सौप्तिकपर्व

अध्यायः ९

Sauptika Parva (Sanskrit) · Adhyaya 9
अक्षर का आकार

सञ्जय उवाच।

ते हत्वा सर्वपाञ्चालान्द्रौपदेयांश्च सर्वशः।
आगच्छन्सहितास्तत्र यत्र दुर्योधनो हतः।।

गत्वा चैनमपश्यन्त किञ्चित्प्राणं जनाधिपम्।
ततो रथेभ्यः प्रस्कन्द्य परिवव्रुस्तवात्मजम्।।

तं भग्रसक्थं राजेन्द्र कृच्छ्रप्राणमचेतसम्।
वमन्तं रुधिरं वक्त्रादपश्यन्वसुधातले।।

वृतं समन्ताद्बहुभिः श्वापदैर्घोरदर्शनैः।
सालावृकगणैश्चैव भक्षयिष्यद्भिरन्तिकात्।।

निरायन्तं कृच्छ्रात्ताञ्श्वापदांश्च चिखादिषून्।
विवेष्टमानमुरुभ्यां सुभृशं गाढवेदनम्।।

तं शयानं तथा दृष्ट्वा भूमौ सुरुधिरोक्षितम्।
हतशिष्टास्त्रयो वीराः शोकार्ताः पर्यदेवयन्।
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः।।

तैस्त्रिभिः शोणितादिग्धौर्निः श्वसद्भिर्महारथैः।
शुशुभे स वृतो राजा वेदी त्रिभिरिवाग्निभिः।।

ते तं शयानं सम्प्रेक्ष्य राजानमतथोचितम्।
अविषह्येन दुःखेन ततस्ते रुरुदुस्त्रयः।।

ततस्तु रुधिरं हस्तैर्मुखान्निर्मृज्य तस्य हि।
रणे राज्ञः शयानस्य कृपः सम्पर्यदेवयत्।।

कृप उवाच।

न दैवस्यातिभारोऽस्ति यदयं रुधिरोक्षितः।
एकादशचमूभर्ता शेते दुर्योधनो हतः।।

पश्य चामीकराभस्य चामीकरविभूषिताम्।
गदां गदाप्रियस्येमां समीपे पतितां भुवि।।

इयमेनं गदा शूरं न जहाति रणेरणे।
स्वर्गायापि व्रजन्तं हि न जहाति यशस्विनम्।।

पश्येमां सह वीरेण जाम्बूनदविभूषिताम्।
शयानां शयने हर्म्ये भार्यां प्रीतिमतीमिव।।

योऽयं मूर्धाभिषिक्तानामग्रे याति परन्तपः।
स हतो ग्रसते पांसून्पश्य कालसय पर्ययम्।।

येनाजौ निहता भूमौ शेरते क्षत्रियर्षभाः।
स भूमौ निहतः शेते कुरुराजः परैरयम्।।

भयान्नमन्ति राजानो यस्य स्म शतसङ्घशः।
स वीरशयने शेते क्रव्याद्भिः परिवारितः।।

यमुपासन्नृपाः पूर्वमर्थहेतोर्महीपतिम्।
उपात्पते च तं ह्यद्य क्रव्यादा मांसगृद्धिनः।।

सञ्जय उवाच।

तं शयानं कुरुश्रेष्ठं ततो भरतसत्तमम्।
अश्वत्थामा समालिङ्ग्य करुणं पर्यदेवयत्।।

आहुस्त्वां राजशार्दूल मुख्यं सर्वधनुष्मताम्।
धनाध्यक्षोपमं युद्धे शिष्यं सङ्कर्षणस्य च।।

कथं विवरमद्राक्षीद्भीमसेनस्तवानघ।
बलिनं कृतिनो नित्यं सूदः पापात्मवान्नृप।।

कालो नूनं महाराज लोकेऽस्मिन्बलवत्तरः।
पश्यामो निहतं त्वां च भीमसेनेन संयुगे।।

कथं त्वां सर्वधर्मज्ञं क्षुद्रः पापो वृकोदरः।
निकृत्या हतवान्मन्दो नून कालो दुरत्ययः।।

द्वन्द्वयुद्धे ह्यधर्मेण समाहूयौजसा मृधे।
गदया भीमसेनेन निर्भग्ने सक्थिनी तव।।

अधर्मेण हतस्याजौ मृद्यमानं पदा शिरः।
य उपेक्षितवान्क्षुद्रं धिक्तमस्तु--युधिष्ठिरम्।।

युद्धेष्वपवदिष्यन्ति योधा नूनं वृकोदरम्।
यावत्स्थास्यन्ति भूतानि निकृत्या ह्यसि पातितः।।

ननु रामोऽब्रवीद्राजंस्त्वां सदा यदुनन्दनः।
दुर्योधनसमो नास्ति गदायामिति वीर्यवान्।।

श्लाघते त्वां हि वार्ष्णेयो राजन्संसत्सु भारत।
स शिष्यो मम कौरव्यो गदायुद्ध इति प्रभो।।

यां गतिं क्षत्रियस्याहुः प्रशस्तां परमर्षयः।
हतस्याभिमुखस्याजौ प्राप्तस्त्वमसि तां गतिम्।।

दुर्योधन न शोचामि त्वामहं पुरुषर्षभ।
हतपुत्रौ तु शोचामि गान्धारीं पिरं च ते।।

द्वावनाथौ कृतौ वीर त्वया नाथेन वर्धितौ।
भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम्‌।।

घिगस्तु कृष्णं वार्ष्णेयमर्जुनं चापि दुर्मतिम्।
धर्मज्ञमानिमौ यौ त्वां वध्यमानमुपेक्षताम्।।

पाण्डवाश्चापि ते सर्वे किं वक्ष्यन्ति नराधिप।
कथं दुर्योधनोऽस्माभिर्हत इत्यनपत्रपाः।।

धन्यस्त्वमसि गान्धारे यस्वमायोधने हतः।
प्रयातोऽभिमुखः शत्रून्धर्मेण पुरुषर्षभ।।

हतपुत्रा हि गान्धारी निहतज्ञातिबान्धवा।
प्रज्ञाचक्षुश्च दुर्धर्षः कां दशां प्रतिपत्स्यते।।

धिगस्तु कृतवर्माणं मां कृपं च महारथम्।
ये वयं न गताः स्वर्गं त्वां पुरस्कृत्य पार्थिवम्।।

दातारं सर्वकामानां रक्षितारं प्रजाहितम्।
यद्वयं नानुगच्छाम त्वां धिगस्मान्नराधमान्।।

कृपस्य तव वीर्येण मम चैव पितुश्च मे।
सभृत्यानां नरव्याघ्र रत्नवन्ति गृहाणि च।।

तव प्रसादादस्माभिः समित्रैः सह बान्धवैः।
अवाप्ताः क्रतवो मुख्या बहवो भूरिदक्षिणाः।।

कुतश्चापीदृशं पापाः प्रवर्तिष्यामहे वयम्।
यादृशेन पुरस्कृत्य त्वं गतः सर्वपार्थिवान्।।

वयमेव त्रयो राजन्गच्छन्तं परमां गतिम्।
यद्वै त्वां नानुगच्छाभस्तेन तप्स्यामहे वयम्।

तत्स्वर्गहीना हीनार्थाः स्मरन्तः सुकृतस्य ते।
किं नाम तद्भवेत्कर्म येन त्वां न व्रजाम वै।।

दुःखं नून कुरुश्रेष्ठ चरिष्याम महीमिमाम्।
हीनानां नस्त्वया राजन्कुतः शान्तिः कुतः सुखं।।

गत्वैव तु महाराज समेत्य च महारथान्।
यथाज्येष्ठं यथाश्रेष्ठं पूजयेर्वचनान्मम।।

आचार्यं पूजयित्वा च केतुं सर्वधनुष्मताम्।
हतं मयाऽद्य शंशेथा दृष्टद्युम्नं नराधिप।।

परिष्वजेथा राजानं बाह्लिकं सुमहारथम्।
सैन्धवं सोमदत्तं च भूरिश्रवसमेव च।।

तथा पूर्वगतानन्यान्स्वर्गे पार्थिवसत्मान्।
अस्मद्वाक्यात्परिष्वज्य सम्पृच्छेस्‌वमनामयम्।।

सञ्जय उवाच।

इत्येवमुक्‌वा राजानं भग्नसक्थमचेतसम्।
अश्वत्थामा लघुप्राणं पुनर्वचनमब्रवीत्।।

दुर्योधन जीवसि चेद्वाक्यं श्रोत्रमुखं शृणु।
सप् पाण्डवतः शिष्टा धार्तराष्ट्रास्त्रयो वयम्।।

ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः।
अहं च कृतवर्मा च कृपः शारद्वतस्तथा।।

द्रौपदेया हताः सर्वे धृष्टद्युम्नस्य चात्मजाः।
पञ्चाला निहताः सर्वे मत्स्यशेषं च भारत।।

कृते प्रतिकृतं पश्य हतपुत्रा हि पाण्डवाः।
सौप्तिके शिबिरं तेषां हतं सनरवाहनम्।।

मया च पापकर्माऽसौ धृष्टद्युम्नो महीपते।
प्रविश्य शिबिरं रात्रौ पशुमारेण मारितः।।

दुर्योधनस्तु तां वाचं निशम्य मनसः प्रियाम्।
प्रतिलभ्य पुनश्चेत इदं वचनमब्रवीत्।।

न मेऽकरोत्द्गाङ्गेयो न कर्णो न च ते पिता।
यत्त्वया कृपभोजाभ्यां सहितेनाद्य मे कृतम्।।

स च सेनापतिः क्षुद्रो हतः सार्धं शिखण्डिना।
तेन मन्ये मघवता सममात्मानमद्य वै।।

स्वस्ति प्राप्नुत भद्रं वः स्वर्गे नः सङ्गमः पुनः।
इत्येवमुक्त्वा पुत्रस्ते कुरुराजो महामनाः।।

प्राणानुपासृजद्वीरः सुहृदां दुःखमादधत्।
अपाक्रामद्दिवं पुण्यां शरीरं क्षितिमाविशत्।।

एवं ते निधनं यातः पुत्रो दुर्योधनो नृप।
अग्रे यात्वा रणे शूरः पश्राद्विनिहतः परैः।।

तथैव ते परिष्वक्ताः परिष्वज्य च ते नृपम्।
पुनः पुनः प्रेक्षमाणाः स्वकानारुरुहू रथान्।।

इत्येवं द्रोणपुत्रस्य निशम्य करुणां गिरम्।
प्रत्यूषकाले शोकार्ताः प्राद्रवन्नगरं प्रति।।

एवमेष क्षयो वृत्तः कुरुपाण्डवसेनयोः।
घोरो विशसनो रौद्रो राजन्दुर्मन्त्रिते तव।।

तव पुत्रे गते स्वर्गं शोकार्स्य ममानघ।
ऋषिदत्तं प्रनष्टं तद्दिव्यदर्शित्वमद्य वै।।

वैशम्पायन उवाच।

इति श्रुत्वा स नृपतिर्ज्ञातिपुत्रवधं तदा।
निःश्वस्य दीर्घमुष्णं च ततश्चिन्तापरोऽभवत्।।

।। इति श्रीमन्महाभारते
सौप्तिकपर्वणि नवमोऽध्यायः।। 9 ।।