सौप्तिकपर्व

अध्यायः ३

Sauptika Parva (Sanskrit) · Adhyaya 3
अक्षर का आकार

सञ्जय उवाच।

कृपस्य वचनं श्रुत्वा धर्मार्थसहितं शुभम्।
अश्वत्थामा महाराज दुःखशोकसमन्वितः।।

दह्यमानस्तु शोकेन प्रदीप्तेनाग्निना यथा।
क्रूरं मनस्ततः कृत्वा तावभौ प्रत्यभाषत।।

पुरुषेपुरुषे बुद्धिर्याया भवति शोभना।
तुष्यन्ति च पृथक्सर्वे प्रज्ञया ते स्वयास्वया।।

सर्वो हि मन्यते लोक आत्मानं बुद्धिमत्तरम्।
सर्वस्यात्मा बहुमतः सर्वोत्मानं प्रशंसति।।

सर्वस्य हि स्वका प्रज्ञा साधुवादे प्रतिष्ठिता।
परबुद्धिं च निन्दन्ति स्वां प्रशंसन्ति चासकृत्।।

कारणान्तरयोगेन येषां संवदते मतिः।
तेऽन्योन्येन च तुष्यन्ति बहुमन्यन्ति चासकृत्।।

तस्यैव तु मनुष्यस्य सासा बुद्धिस्तदातदा।
कालयोगे विपर्यासं प्राप्यान्योन्यं विपद्यते।।

अनित्यत्वात्तु चित्तानां मनुष्याणां विशेषतः।
चित्तवैक्लब्यमासाद्य सासा बुद्धिः प्रजायते।।

यथा हि वैद्यः कुशलो ज्ञात्वा व्याधिं यथाविधि।
भैषज्यं कुरुते योगात्प्रशमार्थमिति प्रभो।।

एवं कार्यस्य योगात्प्रशमार्थमिति प्रभो।।
प्रज्ञया च स्वया युक्त्या तां च गृह्णन्ति वै बुधाः।।

अन्यया यौवने बाल्ये बुद्ध्या भवति मोहितः।
मध्येऽन्यया जरायां तु सोन्यां रोचयते मतिम्।।

व्यसन वा महाघोरं समृद्धिं चापि तादृशीम्।
अवाप्य पुरुषो भोज कुरुते बुद्धिवैकृतम्।।

एकस्मिन्नेव पुरुषे सासा बुद्धिस्तदातदा।
भवत्यनित्या प्रज्ञा हि सा तस्यैव न रोचते।।

निश्चित्य तु यथाप्रज्ञं यां मतिं साधु पश्यति।
तया प्रकुरुते भावं सा तस्योद्योगकारिका।।

सर्वो हि पुरुषो भोज साध्वेतदिति निश्चितः।
कर्तुमारभते प्रीतिं मरणादिषु कर्मसु।।

सर्वे हि युक्तां विज्ञाय प्रज्ञां वापि स्वकां नराः।
चेष्टन्ते विविधां चेष्टां हितमित्येव जानते।।

उपजाता व्यसनजा येयमद्य मतिर्मम।
युवयोस्तां प्रवक्ष्यामि सर्वेषां शोकनाशिनीम्।।

प्रजापतिः प्रजाः सृष्ट्वा कर्म तासु विधाय च।
वर्णेवर्णे समाधत्त ह्येकैकं गुणवत्तरम्।।

ब्राह्मणे वेदमग्र्यं तु क्षत्रिये तेज उत्तमम्।
दाक्ष्यं वैश्ये च शूद्रे च सर्ववर्णानुकूलताम्।।

अदान्तो ब्राह्मणोऽसाधुर्निस्तेजाः क्षत्रियो मृतः।
अदक्षो निन्द्यते वैश्यः शूद्रश्च प्रतिकूलवान्।।

सोऽस्मि जातः कुले श्रेष्ठे ब्राह्मणैरभिपूजिते।
मन्दभाग्यतयाऽस्म्येतं क्षत्रधर्ममनुष्ठितः।।

क्षत्रधर्मं विदित्वाऽहं यदि ब्राह्मण्यमाश्रितः।
प्रकरिष्ये महत्कर्म न मे तत्साधुसम्मतम्।।

धारयित्वा धनुर्दिव्यं दिव्यान्यस्त्राणि चाहवे।
पितरं निहतं दृष्ट्वा किन्नु वक्ष्यामि संसदि।।

सोऽहमद्य यथाकामं क्षत्रधर्ममवाप्य च।
गन्ताऽस्मि पदवीं राज्ञः पितुश्चापि महात्मनः।।

अद्य स्वप्स्यन्ति पाञ्चाला विश्वस्ता जितकाशिनः।
विमुक्तयुग्यकवचा हर्षेण च समन्विताः।
वयं जिता मताश्चैषां श्रान्ता व्यायामकर्शिताः।।

तेषां निशि प्रसुप्तानां सुस्थानां शिबिरे स्वके।
अवस्कन्दं करिष्यामि शिबिरस्याद्य दुष्करम्।।

तानवस्कन्द्य शिबिरे प्रेतभूतानचेतसः।
सूदयिष्यामि विक्रम्य मघवानिव दानवान्।।

अद्य तान्सहितान्सर्वान्धृष्टद्युम्नपुरोगमान्।
सूदयिष्यामि विक्रम्य कक्षं दीप्त इवानलः।।

निहत्य चैव पाञ्चालाञ्शान्तिं लब्धाऽस्मि सत्तम।।

पाञ्चालेषु चरिष्यामि सूदयन्नद्य संयुगे।
पिनाकपाणिः सङ्क्रुद्धः स्वयं रुद्रः पशुष्विव।।

अद्याहं सर्वपाञ्चालान्निकृत्या च निकृष्य च।
अर्दयिष्यामि संहृष्टो रणे पाण्डुसुतांस्तथा।
`सूदयिष्यामि सङ्क्रुद्धः पशूनिव पिनाकधृत्'।।

अद्याहं सर्वपाञ्चालैः कृत्वा भूमिं शरीरिणीम्।
प्रहृत्यैकेन शस्त्रेण भविष्याम्यनृणः पितुः।।

दुर्योधनस्य कर्णस्य भीष्मसैन्धवयोरपि।
गमिष्यामि निशावेलां पदवीमद्य दुर्गमाम्।।

अद्य पाञ्चालराजस्य धृष्टद्युम्नस्य वै निशि।
विरात्रे प्रमथिष्यामि पशोरिव शिरो बलात्।।

अद्य पाञ्चालपाण्डूनां शयितानां शिरो निशि।
खङ्गेन निशितेनाजौ प्रमथिष्यामि गौतम।।

अद्य पाञ्चालसेनां तां निहत्य निशि सौप्तिके।
कृतकृत्यः सुखी चैव भविष्यामि महामते।।

।। इति श्रीमन्महाभारते
सौप्तिकपर्वणि तृतीयोऽध्यायः।। 3 ।।