सौप्तिकपर्व

अध्यायः १७

Sauptika Parva (Sanskrit) · Adhyaya 17
अक्षर का आकार

वैशम्पायन उवाच।

हतेषु सर्वसैन्येषु सौप्तिकै तै रथैस्त्रिभिः।
शोचन्युधिष्ठिरो राजा दाशार्हमिदमब्रवीत्।।

कथं नु कृष्ण पापेन क्षुद्रेण शठबुद्धिना।
द्रौणिना निहताः सर्वे मम पुत्रा महारथाः।।

तथा कृतास्‌रविक्रान्ताः सङ्ग्रामेष्वपलायिनः।
द्रुपदस्यात्मजाश्चैव द्रोणपुत्रेण पातिताः।।

यस्य द्रोणो महेष्वासो न प्रादादाहवे मुखम्।
निजघ्ने रथिनां श्रेष्ठं धृष्टद्युम्नं कथं नु सः।।

किन्नु तेन कृतं कर्म तथायुक्तं नरर्षभ।
यदेकः समरे सर्वानवधीन्नो गुरोः सुतः।।

श्रीभगवानुवाच।

नूनं स देवदेवानामीश्वरेश्वरमव्ययम्।
जगाम शरणं द्रौणिरेकस्तेनावधीद्बहून्।।

प्रसन्नो हि महादेवो दद्यादमरतामपि।
वीर्यं च गिरिशो दद्याद्येनेन्द्रमपि शातयेत्।।

वेदाहं हि महादेवं तत्त्वेन भरतर्षभ।
यानि चास्यपुराणानि कर्माणि विविधानि च।।

आदिरेष हि भूतानां मध्यमन्तश्च भारत।
विचेष्टते जगच्चेदं सर्वमस्यैव कर्मणा।।

एवं सिसृक्षुर्भूतानि ददर्श प्रथमं विभुः।
पितामहोऽब्रवीच्चैनं भूतानि सृज माचिरम्।।

हरिकेशस्तथेत्युक्‌वा दीर्घदर्शी तदा प्रभुः।
दीर्घकालं तपस्तेपे मग्नोऽम्भसि महातपाः।।

सुमहान्तं ततः कालं प्रतीक्ष्यैनं पितामहः।
स्रष्टारं सर्वभूतानां ससर्ज मनसाऽपरम्।।

सोऽब्रवीद्वातरं दृष्ट्वा गिरिशं सुप्तमम्भसि।
यदि मे नाग्रजोऽस्त्यन्यस्ततः स्रक्ष्याम्यहं प्रजाः।।

तमब्रवीत्पिता नास्ति त्वदन्यः पुरुषोऽग्रजः।
स्थाणुरेष जले मग्नो विस्रब्धः कुरु वै प्रजाः।।

भूतान्यन्वसृजत्सप्त दक्षः क्षिप्रं प्रजापतिः।
यैरिमं व्यकरोत्सर्वं भूतग्रामं चतुर्विधम्।।

ताः सृष्टमात्राः क्षुधिताः प्रजाः सर्वाः प्रजापतिम्।
बिभक्षयिवो राजन्सहसा प्राद्रवंस्तदा।।

स भक्ष्यमाणस्त्राणार्थी पितामहमुपाद्रवत्।
आभ्यो मां भगवांस्त्रातु वृत्तिरासां विधीयताम्।।

ततस्ताभ्यो ददावन्नमोषधीः स्थावराणि च।
जङ्गमानि च भूतानि दुर्बलानि बलीयसाम्।।

विहितान्नाः प्रजास्तास्तु जग्मुस्तुष्टा यथागतम्।
ततो ववृधिरे राजन्प्रीतिमत्यः स्वयोनिषु।।

भूतग्रामे विवृद्वे तु सृष्टे देवासुरे तदा।
उदतिष्ठज्जलाज्ज्येष्ठः प्रजाश्चेमा ददर्श सः।।

बहुरूपाः प्रजाः सृष्टा विवृद्धाश्च स्वतेजसा।
चुक्रोध बलवद्दृष्ट्वा लिङ्गं स्वं चाप्यविध्यत।।

तत्प्रविद्धं तथा भूमौ तथैव प्रत्यतिष्ठत।
तमुवाचाव्ययो ब्रह्मा वचोभिः शमयन्निव।।

किं कृतं सलिले शर्व चिरकालस्थितेन ते।
किमर्थं चेदमुत्पाद्य लिङ्गं भूमौ प्रवेशितम्।।

सोऽब्रवीज्जातसंरम्भस्तथा लोकगुरुर्गुरुम्।
प्रजाः सृष्टाः परेणेमाः किं करिष्याम्यनेन वै।।

प्रजाः सृष्टाः परेणेमाः प्रजार्थं मे पितामह।
ओषध्यः परिवर्तेरन्यथैवं सततं प्रजाः।।

एवमुक्त्वा स सक्रोधो जगाम विमना भवः।
गिरेर्मुञ्जवतः पादं तपस्तप्तुं महातपाः।।

।। इति श्रीमन्महाभारते सौप्तिकपर्वणि
ऐषीकपर्वणि सप्तदशोऽध्यायः।। 17 ।।