सौप्तिकपर्व

अध्यायः ७

Sauptika Parva (Sanskrit) · Adhyaya 7
अक्षर का आकार

सञ्जय उवाच।

एवं सञ्चिन्तयित्वा तु द्रोणपुत्रो विशाम्पते।
अवतीर्य रथोपस्थाद्दध्यौ स प्रयतः स्थितः।।

द्रौणिरुवाच।

उग्रं स्थाणुं शिवं रुद्रं शर्वमीशानमीश्वरम्।
गिरिशं वरदं देवं भवभावनमव्ययम्।।

शितिकण्ठमजं रुद्रं दक्षक्रतुहरं हरम्।
विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम्।।

श्मशानवासिनं दृप्तं महागणपतिं विभुम्।
खट्वाङ्गधारिणं मुण्डं जटिलं ब्रह्मचारिणम्।।

मनसा ह्यनुचिन्त्यैनं दुष्करेणाल्पचेतसा।
अद्य भूतोपहारेण यक्ष्ये त्रिपुराघातिनम्।।

xxतुतं स्तुत्यं स्तूयमानममोघं कृत्तिवाससम्।
विलोहितं नीलकण्ठमसह्यं दुर्निवारणम्।।

शुक्रं विश्वसृजं ब्रह्म ब्रह्मचारिणमेव च।
व्रतवन्तं तपोनिष्ठमनन्तं तपतां गतिम्।।

बहुरूपं गणाध्यक्षं त्र्यक्षं पारिषदप्रियम्।
धनाध्यक्षप्रियसखं गौरीहृदयवल्लभम्।।

कुमारपितरं पिङ्गं गोवृषोत्तमवाहनम्।
कुत्तिवाससमत्युग्रमातोषणतत्परम्।।

परं परेभ्यः परमं परं यस्मान्न विद्यते।
इष्वस्त्रोत्तमभर्तारं दिगन्तं देशरक्षिणम्।।

हिरण्यकवचं देवं चन्द्रमौलिविभूषणम्।
प्रपद्ये शरणं देवं परमेण समाधिना।।

इमां चेदापदं घोरां तराम्यद्य सुदुस्तराम्।
सर्वभूतोपहारेण यक्ष्येऽहं शुचिना शुचिम्।।

इति तस्य व्यवसितं ज्ञात्वा योगात्सुकर्मणः।
पुरस्तात्काञ्चनी वेदी प्रादुरासीन्महात्मनः।।

तस्यां वेद्यां तदा राजंश्चित्रभानुरजायत।
स दिशो विदिशः खं च ज्वालाभिरिव पूरयन्।।

दीप्तास्यनयनाश्चात्र नैकपादशिरोधराः।
[रत्नचित्राङ्गदधराः समुद्यतकरास्तथाः।।]

द्विपाः शैलप्रतीकाशाः प्रादुरासन्महागणाः।
श्ववराहोष्ट्ररूपाश्च हयगोमायुगोमुखाः।।

ऋक्षमार्जारवदना व्याघ्रद्वीपिमुखास्तथा।
काकवक्त्राः प्लुवमुखाः शुकवक्त्रास्तथैव च।।

महाजगरवक्त्राश्च हंसवक्त्राः शितप्रभाः।
दार्वाघाटमुखाश्चापि चाषवक्त्राश्च भारत।।

कूर्मनक्रमुखाश्चैव शिंशुमारमुखास्तथा।
महामकरवक्त्राश्च तिमिवक्त्रास्तथैव च।।

हरिवक्त्राः क्रौञ्चमुखाः कपोताभमुखास्तथा।
पारावतमुखाश्चैव मद्गुवक्त्रास्तथैव च।।

पाणिकर्णाः सहस्राक्षास्तथैव च महोदराः।
निर्मांसाः काकवक्त्राश्च श्येनवक्त्राश्च भारत।।

तथैवाशिरसो राजन्नृक्षवक्त्राश्च भीषणाः।
प्रदीप्तनेत्रजिह्वाश्च ज्वालावर्णास्तथैव च।।

ज्वालाकेशाश्च राजेन्द्र ज्वलद्रोमचतुर्भुजाः।
मेषवक्त्रास्तथैवान्ये तथा छागमुखा नृप।।

शङ्खाभाः शङ्खवक्त्राश्च शङ्खवर्णास्तथैव च।
शङ्खमालापरिकराः शह्खध्वनिसमस्वनाः।।

जटाधराः प़ञ्चशिखास्तथा मुण्डाः कृशोदराः।
चतुर्दंष्ट्राश्चतुर्जिह्वाः शङ्कुकर्णाः किरीटिनः।।

मौञ्जीधराश्च राजेन्द्र तथा कुञ्चितमूर्धजाः।
उष्णीषिणः कुण्डलिनश्चारुवक्त्राः स्वलङ्कृताः।।

पद्मोत्पलापीडधरास्तथा मुकुटधारिणः।
महात्म्येन च संयुक्ताः शतशोऽथ सहस्रशः।।

शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः।
भुशुण्डीपाशहस्ताश्च दण्‍डहस्ताश्च भारत।।

पृष्ठेषु बद्धेषुधयश्चित्रबाणोत्कटास्तथा।
सध्वजाः सपताकाश्च सघण्टाः सपरश्वथाः।।

महापाशोद्यतकरास्तथा लगुडपाणयः।
स्थूणाहस्ताः खङ्गहस्ताः सर्पोच्छ्रितकिरीटिनः।।

महासर्पाङ्गदधराश्चित्राभरणधारिणः।
रजोध्वजाः पङ्कदिग्धाः सर्वे चित्राम्बरस्रजः।
नीलाङ्गाः पिङ्गलाङ्गाश्च मुण्डवक्तास्तथैव च।।

भेरीशङ्खमृदङ्गांश्च झर्झरानकगोमुखान्।
अवादयन्पारिषदाः प्रहृष्टाः कनकप्रभाः।।

गायमानास्तथैवान्ये संहृष्टाः पुरुषर्षभाः।
लङ्घयन्तः प्लुवन्तश्च वल्गन्तश्च महारथाः।।

धावन्तो जवनाश्चण्डाः पावकोद्वूतमूर्धजाः।
मत्ता इव महानागा विनदन्तो मुहुर्मुहुः।।

सुभीमा घोररूपाश्च शूलपट्टसपाणयः।
नानाविरागवसनाश्चित्रमाल्यानुलेपनाः।।

रत्नचित्राङ्गदधराः समुद्यतकरास्तथा।
हन्तारो द्विषतां शूराः प्रसह्यासह्यविक्रमाः।।

पातारोऽसृग्वसाज्यानां मांसान्त्रकृतभोजनाः।
चूडालाः कर्णिकाराश्च प्रहृष्टाः पिठरोदराः।।

अतिहस्वातिदीर्घाश्च प्रलम्बाश्चातिभैरवाः।
विकटाः काललंबोष्ठा बृहच्छेफाण्डपिण्डिकाः।।

महार्हनानाविकटा मुण्डाश्च जटिलाः परे।
सार्केन्दुग्रहनक्षत्रां द्यां कुर्युस्ते महीतले।।

उत्सहेरंश्च ये हन्तुं भूतग्रामं चतुर्विधम्।
ये च वीतभया नित्यं हरस्य भ्रुकुटीसहाः।।

कामकारकरा नित्यं त्रैलोक्यस्येश्वरेश्वराः।
नित्यानन्दप्रमुदिता वागीशा वीतमत्सराः।।

प्राप्याष्टगुणमैश्वर्यं ये न यास्यन्ति वै स्मयम्।
येषां विस्मयते नित्यं भगवान्कर्मभिर्हरः।।

मनोवाक्कर्मभिर्युक्तैर्नित्यमाराधितश्च यैः।
मनोवाक्कर्मभिर्भक्तान्पाति पुत्रानिवौरसान्।।

पिबन्तोऽसृग्वसाश्चान्ये क्रुद्धा ब्रह्मद्विषां सदा।
चतुर्विधात्मकं सोमं ये पिबन्ति च सर्वदा।।

श्रुतेन ब्रह्मचर्येण तपसा च दमेन च।
ये समाराध्य शूलाङ्कं भवसायुज्यमागताः।।

यैरात्मभूतैर्भगवान्पार्वत्या च महेश्वरः।
महाभूतगणैर्भुङ्क्ते भूतभव्यभवत्प्रभुः।।

नानावादित्रहसितक्ष्वेडितोत्कृष्टगर्जितैः।
सन्त्रासयन्तस्ते विश्वमश्वत्थामानमभ्ययुः।।

संस्तुवन्तो महादेवं भाः कुर्वाणाः सुवर्चसः।
विवर्धयिषवो द्रौणेर्महिमानं महात्मनः।।

जिज्ञासमानास्तत्तेजः सौप्तिकं च दिदृक्षवः।
भीमोग्रपरिघालातशूलपट्टसपाणयः।
घोररूपाः समाजग्मुर्भूतसङ्घाः सहस्रशः।।

जनयेयुर्भयं ये स्म त्रैलोक्यस्यापि दर्शनात्।
न च तान्प्रेक्षमाणोऽपि व्यथामुपजगाम ह।।

अथ द्रौणिर्धनुष्पाणिर्बद्धगोधाङ्गुलित्रवान्।
स्वयमेवात्मनात्मानमुपहारमुपाहरत्।।

धनूंषि समिधस्तत्र पवित्राणि सिताः शराः।
हविरात्मवतश्चात्मा तस्मिन्भारत कर्मणि।।

ततः सौम्येन मन्त्रेण द्रोणपुत्रः प्रतापवान्।
उपहारं महामन्युरथात्मानमुपाहरत्।।

तं रुद्रं रौद्रकर्माणं रौद्रैः कर्मभिरच्युतम्।
अभिष्टुत्य महात्मानमित्युवाच कृताञ्जलिः।।

द्रौणिरुवाच।

इममात्मानमद्याहं जातमाङ्गिरसे कुले।
स्वग्नौ जुहोमि भगवन्प्रतिगृह्णीष्व मां बलिम्।।

भवद्भक्त्या महादेव पस्मेण समाधिना।
अस्यामापदि विश्वात्मन्नुपाकुर्मी तवाग्रतः।।

त्वयि सर्वाणि भूतानि सर्वभूतेषु चासि वै।
गुणानां हि प्रधानानां कैवल्यं त्वयि तिष्ठति।।

सर्वभूताश्रय विभो हविर्भूतमवस्थितम्।
प्रतिगृहाण मां देव यद्यशक्याः परे मया।।

इत्युक्त्वा द्रौणिरास्थाय तां देवीं दीप्तपावकाम्।
सन्त्यज्यात्मानमारुह्य कृष्णवर्त्मन्युपाविशत्।।

तमूर्ध्वबाहुं निश्चेष्टं दृष्ट्वा हविरुपस्थितम्।
अब्रवीद्भगवान्साक्षान्महादेवो हसन्निव।।

सत्यशौचार्जवत्यागैस्तपसा नियमेन च।
क्षान्त्या भक्त्या च धृत्या च कर्मणा मनसा गिरा।।

यथावदहमाराद्वः कृष्णेनाक्लिष्टकर्मणा।
तस्मादिष्टतमः कृष्णादन्यो मम न विद्यते।।

कुर्वता तात सम्मानं त्वां च जिज्ञासता मया।
पाञ्चालाः सर्वदा गुप्ता मायाश्च बहुशः कृताः।।

कृतस्तस्यैव सम्मानं पाञ्चालान्रक्षता मया।
अभिभूतास्तु कालेन नैषामद्यास्ति जीवितम्।।

एवमुक्त्वा महात्मानं भगवानात्मनस्तनुम्।
आविवेश ददौ चास्मै विमलं खङ्गमुत्तमम्।।

अथाविष्टो भगवता भूयो जज्वाल तेजसा।
वेगवांश्चाभवद्युद्धे देवसृष्टेन तेजसा।।

तं दृष्ट्वा तानि भूतानि रक्षांसि च समाद्रवन्।
अभितः शिबिरं यान्तं द्रोणपुत्रं महारथम्।
देवदेवं हरं स्थाउं यान्तं साक्षादिवेश्वरम्।।

।। इति श्रीमन्महाभारते
सौप्तिकपर्वणि सप्तमोऽध्यायः।। 7 ।।