सौप्तिकपर्व

अध्यायः ८

Sauptika Parva (Sanskrit) · Adhyaya 8
अक्षर का आकार

धृतराष्ट्र उवाच।

तथा प्रयाते शिबिरं द्रोणपुत्रे महारथे।
कच्चित्कृपश्च भोजश्च भयार्तौ न व्यवर्तताम्।।

कच्चिन्न वारितौ क्षुद्रौ रक्षिभिर्नोपलक्षितौ।
असह्यमिति मन्वानौ न निवृत्तौ महारथौ।।

कच्चिदुन्मथ्य शिबिरं हत्वा सोमकपाण्डवान्।
`कृता प्रतिज्ञा सफला कच्चित्सञ्जय सा निशि'।।

दुर्योधनस्य पदवीं कच्चित्परमिकां रणे।
`गत्वातिष्ठदसौ द्रौणिः कृत्वा कर्म सुदुष्करम्।।

धृष्टद्युम्नशिखण्डिभ्यां द्रौपद्याश्च सुतैः किल।
सञ्छन्ना मेदिनी सुप्तैर्निहतैः पाण्डुसैनिकैः।।

पाञ्चालैर्वा विनिहतैः शयानै रुधिरोक्षितैः।
कच्चिन्महीतलं छन्नं तन्ममाचक्ष्व सञ्जय'।।

[पाञ्चालैर्निहतौ वीरौ कच्चित्तु स्वपतां क्षितौ।
कच्चित्ताभ्यां कृतं कर्म तन्ममाचक्ष्व सञ्जय।।]

सञ्जय उवाच।

तस्मिन्प्रयाते शिबिरं द्रोणपुत्रे महात्मनि।
कृपश्च कृतवर्मा च द्रौणिमेवाभ्यवर्तताम्।।

अश्वत्थामा तु तौ दृष्ट्वा यत्नवन्तौ महारथौ।
प्रहृष्टः शनकै राजन्निदं वचनमब्रवीत्।।

यत्तौ भवन्तौ पर्याप्तौ सर्वक्षत्रस्य नाशने।
किम्पुनर्योधशेषस्य प्रसुप्तस्य विशेषतः।।

अहं प्रवेक्ष्ये शिबिरं चरिष्यामि च कालवत्।
यथा न कश्चिदपि वां जीवन्मुच्येत मानवः।
तथा भवद्ध्यां कार्यं स्यादिति मे निश्चिता मतिः।।

इत्युक्त्वा प्राविशद्द्रौणिः पार्थानां शिबिरं महत्।
अद्वारेणाभ्यवस्कन्द्य विहाय भयमात्मनः।।

स प्रविश्य महाबाहुरुद्देशज्ञश्च तस्य ह।
`द्रौणिः परमसङ्क्रुद्धस्तेजसा प्रज्वलन्निव।
ततः पर्यचरत्सर्वं सम्प्रसुप्तं जनं निशि'।।

धृष्टद्युम्नस्य निलयं शनकैरभ्युपागमत्।।

ते तु कृत्वा महत्कर्म श्रान्ताश्च बलवद्रणे।
प्रसुप्ता वै सुविश्वस्ताः स्वसैन्यपरिवारिताः।।

अथ प्रविश्य तद्वेश्म धृष्टद्युम्नस्य भारत।
पाञ्चाल्यं शयने द्रौणिरपश्यत्सुप्तमन्तिकात्।।

क्षौमावदाते महति स्पर्द्व्यास्तरणसंवृते।
माल्यप्रवरसंयुक्ते धूपैश्चूर्णैश्च वासिते।।

तं शयानं महात्मानं विस्रब्धमकुतोभयम्।
अपोथयत पादेन शयनस्थं महीपते।।

सम्बुध्य चरणस्पर्शादुत्थाय रणदुर्मदः।
अभ्यजानादमेयात्मा द्रोणपुत्रं महारथम्।।

तमुत्पतन्तं शयनादश्वत्थामा महाबलः।
केशेष्वालभ्य पाणिभ्यां निष्पिपेष महीतले।।

स बलात्तेन निष्पिष्टः साध्वसेन च भारत।
अभ्याक्रान्तश्च निद्रान्धो नाशकच्चेष्टितुं तदा।।

`निष्पिष्य तु ततो भूमौ पाञ्चाल्यं द्रौणिरञ्जसा।
धनुषो ज्यां विमुच्याशु क्रूरबुद्धिरमर्षणः।।

तस्य कण्ठेऽथ बद्ध्वा तां त्वरितः क्रोधमूर्च्छितः।'
द्रौणिः क्रूरं मनः कृत्वा पाञ्चाल्यमवधीत्तदा।।

तमाक्रम्य पदा राजन्कण्ठे चोरसि पादयोः।
तदन्तं विस्फुरन्तं च पशुमारममारयत्।।

`स वार्यमाणस्तरसा बलाद्बलवता बली'।
तुदन्नखैस्तु स द्रौणिं नातिव्यक्तमुदाहरत्।।

आचार्यपुत्र शस्त्रेण जहि मां मा चिरं कृथाः।
त्वत्कृते सुकृतां लोकान्गच्छेयं द्विपदांवर।।

एवमुक्त्वा तु वचनं विरराम परन्तपः।
सुतः पाञ्चालराजस्य आक्रान्तो बलिना भृशम्।।

तस्याव्यक्तां तु तां वचं संश्रुत्य द्रौणिरब्रवीत्।
आचार्यघातिनां लोका न सन्ति कुलपांसन।
तस्माच्छस्त्रेण निधनं न त्वमर्हसि दुर्मते।।

`नृशंसेनातिवृत्तेन त्वया मे निहतः पिता।
तस्मात्त्वमपि वध्यश्च नृशंसेन नृशंसकृत्।।'

एवं ब्रुवाणस्तं वीरं सिंहो मत्तमिव द्विपम्।
मर्मस्वभ्यवधीत्क्रुद्धः पादघातैः सुदारुणैः।।

तस्य वीरस्य शब्देन मार्यमाणस्य वेश्मनि।
अबुध्यन्त महाराज स्त्रियो ये चास्य रक्षिणः।।

ते दृष्ट्वा धर्षयन्तं तमतिमानुषविक्रमम्।
भूतमित्यध्यवस्यन्तो न स्म प्रव्याहरन्भयात्।।

तं तु तेनाभ्युपायेन गमयित्वा यमक्षयम्।
अध्यतिष्ठत तेजस्वी रथं प्राप्य सुदर्शनम्।।

स तस्य भवनाद्राजन्निष्क्रम्यानादयन्दिशः।
रथेन शिबिरं प्रायाज्जिघांसुर्द्विषतो बली।।

अपक्रान्ते ततस्तस्मिन्द्रोणपुत्रे महारथे।
सहितैः रक्षिभिः सर्वैः प्राणेदुर्योषितस्तदा।।

राजानं निहतं दृष्ट्वा भृशं शोकपरायणाः।
व्याक्रोशन्क्षत्रियाः सर्वे धृष्टद्युम्नस्य भारत।।

तासां तु तेन शब्देन समीपे क्षत्रियर्षभाः।
सम्भ्रान्ताः समनह्यन्त किमेतदिति चाब्रुवन्।।

स्त्रियस्तु राजन्वित्रस्ता भारद्वाजं निरीक्ष्य ताः।
अब्रुन्दीनकण्ठेन क्षिप्रमाद्रवतेति वै।।

राक्षसो वा मनुष्यो वा नैनं जानीम कोन्वयम्।
हत्वा पाञ्चालराजानं रथमारुह्य तिष्ठति।।

ततस्ते योधमुख्यास्तं सहसा पर्यवारयन्।
स तानापततः सर्वान्रुद्रास्त्रेण व्यपोथयत्।।

धृष्टद्युम्नं च हत्वा स तांश्चैवास्य पदानुगान्।
अपश्यच्छयने सुप्तमुत्तमौजसमन्तिके।।

तमप्याक्रम्य पादेन कण्ठे चोरसि तेजसा।
तथैव मारयामास विनर्दन्तमरिन्दमम्।।

युधामन्युश्च विक्रान्तो मत्वा तं राक्षसं स्म सः।
गदामुद्यम्य वेगेन हृदि द्रौणिमताडयत्।।

`गदाप्रहाराभिहतो नाचलद्द्रौणिराहवे'।
तमभिद्रुत्य वेगेन क्षितौ चैनमपातयत्।।

विस्फुरन्तं च पशुवत्तथैवैनममारयत्।
तथा स वीरो हत्वा तं ततोऽन्यान्समुपाद्रवत्।।

संसुप्तानेव राजेन्द्र तत्र तत्र महारथान्।
पाञ्चालवीरानाक्रम्य क्रुद्धो न्यहनदन्तिके।
स्फुरतो वेपमानांश्च शमितेव पशून्मखे।।

ततो निस्त्रिंशमादाय जघानान्यान्पृथक्पृथक्।
भागशो विचरन्मार्गानसियुद्वविशारदः।।

तथैव गुल्मे सम्प्रेक्ष्य शयानान्मध्यगौल्मिकान्।
श्रान्तान्व्यस्तायुधान्सर्वानसिनैव व्यपोथयत्।।

योधानश्वान्द्विपांश्चैव प्राच्छिनत्स वरासिना।
रुधिरोक्षितसर्वाङ्गः कालसृष्ट इवान्तकः।।

विस्फुरद्भिश्च तैर्द्रौणिर्निस्त्रिंशस्योद्यमेन च।
अवक्षेपेण चैवासेस्त्रिधा रक्तोक्षितोऽभवत्।।

तस्य लोहितरक्तस्य दीप्तखङ्गस्य युध्यतः।
अमानुष इवाकारो बभौ परमभीषणः।।

ये त्वजाग्रन्त कौरव्य तेऽपि शब्देन मोहिताः।
वीक्षमाणास्तु ते तत्र द्रौणिं दृष्ट्वा प्रविव्यथुः।।

तद्रूपं तस्य ते दृष्ट्वा क्षत्रियाः शत्रुकर्शनम्।
राक्षसं मन्यमानास्तं नयनानि न्यमीलयन्।।

स घोररूपो व्यचरत्कालवच्छिबिरे तदा।
अपश्यद्द्रौपदीपुत्रानवशिष्टांश्च सोमकान्।।

तेन शब्देन वित्रस्ता धनुर्हस्ता महारथाः।
धृष्टद्युम्नं हतं श्रुत्वा द्रौपदेया विशाम्पते।
अवाकिरञ्शरव्रातैर्भारद्वाजमभीतवत्।।

ततस्तेन निनादेन सम्प्रबुद्धाः प्रभद्रकाः।
शिलीमुखैः शिखण्डी च द्रोणपुत्रं समार्दयन्।।

भारद्वाजः स तान्दृष्ट्वा शरवर्षाणि वर्षतः।
ननाद बलवन्नादं जिघांसुस्तान्महारथान्।।

ततः परमसङ्क्रुद्धः पितुर्वधमनुस्मरन्।
अवरुह्य रथोपस्थात्त्वरमाणोऽभिदुद्रुवे।।

सहस्रचन्द्रविमलं गृहीत्वा चर्म संयुगे।
खङ्गं च विमलं दिव्यं जातरूपपरिष्कृतम्।
द्रौपदेयानभिद्रुत्य खङ्गेन व्यधमद्बली।।

ततः स नरशार्दूलः प्रतिविन्ध्यं महाहवे।
कुक्षिदेशेऽवधीद्राजन्स हतो न्यपतद्भुवि।।

प्रासेन विद्ध्वा द्रौणिं तु सुतसोमः प्रतापवान्।
पुनश्चासिं समुद्यम्य द्रोणपुत्रमुपाद्रवत्।।

सुतसोमस्य सासिं तं बाहुं छित्त्वा नरर्षभ।
पुनरप्याहनत्पार्श्वे स भिन्नहृदयोऽपतत्।।

नाकुलिस्तु शतानीको रथचक्रेण वीर्यवान्।
दोर्भ्यामुत्क्षिप्य वेगेन वक्षस्येनमताडयत्।।

अताडयच्छतानीकं मुक्तचक्रं द्विजस्तु सः।
स विह्वलो ययौ भूमिं ततोऽस्यापाहरच्छिरः।।

श्रुतकर्मा तु परिघं घोरं गृह्य दुरासदम्।
अताडयत्समुद्यम्य वेगेन द्रौणिमुत्स्मयन्।।

स तु तं श्रुतकर्माणमास्ये जघ्ने वरासिना।
स हतो न्यपतद्भूमौ विमूर्धा विकृताननः।।

तेन शब्देन वीरस्तु श्रुतकीर्तिरबुध्यत।
अश्वत्थामानमासाद्य शरवर्षैरवाकिरत्।।

`शरैराच्छादितस्तेन द्रोणपुत्रो महारथः।
अदृश्यत महाराज श्वाविच्छललतो यथा।।'

तस्यापि शरवर्षाणि चर्मणा प्रतिवार्य सः।
सकुण्डलं शिरः कायाद्वाजमानमपाहरत्।।

ततो भीष्मनिहन्तारं सह सर्वैः प्रभद्रकैः।
आहनत्सर्वतो वीरं नानाप्रहरणैर्बलात्।।

शिलीमुखेन चाप्येनं भ्रुवोर्मध्ये समार्पयत्।।

स तु क्रोधसमाविष्टो द्रोणपुत्रो महाबलः।
शिखण्डिनं समासाद्य द्विधा चिच्छेद सोसिना।।

शिखण्‍डिनं ततो हत्वा क्रोधाविष्टः परन्तपः।
प्रभद्रकगणान्सर्वानभिदुद्राव वेगवान्।।

यच्च शिष्टं विराटस्य बलं तु भृशमाद्रवत्।
द्रुपदस्य च पुत्राणां पौत्राणां सुहृदामपि।
चकार कदनं घोरं दृष्ट्वा तत्र महाबलः।।

अन्यानन्यांश्च पुरुषानभिसृत्याभिसृत्य च।
न्यकृन्तदसिना द्रौणिरसिमार्गविशारदः।।

कालीं रक्तास्यनयनां रक्तमाल्यानुलेपनाम्।
रक्ताम्बरधरां घोरां पाशहस्तां कुटुम्बिनीम्।।

ददृशुः कालरात्रिं ते स्मयमानामिव स्थिताम्।
नराश्वकुञ्जरान्पाशैर्बद्धा घोरैः प्रतस्थुषीम्।।

वहन्तीं विविधान्प्रेतान्पाशबद्वान्विमूर्धजान्।
तथैव च सदा राजन्न्यस्तशस्त्रान्महारथान्।।

स्वप्ने सुप्तान्नयन्तीं तां रात्रिष्वन्यासु मारिष।
ददृशुर्योधमुख्यास्ते घ्नन्तं द्रौणिं च नित्यदा।।

यतः प्रभृति सङ्ग्रामः कुरुपाण्डवसेनयोः।
ततः प्रभृति तां कन्यामपश्यन्द्रौणिमेव च।।

तांस्तु दैवहतान्पूर्वं पश्चाद्द्रौणिर्व्यपातयत्।
त्रासयन्सर्वभूतानि विनदन्भैरवान्रवान्।।

तदनुस्मृत्य ते वीरा दर्शनं पूर्वकालिकम्।
इदं तदित्यमन्यन्त दैवेनोपनिपीडिताः।।

ततस्तेन निनादेन प्रत्यबुध्यन्त धन्विनः।
शिबिरे पाण्डवेयानां शतशोऽथ सहस्रशः।।

सोऽच्छिनत्कस्यचित्पदौ जघनं चैव कस्यचित्।
कांश्चिद्बिभेदपार्श्वेषु कालसृष्ट इवान्तकः।।

अत्युग्रप्रतिपिष्टैश्च नदद्भिश्च भृशोत्कटैः।
गजाश्वमथितैश्चान्यैर्मही कीर्णाऽभवत्प्रभो।।

क्रोशतां किमिदं कोऽयं कः शब्दः किन्नु किं कृतम्।
पाञ्चालानां तथा द्रौणिरन्तकः समपद्यत।।

अपेतशस्त्रसन्नाहान्सन्नद्वान्पाण्डुसृञ्जयान्।
प्राहिणोन्मृत्युलोकाय द्रौणिः प्रहरतां वरः।।

ततस्तच्छस्त्रवित्रस्ता भयादभ्यपतन्नराः।
निद्रान्धा नष्टसंज्ञाश्च तत्रतत्र निपेतिरे।।

ऊरुस्तम्भगृहीताश्च कश्मलाभिहतौजसः।
विनदन्तो भृशं त्रस्ता निरैक्षन्त परस्परम्।।

ततो रथं पुनर्द्रौणिरास्थितो भीमदर्शनः।
धनुष्पाणिः शरैरन्यान्प्रैषयद्वै यमक्षयम्।।

पुनरुत्पततश्चापि दूरादपि नरोत्तमान्।
शूरान्सम्पततश्चान्यान्कालरात्र्यै न्यवेदयत्।।

तथैव स्यन्दनाग्रेण प्रमथन्स व्यरोचत।
शरवर्षैश्च विविधैरवर्षच्छात्रवांस्ततः।।

पुनश्च सुविचित्रेण शतचन्द्रेण चर्मणा।
तेन चाकाशवर्णेन तथाचरत सोऽसिना।।

तथा स शिबिरं तेषां द्रौणिराहवदुर्मदः।
व्यक्षोभयत राजेन्द्र महाह्‌दमिव द्विपः।।

उत्पेतुस्तेन शब्देन योधा राजन्विचेतसः।
निद्रार्ताश्च भयार्ताश्च व्यधावन्त ततस्ततः।।

विस्वरं चुक्रुशुश्चान्ये बह्वबद्वं तथाऽवदन्।
न च स्म प्रत्यपद्यन्त शस्त्राणि वसनानि च।।

विमुक्तकेशाश्चाप्यन्ये नाभ्यजानन्परस्परम्।
उत्पतन्तोऽपतञ्श्रान्ताः केचित्तत्राभ्रमंस्तदा।
पुरीषमसृजन्केचित्केचिन्मूत्रं प्रसुस्रुवुः।।

बन्धनानि च राजेन्द्र सञ्छिद्य तुरगा द्विपाः।
समं पर्यपतंश्चान्ये कुर्वन्तो महदाकुलम्।।

तत्र केचिन्नरा भीता व्यलीयन्त महीतले।
तथैव तान्निपतितानपिंषन्गजवाजिनः।।

तस्मिंस्तथा वर्तमाने रक्षांसि पुरुषर्षभ।
हृष्टानि व्यनदन्नुच्चैर्मुदा युक्तानि सत्तम।।

स शब्दः प्रेरितो राजन्भूतसङ्घैर्मुदा युतैः।
अपूरयद्दिशः सर्वा दिवं चातिमहान्स्वनः।।

तेषामार्तरवं श्रुत्वा वित्रस्ता गजवाजिनः।
मुक्ताः पर्यपतन्राजन्मृद्गन्तः शिबिरे जनम्।।

तैस्तत्र परिधावद्भिश्चरणोदीरितं रजः।
अकरोच्छिबिरे तेषां रजन्यां द्विगुणं तमः।।

तस्मिंस्तमसि सञ्जाते प्रमूढाः सर्वतो जनाः।
नाजानन्पितरः पुत्रान्भ्रातॄन्भ्रातर एव च।।

गजो राजानतिक्रम्य निर्मनुष्या हया हयान्।
अताडयंस्तथाऽभञ्जंस्तथाऽमृद्गंश्च भारत।।

ते भग्नाः प्रपतन्ति स्म मृद्रन्तश्च परस्परम्।
न्यपातयंस्तथा चान्यान्पातयित्वा तदाऽपिषन्।।

विचेतसः सनिद्राश्च तमसा चावृता नराः।
जघ्रुः स्वानेव तत्राथ कालेनैव प्रचोदिताः।।

त्यक्त्वाद्वाराणि च द्वास्थास्तथागुल्मानिगौल्मिकाः।
प्राद्रवन्त यथाशक्ति कांदिशीका विचेतसः।।

विप्रनष्टाश्च तेऽन्योन्यं नाजानन्तस्तथा विभो।
क्रोशन्तस्तात पुत्रेति दैवोपहतचेतसः।।

पलायतां दिशस्तेषां स्वानप्युत्सृज्य बान्धवान्।
गोत्रनामभिरन्योन्यमाक्रन्दन्त ततो जनाः।।

हाहाकारं च कुर्वाणाः पृथिव्यां शेरते परे।
तान्बुद्धा रणमध्येऽसौ द्रोणपुत्रो व्यपोथयत्।।

तत्रापरे वध्यमाना मुहुर्महुरचेतसः।
शिबिरान्निष्पतन्ति स्म क्षत्रिया भयपीडिताः।।

तांस्तु निष्पतितांस्त्रस्ताञ्शिबिराज्जीवितैषिणः।
कृतवर्मा कृपश्चैव द्वारदेशे निजघ्नतुः।।

विसस्तयन्त्रकवचान्मुक्तकेशान्कृताञ्जलीन्।
वेपमानान्क्षितौ भीतान्त्रैव कांश्चिदमुच्यताम्।।

नामुच्यत तयोः कश्चिन्निष्क्रान्तः शिबिराद्बहिः।।
कृपश्चैव महाराज हार्दिक्यश्चैव दुर्मतिः।

भूयश्चैव चिकीर्षन्तौ द्रौणपुत्रस्य तौ प्रियम्।
त्रिषु देशेषु ददतुः शिबिरस्य हुताशनम्।।

ततः प्रकाशे शिबिरे खङ्गेन पितृनन्दनः।
अश्वत्थामा महाराज व्यचरत्कृतहस्तवत्।।

कांश्चिदापततो वीरानपरांश्चैव धावतः।
व्ययोजयत खङ्गेन प्राणैर्द्विजवरोत्तमः।।

कांश्चिद्योधान्स खङ्गेन मध्ये सञ्छिद्य वीर्यवान्।
अशातयद्द्रोणपुत्रः संरब्धस्तिलकाण्डवत्।।

निनदद्भिर्भृशायस्तैर्नराश्वद्विरदोत्तमैः।
पतितैरभवत्कीर्णा मेदिनी भरतर्षभ।।

मानुषाणां सहस्रेषु हतेषु पतितेषु च।
उदतिष्ठन्कबन्धानि बहून्युत्थाय चापतन्।।

सायुधान्साङ्गदान्बाहून्विचकर्त शिरांसि च।
हस्तिहस्तोपमानूरून्हस्तान्पादांश्च भारत।।

पृष्ठच्छिन्नान्पार्श्वच्छिन्नाञ्शिरश्छिन्नांस्तथापरान्।
स महात्माकरोद्द्रौणिः कांश्चिच्चापि पराङ्मुखान्।।

मध्यदेशे नरानन्यांश्चिच्छेदान्यांश्च कर्णतः।
अंसदेशे निहत्यान्यान्काये प्रावेशयच्छिरः।।

एवं हि बहुभिः शस्त्रैर्घ्नतोऽपि बलवत्तरान्।
तमसा रजनी घोरा बभौ दारुणदर्शना।।

किञ्चित्प्राणैश्च पुरुषैर्हतैश्चान्यैः सहस्रशः।
बहुना च गजाश्वेन भूतभूद्भीमदर्शना।।

यक्षरक्षःसमाकीर्णे रथाश्वद्विपदारुणे।
क्रुद्धेन द्रोणपुत्रेण सञ्छिन्नाः प्रापतन्भुवि।
भ्रातॄनन्ये पितॄनन्ये पुत्रानन्ये विचुक्रुशुः।।

केचिदूचुर्न तत्क्रुद्धैर्धार्तराष्ट्रैः कृतं रणे।
यत्कृतं नः प्रसुप्तानां रक्षोभिः क्रूग्कर्मभिः।
असान्निध्याद्वि पार्थानामिदं वः कदनं कृतम्।।

न चासुरैर्न गन्धर्वैर्न यक्षैर्न च राक्षसैः।
शक्यो विजेतुं कौन्तेयो नेता यस्य जनार्दनः।
ब्रह्मण्यः मत्यवाग्दान्तः सर्वभूतानुकम्पकः।।

न च सुप्तं प्रमत्तं वा न्यस्तशस्त्रं कृताञ्जलिम्।
धावन्तं मुक्तकेशं वा हन्ति पार्थो धनञ्जयः।।

तदिदं नः कृतं घोरं रक्षोभिः क्रूरकर्मभिः।
इति लालप्यमानाः स्म शेरते बहवो जनाः।।

स्तनतां च मनुष्याणामपरेषां च कूजताम्।
ततो मुहूर्तात्प्राशाम्यत्स शब्दस्तुमुलो महान्।।

शोणितव्यतिषिक्तायां वसुधायां च भूमिप।
तद्रजस्तुमुलं घोरं क्षणेनान्तरधीयत।।

स चेष्टमानानुद्विग्नान्निरुत्साहान्सहस्रशः।
न्यपातयन्नरान्क्रुद्वः पशून्पशुपतिर्यथा।।

अन्योन्यं सम्परिष्वज्य शयानाञ्जीवतोऽपरान्।
संलीनान्युध्यमानांश्च सर्वान्द्रौणिरपोथयत्।।

ब्रह्ममाना हुताशेन वध्यमानाश्च तेन ते।
परस्परं तदा योधाननयद्यमसादनम्।।

तस्या रजन्यास्त्वर्धेन पाण्डवानां महद्बलम्।
गमयामास राजेन्द्र द्रौणिर्यमनिवेशनम्।।

निशाचराणां सत्वानां रात्रिः सा हर्षवर्धिनी।
आसीन्नरगजाश्वानां रौद्री क्षयकरी भृशम्।।

तत्रादृश्यन्त रक्षांसि पिशाचाश्च पृथग्विधाः।
खादन्तो नरमांसानि पिबन्तः शोणितानि च।।

करालाः पिङ्गला रौद्राः शैलदन्ता रजस्वलाः।
जटिला भीमवक्त्राश्च पञ्चपादा महोदराः।।

पञ्चादङ्गुलयो रूक्षा विरूपा भैरवस्वनाः।
गजाननाश्च हस्वाश्च नीलवर्णा बिभीषणाः।।

सपुत्रदाराः सुक्रूराः सुदुर्दर्शाः सुनिर्घृणाः।
विविधानि च रूपाणि तत्रादृश्यन्त रक्षसाम्।।

पीत्वा च शोणितं हृष्टाः प्रानृत्यन्गणशोऽपरे।
इदं परमिदं मेध्यमिदं स्वाद्विति चाब्रुवन्।।

मेदोमज्जास्थिरक्तानां मांसानां च भृशाशिताः।
परे मांसानि खादन्तः क्रव्यादा मांसजीविनः।।

वसाश्चैवापरे पीत्वा पर्यधावन्विकुक्षिकाः।
नानावक्त्रास्तथा रौद्राः क्रव्यादाः पिशिताशनाः।।

अयुतानि च तत्रासन्प्रयुतान्यर्बुदानि च।
रक्षसां घोररूपाणां महतां क्रुरकर्मणाम्।।

मुदितानां वितृप्तानां तस्मिन्महति वैशसे।
समेतानि बहून्यासन्भूतानि च जनाधिप।

एवंविधा हि सा रात्रिः सोमकानां जनक्षये।
प्रसुप्तानां प्रमत्तानामासीत्सुभृशदारुणा।।

असंशयं हि कालस्य पर्यायो दुरतिक्रमः।
तादृशा निहता यत्र कृत्वाऽस्माकं जनक्षयम्।।

धृतराष्ट्र उवाच।

प्रागेव सुमहत्कर्म द्रौणिरेतन्महारथः।
नाकरोदीदृशं कस्मान्मत्पुत्रविजये धृतः।।

अथ कस्‌माद्वते क्षत्रे कर्मेदं कृतवानसौ।
द्रोणपुत्रो महात्मा स तन्मे शंसितुमर्हसि।।

सञ्जय उवाच।

तेषां नूनं भयान्नासौ कृतवान्कुरुनन्दन।
असान्निध्याद्धि पार्थानां केशवस्य च धीमतः।
सात्यकेश्चापि कर्मेदं द्रोमपुत्रेण साधितम्।।

को हि तेषां समक्षं तान्हन्‌यादपि मरुत्पतिः।
एतदीदृशकं वृत्तं राजन्सुप्तजने विभो।।

ततो जनक्षयं कृत्वा पाण्डवानां महात्ययम्।
प्रत्यूषकाले शिबिरात्प्रतिगन्तुमियेष सः।।

नृशोणितावसिक्तस्य द्रौणेरासीदसित्सरुः।
पाणिना सह संश्लिष्ट एकीभूत इव प्रभो।।

स निःशेषानरीन्कृत्वा विरराम निशाक्षये।
युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः।।

यथाप्रतिज्ञं तत्कर्म कृत्वा द्रौणायनिः प्रभो।
दुर्गमां पदवीं गच्छन्पितुरासीद्गतज्वरः।।

यथैव संसुप्तजने शिबिरे प्राविशन्निशि।
तथैव हत्वा निःशब्दो निश्चक्राम नरर्षभः।।

निष्क्रम्य शिबिरात्तस्मात्ताभ्यां सङ्गम्य वीर्यवान्।
आचख्यौ कर्म तत्सर्वं हृष्टः संहर्षयन्विभो।।

तावथाचख्यतुस्तस्मै प्रियं प्रियकरौ तदा।
पाञ्चालान्सृञ्जयांश्चैव विनिकृत्तान्सहस्रशः।।

प्रीत्या चोच्चैरुद्रक्रोशंस्तथैवास्फोटयंस्तलान्।
दिष्ट्यादिष्ट्येति चान्योन्यं समेत्योचुर्महारथाः।।

पर्यष्वजत्ततो द्रौणिस्ताभ्यां सम्प्रतिनन्दितः।
इदं हर्षात्तु सुमहदाददे वाक्यमुत्तमम्।।

पाञ्चाला निहताः सर्वे द्रौपदेयाश्च सर्वशः।
सोमका मत्स्यशेषाश्च सर्वे विनिहता मया।।

इदानीं कृतकृत्याः स्म याम तत्रैव मा चिरम्।
यदि जीवति नो राजा तस्मै शंसामहे प्रियम्।।

।। इति श्रीमन्महाभारते
सौप्तिकपर्वणि अष्टमोऽध्यायः।। 8 ।।