक्तैराकीर्णा भाति मेदिनी।।
विशिरस्कानथो कायान्दृष्ट्वा ह्येताननिन्दितान्।
मुह्यन्त्यनुचिता नार्यो विदेहानि शिरांसि च।।
शिरः कायेन सन्धाय प्रेक्षमाणा विचेतसः।
अपश्यन्त्योऽपरं तत्र नेदमस्येऽति दुःखिताः।।
बाहूरुचरणानन्यान्विशिखोन्मथितान्पृथक्।
सन्दधत्योऽसुखाविष्टा मूर्छन्त्येताः पुनःपुनः।।
उत्कृत्तशिरसश्चान्यान्विजग्धान्मृगपक्षिभिः।
दृष्ट्वा काश्चिन्न जानन्ति भर्तॄन्भरतयोषितः।।
पाणिभिश्चापरा घ्नन्ति शिरांसि मधुसूदन।
प्रेक्ष्य भ्रातॄन्पितॄन्पुत्रान्पतींश्च निहतान्परैः।।
बाहुभिश्च सखङ्गैश्च शिरोभिश्च सकुण्डलैः।
अगम्यकल्पा पृथिवी मांसशोणितकर्दमा।
बभूव भरतश्रेष्ठ प्राणिभिर्गतजीवितैः।।
न दुःखेषूचिताः पूर्वं दुःखं गाहन्त्यनिन्दिताः।
भ्रातृभिः पतिभिः पुत्रैरुपाकीर्णां वसुन्धराम्।।
यूथानीव किशोरीणां सुकेशीनां जनार्दन।
स्नुषाणां धृतराष्ट्रस्य पश्य वृन्दान्यनेकशः।।
इतो दुःखतरं किन्नु केशव प्रतिभाति मे।
यदिमाः कुर्वते सर्वा रवमुच्चावचं स्त्रियः।।
नूनमाचरितं पापं मया पूर्वेषु जन्मसु।
या पश्यामि हतान्पुत्रान्पौत्रान्भ्रातृंश्च माधव।।
एवमार्ता विलपती समाभाष्य जनार्दनम्।
गान्धारी पुत्रशोकार्ता द्वदर्श निहतं सुतम्।।
।। इति श्रीमन्महाभारते स्त्रीपर्वणि
स्त्रीविलापपर्वणि षोडशोऽध्यायः।। 16 ।।