सौप्तिकपर्व
अध्यायः १६
वैशम्पायन उवाच।
तदाज्ञाय हृषीकेशो विकृष्टं पापकर्मणा।
हृष्यमाण इदं वाक्यं द्रौणिं प्रत्यब्रवीत्तदा।।
विराटस्य सुतां पूर्वं स्नुषां गाण्डीवधन्वनः।
उपप्लाव्यगतां दृष्ट्वा ऋतवाग्ब्रह्मणोऽब्रवीत्।।
परिक्षीणेषु कुरुषु पुत्रस्तव भविष्यति।
एतदस्य परिक्षित्त्वं गर्भस्थस्य भविष्यति।।
तस्य तद्वचनं साधोः सत्यमेद्भविष्यति।
परिक्षिद्भविता ह्येषां पुनर्वंशकरः सुतः।।
त्वां तु कापुरुषं पापं विंदुः सर्वे मनीषिणः।
असकृत्पापकर्माणं बालजीवितघातकम्।।
तस्मात्त्वमस्य पापस्य कर्मणः फलमाप्नुहि।
त्रीणि वर्षसहस्राणि चरिष्यसि महीमिमाम्।।
अप्राप्नुवन्क्वचित्काञ्चित्संविदं जातु केनचित्।
निर्जनानसहायस्त्वं देशान्प्रविचरिष्यसि।।
भवित्री न हि ते क्षुद्र जनमध्येषु संस्थितिः।
पूयशोणिगन्धी च दुर्गकान्तारसंश्रयः।
विचरिष्यसि पापात्मंश्चिरमेको वसुन्धराम्।।
वयः प्राप्य परिक्षित्तुं देवव्रतमवाप्य च।
कृपाच्छारद्वताच्छूरः सर्वास्त्राण्युपपत्स्यते।।
विदित्वा परमास्त्राणि क्षत्रधर्मव्रते स्थितः।
षष्टिं वर्षामि धर्मात्मा वसुधां पालयिष्यति।।
इतश्चोर्ध्वं महाबाहुः कुरुराजो भविष्यति।
परिक्षिन्नाम नृपतिर्मिषतस्ते सुदुर्मते।।
[अहं तं जीवयिष्यामि दग्धं शस्त्राग्नितेजसा]।
पश्य मे तपसो वीर्यं सत्यस्य च नराधम।।
व्यास उवाच।
यस्मादनादृत्य कृतं त्वयाऽस्मान्कर्म दारुणम्।
ब्राह्मणस्य सतश्चेदं वृत्तमन्यायवर्तिनः।।
तस्माद्यद्देवकीपुत्र उक्वानुत्तमं वचः।
आलोकात्तव तद्भावि क्षुद्रकर्मन्व्रजेति ह।।
अश्वत्थामोवाच।
सहैव भवता ब्रह्मन्स्थास्यामि पुरुषेष्विह।
सत्यवागस्तु भगवानयं च पुरुषोत्तमः।।
वैशम्पायन उवाच।
प्रदायाथ मणिं द्रौणिः पाण्डवानां महात्मनाम्।
जगाम विमनास्तेषां सर्वेषां पश्यतां वनम्।।
पाण्डवाश्च सदाशार्हास्तानृषीनभिवाद्य च।
कृष्णद्वैपायनं चैव नारदं चैव पर्वतम्।।
द्रोणपुत्रस्य सहजं मणिमादाय सत्वराः।
द्रौपदीमभ्यधावन्त प्रायोपेतां मनस्विनीम्।।
वैशम्पयन उवाच।
ततस्ते पुरुषव्याघ्राः सदश्वैरनिलोपमैः।
अभ्ययुः सहदाशार्हाः शिबिरं पुनरेव हि।।
अवतीर्य रथेभ्यस्तु त्वरमाणा महारथाः।
ददृशुर्द्रौपदीं हृष्टामार्तामार्ततराः स्वयम्।।
तामुपेत्य निरानन्दां दुःखशोकसमन्विताम्।
परिवार्य व्यतिष्ठन्त पाण्डवाः सहकेशवाः।।
ततो राज्ञाऽभ्यनुज्ञातो भीमसेनो महाबलः।
प्रददौ तं मणिं दिव्यं वचनं चेदमब्रवीत्।।
अयं भद्रे तव मणिः पुत्रहन्ता जितश्च ते।
उत्तिष्ठ शोकमुत्सृज्य क्षात्रधर्ममनुस्मर।।
प्रयाणे वासुदेवस्य शमार्थवसितेक्षणे।
यान्युक्तानि त्वया भीरु वाक्यानि मधुघातिनि।।
नैव मे पतयः सन्ति न पुत्रा भ्रातरो न च।
न वै त्वमिति गोविन्द शममिच्छति राजनि।।
उक्तवत्यसि तीव्राणि वाक्यानि पुरुषोत्तमम्।
क्षत्रधर्मानुरूपाणि तानि संस्मर्तुमर्हसि।।
हतो दुर्योधनः पापो राज्यस्य परिपन्थिकः।
दुःशासनस्य रुधिरं पीतं विस्फुरतो मया।।
वैरस्य गतमानृण्यं न स्म वाच्या विवक्षताम्।
जित्वा मुक्तो द्रोणपुत्रो ब्राह्मण्याद्गौरवेण च।।
यशोऽस्य पतितं देवि शरीरं त्ववशेषितम्।
वियोजितश्च मणिना भ्रंशितश्चायुधं भुवि।।
द्रौपद्युवाच।
केवलानृण्यमाप्ताऽस्मि गुरुपुत्रो गुरुर्मम।
शिरस्येतं मणिं राजा ग्रहीतुमनघोऽर्हति।।
तं गृहीत्वा ततो राजा शिरस्येवाकरोत्तदा।
गुरोरुच्छेषमित्येव द्रौपद्या वचनादपि।।
ततो दिव्यं मणिवरं शिरसा धारयन्प्रभुः।
शुशुभे स तदा राजा सचन्द्र इव पर्वतः।।
उत्तस्थौ पुत्रशोकार्ता ततः कृष्णा मनस्विनी।
कृष्णं चापि महाबाहुः परिपप्रच्छ धर्मराट्।।
।। इति श्रीमन्महाभारते सौप्तिकपर्वणि
ऐषीकपर्वणि षोडशोऽध्यायः।। 16 ।।