सौप्तिकपर्व

अध्यायः २

Sauptika Parva (Sanskrit) · Adhyaya 2
अक्षर का आकार

कृप उवाच।

श्रुतं ते वचनं सर्वं हेतुयुक्तं मया विभो।
ममापि तु वचः किञ्चिच्छृणुष्वाद्य महाभुज।।

आबद्धा मानुषाः सर्वे निबद्धाः कर्मणोर्द्वयोः।
दैवे पुरुषकारे च परं ताभ्यां न विद्यते।।

न हि दैवेन सिध्यन्ति कार्याण्येकेन सत्तम।
न चापि कर्मणैकेन द्वाभ्यां सिद्धिस्तु योगतः।।

ताभ्यामुभाभ्यां सर्वार्था निबद्धा अधमोत्तमाः।
प्रवृत्ताश्चैव दृश्यन्ते निवृत्ताश्चैव सर्वशः।।

पर्जन्यः पर्वते वर्षन्किन्नु साधयते फलम्।
कृष्टे क्षेत्रे तथा वर्षन्किं न साधयते फलम्।।

उत्थानं चापि दैवस्य ह्यनुत्थानं च दैवतम्।
व्यर्थं भवति सर्वत्र पूर्वस्तत्र विनिश्चयः।।

सुवृष्टे च यथा देवे सम्यक् क्षेत्रे च कर्षिते।
बीजं महागुणं भूयात्तथा सिद्धिर्हि मानुषी।।

तयोर्दैवं तु दुश्चिन्त्यं स्ववशेनैव वर्तते।
प्राज्ञाः पुरुषकारे तु वर्तन्ते देवमास्थिताः।।

ताभ्यां सर्वे हि कार्यार्था मनुष्याणां नरर्षभ।
विचेष्टन्तः स्म दृश्यन्ते निवृत्तास्तु तथैव च।।

कृतः पुरुषकारश्च सोऽपि दैवेन सिध्यति।
तथास्य कर्मणः कर्तुरभिनिर्वर्तते फलम्।।

उत्थानं च मनुष्याणां दक्षाणां दैववर्जितम्।
अभलं दृश्यते लोके सम्यगप्युपपादितम्।।

तत्रालसा मनुष्याणां ये भवन्त्यमनस्विनः।
उत्थानं ते विगर्हन्ति प्राज्ञानां तन्न रोचते।।

प्रायशो हि कृतं कर्म नाफलं दृश्यते भुवि।
अकृत्वा च पुनर्दुःखं कर्म पश्येन्महाफलम्।।

चष्टामकुर्वंल्लभते यदि किञ्चिद्यदृच्छया।
यो वा न लभते कृत्वा दुर्दर्शौ तावुभावपि।।

शक्नोति जीवितुं दक्षो नालसः सुखमेधते।
दृश्यन्ते जीवलोकेऽस्मिन्दक्षाः प्रायो हितैषिणः।।

यदि दक्षः समारम्भात्कर्मणो नाश्नुते फलम्।
नास्य वाच्यं भवेत्किञ्चिल्लब्धव्यं वाऽधिगच्छति।।

नाकृत्वा कर्म लोके हि फलं विन्दति कर्हिचित्।
स तु वक्तव्यतां याति द्वेष्यो भवति भूयशः।।

एवमेतदनादृत्य वर्तते यस्त्वतोऽन्यथा।
स करोत्यात्मनोऽनर्थानेष बुद्धिमतां नयः।।

हीनं पुरुषकारेण यदि दैवेन वा पुनः।
कारणाभ्यामथैताभ्यामुत्थानमफलं भवेत्।।

हीनं पुरुषकारेण कर्म त्विह न सिध्यति।।

दैवतेभ्यो नमस्कृत्य यस्त्वर्थान्सम्यगीहते।
दक्षो दाक्षिण्यसम्पन्नो न स मोघैर्विहन्यते।।

सम्यगीहा पुनरियं या बृद्धानुपसेवते।
आपृच्छति च यच्छ्रेयः करोति च हितं वचः।।

उत्थायोत्थाय हि सदा प्रष्टव्या वृद्धसम्मताः।
ते स्म योगे परं मूलं तन्मूला सिद्धिरुच्यते।।

वृद्धानां वचनं श्रुत्वा योऽभ्युत्थानं प्रयोजयेत्।
उत्थानस्य फलं सम्यक्तदा स लभतेऽचिरात्।।

रागात्क्रोधाद्भयाल्लोभाद्योऽर्थानीहेत मानवः।
अनीशश्चावमानी च स शीघ्रं भ्रश्यते श्रियः।।

सोयं दुर्योधनेनार्थो लुब्धेनादीर्घदर्शिना।
असमर्थः समारब्धो मूढत्वादविचिनन्तितः।।

हितबुद्धीननादृत्य सम्मन्त्र्यासाधुभिः सह।
वार्यमाणोऽकरोद्वैरं पाण्डवैर्गुणवत्तरैः।।

पूर्वमप्यतिदुःशीलो न धैर्यं कर्तुमर्हति।
तपत्यर्थे विपन्ने हि मित्राणां न कृतं वचः।।

अनुवर्तामहे यत्तु तं वयं पापपूरुषम्।
अस्मानप्यनयस्तस्मात्प्राप्तोऽयं दारुणो महान्।।

अेन तु ममाद्यापि व्यसनेनोपतापिता।
बुद्धिश्चिन्तयते किञ्चित्स्वं श्रेयो नावबुध्यते।।

मुह्यता तु मनुष्येण प्रष्टव्याः सुहृदो जनाः।
तत्रास्य बुद्धिर्विनयस्तत्र श्रेयश्च पश्यति।।

ततोऽस्य मूलं कार्याणां बुद्ध्या निश्चित्य वै बुधाः'।
तेऽत्र पृष्टा यथा ब्रूयुस्तत्कर्तव्यं तथा भवेत्।।

ते वयं धृतराष्ट्रं च गान्धारीं च यशस्विनीम्।
उपपृच्छामहे गत्वा विदुरं च महामतिम्।।

ते पृष्टास्तु वदेयुर्यच्छ्रेयो नः समनन्तरम्।
तदस्माभिः पुनः कार्यमिति मे नैष्ठिकी मतिः।।

अनारम्भात्तु कार्याणां नार्थः सम्पद्यते क्वचित्।।

कृते पुरुषकारे तु येषां कार्यं न सिध्यति।
दैवेनोपहतास्ते तु नात्र कार्या विचारणा।।

।। इति श्रीमन्महाभारते
सौप्तिकपर्वणि द्वितीयोऽध्यायः।। 2 ।।