सौप्तिकपर्व
अध्यायः ५
कृप उवाच।
शुश्रूषुरपि दुर्मेधाः पुरुषोऽनियतेन्द्रियः।
नालं वेदयितुं कृत्स्नौ धर्मार्थाविति मे मतिः।।
तथैव तावन्मेधावी विनयं यो न शिक्षते।
न च किञ्चन जानाति सोऽपि धर्मार्थनिश्चयम्।।
[चिरं ह्यपि जडः शूरः पण्डितं पर्युपास्य ह।
न स धर्मान्विजानाति दर्वी सूपरसानिव।।
मुहूर्तमपि तं प्राज्ञः पण्डितं पर्युपास्य हि।
क्षिप्रं धर्मान्विजानाति जिह्वा सूपरसानिव।।
शुश्रूषुस्त्वेव मेधावी पुरुषो नियतेन्द्रियः।
जानीयादागमान्सर्वान्ग्राह्यं च न विरोधयेत्।।
अनयस्त्ववमानी यो दुरात्मा पापपूरुषः।
दिष्टमुत्सृज्य कल्याणं करोति बहुपातकम्।।
नाथवन्तं तु सुहृदः प्रतिषेधन्ति पातकात्।
निवर्तते तु लक्ष्मीवान्नालक्ष्मीवान्निवर्तते।।
यथा ह्युच्चावचैर्वाक्यैः क्षिप्तचित्तो नियम्यते।
तथैव सुहृदा शक्यो नशक्यस्त्ववसीदति।।
तथैव सुहृदोऽप्राज्ञान्कुर्वाणान्कर्म पापकम्।
प्राज्ञाः सम्प्रतिषेधन्ति यथाशक्ति पुनःपुनः।।
स कल्याणे मनः कृत्वा नियम्यात्मानमात्मना।
कुरु मे वचनं तात येन पश्चान्न तप्स्यसे।।
न वधः पूज्यते लोके सुप्तानामिह धर्मतः।
तथैव न्यस्तशस्त्राणां विमुक्तरथवाजिनाम्।।
ये व ब्रूयुस्तवास्मीति ये च स्युः शरणागताः।
विमुक्तमूर्धजा ये च ये चापि हतवाहनाः।।
अद्य स्वप्स्यन्ति पाञ्चाला विमुक्तकवचा विभो।
विश्वस्ता रजनीं सर्वे प्रेता इव विचेतसः।।
यस्तेषां तदवस्थानां द्रुह्येत पुरुषोऽनृजुः।
व्यक्तं स नरके मज्जेदगाधे विपुलेऽप्लुवे।।
सर्वास्त्रविदुषां लोके श्रेष्ठस्त्वमसि विश्रुतः।
न च ते जातु लोकेऽस्मिन्सुसूक्ष्ममपि किल्बिषम्।।
त्वं पुनः सूर्यसङ्काशः श्वोभूत उदिते रवौ।
प्रकाशे सर्वभूतानां विजेता युधि शात्रवान्।।
असम्भावितरूपं हि त्वयि कर्म विगर्हितम्।
शुक्ले रक्तमिव न्यस्तं भवेदिति मतिर्मम।।
अश्वत्थामोवाच।
एवमेव यथाऽऽत्थ त्वमनुशाससि मातुल।
तैस्तु पूर्वमयं सेतुः समन्ताद्विह्वलीकृतः।।
प्रत्यक्षं भूमिपालानां भवतां चापि सन्निधौ।
न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः।।
कर्णश्च पतिते चक्रे उत्थास्यन्रथिनां वरः।
उत्तमे व्यसने मग्नो हतो गाण्डीवधन्वना।।
तथा शान्तनवो भीष्मो न्यस्तशस्त्रो निरायुधः।
शिखण्डिनं पुरस्कृत्य हतो गाण्डीवधन्वना।।
भूरिश्रवा महेष्वासस्तथा प्रायगतो रणे।
क्रोशतां बूमिपालानां युयुधानेन पातितः।।
दुर्योधनश्च भीमेन समेत्य गदया मृधे।
पश्यतां भूमिपालानामधर्मेण निपातितः।।
एकाकी बहुभिस्तत्र परिवार्य महारथैः।
अधर्मेण नरव्याघ्रो भीमसेनेन पातितः।।
विलापो भग्नसक्थस्य यो मे राज्ञः परिश्रुतः।
वादिकानां कथयतां स मे मर्माणि कृन्तति।।
एवं चाधार्मिकाः पापाः पाञ्चाला भिन्नसतवः।
तानेवं भिन्नमर्यादान्किं भवान्न विगर्हति।।
पितृहन्तॄनहं हत्वा पाञ्चालान्निशि सौप्तिके।
कामं कीटः पतङ्गो वा जन्म प्राप्य भवामि वै।।
त्वरे चाहमनेनाद्य यदिदं मे चिकीर्षितम्।
तस्य मे त्वरमाणस्य कुतो निद्रा कुतः सुखम्।।
न स जातः पुमाँल्लोके कश्चिन्न स भविष्यति।
यो मे व्यावर्तयेदेतां वधे तेषां कृतां मतिम्।।
सञ्जय उवाच।
एवमुक्त्वा महाराज द्रोणपुत्रः प्रतापवान्।
एकान्ते योजयित्वाऽश्वान्प्रायादभिमुखः परान्।।
तमब्रूतां महात्मानौ भोजशारद्वतावुभौ।
किमयं स्यन्दनो युक्तः किं च कार्यं चिकीर्षितम्।।
एकसामर्थप्रयातौ स्वस्त्वया सह नरर्षभ।
समदुःखसुखौ चापि तस्माच्छंसितुमर्हसि।।
अश्वत्थामा तुं सङ्क्रुद्धः पितुर्वधमनुस्मरन्।
ताभ्यां तथ्यं तथाऽऽचख्यौ यदस्यात्मचिकीर्षितम्।।
हत्वा शतसहस्राणि योधानां निशितैः शरैः।
न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः।।
तं तथैव वधिष्यामि न्यस्तवर्माणमद्य वै।
पुत्रं पाञ्चालराजस्य पापं पापेन कर्मणा।।
तथा विनिहतः पापः पाञ्चाल्यः पशुवन्मया।
शस्त्रेण विजिताँल्लोकान्नाप्नुयादिति मे मतिः।।
क्षिप्रं सन्नद्वकवचौ सखङ्गावात्तकार्मुकौ।
मामेवाद्य प्रतीक्षेतां रथवर्यौ परन्तपौ।।
इत्युक्त्वा रथमास्थाय प्रायादभिमुखः परान्।
तमन्वगात्कृपो राजन्कृतवर्मा च सात्वतः।।
ते प्रयाता व्यरोचन्त परानभिमुखास्त्रयः।
हूयमाना यथा यज्ञे समिद्धा हव्यवाहनाः।।
ययुश्च शिबिरं तेषां सम्प्रसुप्तजनं विभो।
द्वारदेशमनुप्राप्य द्रौणिस्तस्थौ महारथः।।
।। इति श्रीमन्महाभारते
सौप्तिकपर्वणि पञ्चमोऽध्यायः।। 5 ।।