शांतिपर्व
अध्यायः ९९
भीष्म उवाच।
अत्राप्युदाहरन्तीम-तिहासं पुरातनम्।
प्रतर्दनो मैथिलश्च संग्रामं यत्र चक्रतुः।।
यज्ञोपवीती संग्रामे जनको मिथिलाधिपः।
योधानुद्धर्षयामास तन्निबोध युधिष्ठिर।।
जनको मैथिलो राजा महात्मा सर्वतत्त्ववित्।
योधानां दर्शयामास स्वर्गं नरकमेव च।।
अभीरूणामिमे लोका भास्वन्तो हन्त पश्यत।
पूर्णा गन्धर्वकन्याभिः सर्वकामदुहोऽक्षयाः।।
इमे पलायमानानां नरकाः प्रत्युपस्थिताः।
अकीर्तिः शाश्वती चैव यतितव्यमनन्तरम्।।
तान्दृष्ट्वाऽरीन्विजयत भूत्वा संत्यागबुद्धयः।
नरकस्याप्रतिष्ठस्य मा भूत वशवर्तिनः।।
त्यागमूलं हि शूराणां स्वर्गद्वारमनुत्तमम्।
इत्युक्तास्ते नृपतिना योधाः परपुरंजय।।
अजयन्त रणे शत्रून्हर्षयन्तो नरेश्वरम्।
तस्मात्त्यक्तात्मना नित्यं स्थातव्यं रणमूर्धनि।।
गजानां रथिनो मध्ये रथानामनुसादिनः।
सादिनामन्तरे स्थाप्यं पादातमपि दंशितम्।।
य एवं व्यूहते राजा स नित्यं जयते रिपून्।
तस्मदितद्विधातव्यं नित्यमेव युधिष्ठिर।।
स्वर्गे सुकृतमिच्छन्तः सुयुद्धेनातिमन्यवः।
क्षोभयेयुरनीकानि सागरं मकरा यथा।।
हर्षयेयुर्विषण्णांश्च व्यवस्थाप्य परस्परम्।
तेषां च भूमिं रक्षेयुर्भग्नान्नात्यनुसारयेत्।।
पुनरावर्तमानानां निराशानां च जीविते।
वेगः सुदुःसहो राजंस्तस्मान्नात्यनुसारयेत्।।
न हि प्रहर्तुमिच्छन्ति शूराः प्रद्रवतो भयात्।
तस्मात्पलायमानानां कुर्यान्नात्यनुसारणम्।।
चराणामचरा ह्यन्नमदंष्ट्रा दंष्ट्रिणामपि।
अपाणयः पाणिमतामन्नं शूरस्य कातराः।।
समानपृष्ठोदरपाणिपादाः
पश्चाच्छरं भीरवोऽनुव्रजन्ति।
अतो भयार्ताः प्रणिपत्य भूयः
कृत्वाञ्जलीनुपतिष्ठन्ति शूरान्।।
शूरबाहुषु लोकोऽयं लम्बते पुत्रवत्सद।
तस्मात्सर्वेषु लोकेषु शूरः संमानमर्हति।।
न हि शौर्यात्परं किंचिन्त्रिषु लोकेषु विद्यते।
शूरः सर्वं पालयति सर्वं शूरे प्रतिष्ठितम्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि एकोनशततमोऽध्यायः।। 99।।