सौप्तिकपर्व

अध्यायः १८

Sauptika Parva (Sanskrit) · Adhyaya 18
अक्षर का आकार

कश्रीभगवानुवाच।

ततो देवयुगेऽतीते देवा वै समकल्पयन्।
यज्ञवेदप्रमाणेन विधिवद्यष्टुमीप्सवः।।

कल्पयामासुरथ ते साधनानि हवींषि च।
भागार्हा देवताश्चैव यज्ञियं द्रव्यमेव च।।

ता वै रुद्रमजानन्त्यो याथातथ्येन देवताः।
नाकल्पयन्त देवस्य स्थाणोर्भागं नराधिप।।

सोऽकल्प्यमाने भागे तु कृत्तिवासा मखेऽमरैः।
तपसा यज्ञमन्विच्छन्धनुरादौ ससर्ज ह।।

लोकयज्ञः क्रियायज्ञो गृहयज्ञः सनातनः।
पञ्चभूतनृयज्ञश्च जज्ञे सर्वमिदं जगत्।।

लोकयज्ञैर्नृयज्ञैश्च कपर्दी विदधे धनुः।
धनुः सृष्टमभूत्तस्य षष्टिकिष्कुप्रमाणतः।।

वषट्‌कारोऽभवज्ज्या तु धनुषस्तस्य भारत।
यज्ञाङ्गानि च चत्वारि तस्य सन्नहनेऽभवन्।।

ततः क्रुद्धो महादेवस्दुपादाय कार्मुकम्।
आजगामाथ तत्रैव यत्र देवाः समीजिरे।।

तमात्कार्मुकं दृष्ट्वा ब्रह्मचारिणमव्ययम्।
विव्यथे पृथिवी देवी पर्वताश्च चकम्पिरे।।

न ववौ पवनश्चैव नाग्निर्जज्वाल वैधितः।
व्यभ्रमच्चापि संविग्नं दिवि नक्षत्रमण्डलम्।।

न बभौ भास्करश्चापि सोमः श्रीमुक्तमण्डलः।
तिमिरेणाकुलं सर्वमाकाशं चाभवृद्वृतम्।।

अभिभूतास्ततो देवा विषयान्न प्रजज्ञिरे।
न प्रत्यभाच्च यज्ञः स देवतास्त्रेसिरे तथा।।

ततः स यज्ञं विव्याध रौद्रेण हृदि पत्रिणा।
अपक्रान्स्ततो यज्ञो मृगो भूत्वा सपावकः।।

स तु तेनैव रूपेण दिविस्थो वै व्यराजत।
अन्वीयमानो रुद्रेण युधिष्ठिर नभस्तले।।

अपक्रान्ते ततो यज्ञे संज्ञा न प्रत्यभात्सुरान्।
नष्टसंज्ञेषु देवेषु न प्राज्ञायत किञ्चन।।

त्र्यम्बकः सवितुर्बाहू भगस्य नयने तथा।
पूष्णश्च दशनान्क्रुद्धो धनुष्कोट्या व्यशातयत्।।

प्राद्रवन् ततो देवा यज्ञाङ्गानि च सर्वशः।
केचित्तत्रैव घूर्णन्तो गतासव इवाभवन्।।

स तु विद्राव्य तत्सर्वं शितिकम्ठोऽवहस्य च।
अवष्टभ्य धनुष्कोटिं रुरोध विबुधांस्ततः।।

ततो वागमरैरुक्ता ज्यां तस्य धनुषोऽच्छिनत्‌।
अथ तत्सहसा राजंश्छिन्नज्यं विस्फुरद्धनुः।।

ततो विधनुषं देवा देवश्रेष्ठमुपागमन्।
शरणं सह यज्ञेन प्रसादं चाकरोत्प्रभुः।।

ततः प्रसन्नो भगवान्प्रास्यत्कोपं जलाशये।
स जलं पावको भूत्वा शोषयत्यनिशं प्रभो।।

भगस्य नयने चैव बाहू च सवितुस्तथा।
प्रादात्पूष्णश्च दशनान्पुनर्यज्ञांश्च पाण्डव।।

ततः सुस्थमिदं सर्वं बभूव पुनरेव हि।
सर्वाणि च हवींष्यस्य देवा भागमकल्पयन्।।

तस्मिन्क्रुद्धेऽभवत्सर्वमसुस्थं भुवनं प्रभो।
प्रसन्ने च पुनः सुस्थं जगद्भवति भारत।।

ततस्ते निहताः सर्वे तव पुत्रा महारथाः।
अन्ये च बहवः शूराः पाञ्चालस्य पदानुगाः।।

न तन्मनसि कर्व्यं न च तद्द्रौणिना कृतम्।
महादेवप्रसादः स कुरुकार्यमनन्तरम्।।

।। इति श्रीमन्महाभारते शतसाहस्रिकायां संहितायां
वैयासिक्यां सौप्तिकपर्वणि ऐषीकपर्वणि अष्टादशोऽध्यायः।। 18 ।।

समाप्तं ऐषीकपर्व।। 2 ।।

सौप्तिकपर्व च समाप्तम्।। 10 ।।

तस्यायमाद्यः श्लोकः।

जनमेजय उवाच।

हते दुर्योधने चैव हते सैन्ये च सर्वशः।
धृतराष्ट्रो महाराज श्रुत्वा किमकरोन्मुने।।