सौप्तिकपर्व
अध्यायः ४
कृप उवाच।
दिष्ट्या ते प्रतिकर्तव्ये मतिर्जातेयमच्युत।
न त्वां वारयितुं शक्तो वज्रपाणिरपि स्वयम्।।
अनुयास्यावहे त्वां तु प्रभाते सहितावुभौ।
अद्य रात्रौ विश्रमस्व विमुक्तकवचध्वजः।।
अहं त्वामनुयास्यामि कृतवर्मा च सात्वतः।
परानभिमुखं यान्तं रथावास्थाय दंशितौ।।
आवाभ्यां सहितः शत्रूञ्श्वो निहन्ता समागमे।
विक्रम्य रथिनां श्रेष्ठ पाञ्चालान्सपदानुगान्।।
शक्तस्त्वमसि विक्रम्य विश्रमस्व निशामिमाम्।
चिरं ते जाग्रतस्तात स्वप तावन्निशामिमाम्।।
विश्रान्तश्च विनिद्रश्च स्वस्थचित्तश्च मानद।
समेत्य समरे शत्रून्वधिष्यसि न संशयः।।
न हि त्वां रथिनां श्रेष्ठं प्रगृहीतवरायुधम्।
जेतुमुत्सहते कश्चिदपि देवेषु पावकिः।।
कृपेण सहितं यान्तं गुप्तं च कृतवर्मणा।
को द्रौणिं युधि संरब्धं योधयेदपि देवराट्।।
ते वयं निशि विश्रान्ता विनिद्रा विगतज्वराः।
प्रभातायां रजन्यां वै निहनिष्याम शात्रवान्।।
तव ह्यस्त्राणि दिव्यानि मम चैव न संशयः।
सात्वतोपि महेष्वासो नित्यं युद्धेषु कोविदः।।
ते वयं सहितास्तात सर्वाञ्शत्रून्समागतान्।
प्रसह्य समरे हत्वा प्रीतिं प्राप्स्याम पुष्कलाम्।।
विश्रमस्व त्वमव्यग्रः स्वप चेमां निशां सुखम्।
अहं च कृतवर्मा च प्रभाते त्वां नरोत्तमम्।।
अनुयास्याव सहितौ धन्विनौ परतापनौ।
रथिनं त्वरया यान्तं रथमास्थाय दंशितौ।।
स गत्वा शिबिरं तेषां नाम विश्राव्य चाहवे।
ततः कर्ताऽसि शत्रूणां युध्यतां कदनं महत्।।
कृत्वा च कदनं तेषां प्रभाते विमलेऽहनि।
विहरस्व यथा शक्रः सूदयित्वा महासुरान्।।
त्वं हि शक्तो रणे जेतुं पाञ्चालानां वरूथिनीम्।
दैत्यसेनामिव क्रुद्धः सर्वदानवसूदनः।।
मया त्वां सहितं सङ्ख्ये गुप्तं च कृतवर्मणा।
न सहेत विभुः साक्षाद्वज्रपाणिरपि स्वयम्।।
न चाहं समरे तात कृतवर्मा न चैव हि।
अनिर्जित्य रणे पाण्डूनपयास्यामि कर्हिचित्।।
हत्वा च समरे क्षुद्रान्पाञ्चालान्पाण्डुभिः सह।
निवर्तिष्यामहे सर्वे हता वा स्वर्गगा वयम्।।
सर्वोपायैः सहायास्ते प्रभाते वयमाहवे।
सत्यमेतन्महाबाहो प्रब्रवीमि तवानघ।।
एवमुक्तस्ततो द्रौणिक्रमातुलेन हितं वचः।
अब्रवीन्मातुलं राजन्क्रोधादुद्वृत्य लोचने।।
आतुरस्य कुतो निद्रा नरस्यामर्षितस्य च।
अर्थांश्चिन्तयतश्चापि कामयानस्य वा पुनः।।
तदिदं समनुप्राप्तं पश्य मेऽद्य चतुष्टयम्।
यस्य भागश्चतुर्थो मे स्वप्नमह्नाय नाशयेत्।।
किं नाम दुःखं लोकेऽस्मिन्पितुर्वधमनुस्मरन्।
हृदयं निर्दहन्मेऽद्य रात्र्यहानि न शाम्यति।।
यथा च निहतः पापैः पिता मम विशेषतः।
प्रत्यक्षमपि ते सर्वं तन्मे मर्माणि कृन्तति।।
कथं हि मादृशो लोके मुहूर्तमपि जीवति।
द्रोणहन्तेति यद्वाचः पाञ्चालानां शृणोम्यहम्।।
धृष्टद्युम्नमहत्वा तु नादं जीवितुमुत्सहे।
स मे पितुर्वधाद्वध्यः पाञ्चाला ये च सङ्गताः।।
विलापो भग्नसक्थस्य यस्तु राज्ञो मया श्रुतः।
स पुनर्हृदयं कस्य क्रूरस्यापि न निर्दहेत्।।
कस्य ह्यकरुणस्यापि नेत्राभ्यामश्रु नाव्रजेत्।
नृपतेर्भग्नसक्थस्य श्रुत्वा तादृग्वचः पुनः।।
यश्चायं मित्रपक्षो मे मयि जीवति निर्जितः।
शोकं मे वर्धयत्येष वारिवेग इवार्णवम्।।
एकाग्नमनसो मेऽद्य कुतो निद्रा कुतः सुखम्।।
वासुदेवार्जुनाभ्यां च तानहं परिरक्षितान्।
अविषह्यतमान्मन्ये महेन्द्रेणापि सत्तम।।
न चापि शक्तः संयन्तुमस्मात्कार्यात्कथञ्चन।
तं न पश्यामि लोकेऽस्मिन्यो मां कोपान्निवर्तयेत्।।
इति मे निश्चिता बुद्धिरेषा साधुमता मम।।
वादिकैः कथ्यमानस्तु मित्राणां मे पराभवः।
पाण्डवानां च विजयटो हृदयं दहतीव मे।।
अहं तु कदनं कृत्वा शत्रूणामद्य सौप्तिके।
ततो विश्रमिता चैव स्वप्ता च विगतज्वरः।।
।। इति श्रीमन्महाभारते
सौप्तिकपर्वणि चतुर्थोऽध्यायः।। 4 ।।