शांतिपर्व

अध्यायः ९८

Santi Parva (Sanskrit) · Adhyaya 98
अक्षर का आकार

युधिष्ठिर उवाच।

के लोका युध्यमानानां शूराणामनिवर्तिनाम्।
भवन्ति निधनं प्राप्य तन्मे ब्रूहि पितामह।।

भीष्म उवाच।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
अम्बरीपस्य संवादमिन्द्रस्य च युधिष्ठिर।।

अम्बरीषो हि नाभागः स्वर्गं गत्वा सुदुर्लभम्।
ददर्श सुर--कस्थं शक्रेण सचिवैः सह।।

सर्वतेजोमयं दिव्यं विमानवरमास्थितम्।
उ---गच्छन्तं स्थानं सेनापतिं शुभम्।।

स दष्ट्वापरि गच्छन्तं सेनापतिमुदारधीः।
`शूरस्थानमनुप्राप्तं सुदेवं नाम नामतः।'
ऋद्धिं दृष्ट्वा सुदेवस्य विस्मितः प्राह वासवम्।।

अम्बरीप उवाच।

सागरान्तां महीं कृत्स्नामनुशास्य यथाविधि।
चातुर्वर्ण्ये यथाशास्त्रं प्रवृत्तो धर्मकाम्यया।।

ब्रह्मचर्येण घोरेण गुर्वाचारेण सेवया।
वेदानधीत्य धर्मेण राजशास्त्रं च केवलम्।।

अतिथीनन्नपानेन पितॄंश्च स्वधया तथा।
ऋषीन्स्वाध्यायदीक्षाभिर्देवान्यज्ञैरनुत्तमैः।।

क्षत्रध—स्थितो भूत्वा यथाशास्त्रं यथाविधि।
उदीक्षमाणः पृतनां जयामि युधि वासव।।

दे--ज सुदेवोऽयं मम सेनापतिः पुरा।
आसाद्योधः प्रशान्तात्मा सोऽयं कस्मादतीव माम्।
विमानं सूर्यसङ्काशमास्थितो मोदते दिवि।।

अनेन ऋतुभिर्मुख्यैर्नेष्टं नापि द्विजातयः।
तर्पिता विधिवच्छक्र सोऽयं कस्मादतीत्य माम्।।

ऐश्वर्यमीदृशं प्राप्तः सर्वदेवैः सुदुर्लभम्।

इन्द्र उवाच।

`यदनेन कृतं कर्म प्रत्यक्षं ते महीपते।
पुरा पालयतः सम्यक्पृथिवीं धर्मतो नृप।।

शत्रवो निर्जिताः सर्वे ये तवाहितकारिणः।
संयमो वियमश्चैव सुयमश्च नहाबलः।।

राक्षसा दुर्जया लोके त्रयस्ते युद्धदुर्मदाः।
पुत्रास्ते शतशृङ्गस्य राक्षसस्य महीपतेः।।

तथा तस्मिञ्शुभे काले तव यज्ञं वितन्वतः।
अश्वमेधं महायागं देवानां हितकाम्यया।।

तस्य ते खलु विघ्नार्थमागता राक्षसास्त्रयः।
कोटीशतपरीवारां राक्षसानां महाचमूम्।
परिगृह्य ततः सर्वाः प्रजा वन्दीकृतास्तव।।

विह्वलाश्च प्रजाः सर्वाः सर्वे च तव सैनिकाः।
निराकृतस्तु यच्चासीत्सुदेवः सैन्यनायकः।।

तत्रामात्यवचः श्रुत्वा निरस्तः सर्वकर्मसु।
श्रुत्वा तेषां वचो भूयः सोपधं वसुधाधिपः।।

सर्वसैन्यसमायुक्तः सुदेवः प्रेरितस्त्वया।
साक्षसानां वधार्थाय दुर्जयानां नराधिप।।

नाजित्वा राक्षसीं सेनां पुनरागमनं तव।
बन्दीमोक्षमकृत्वा च न चागमनमिष्यते।।

सुदेवस्तद्वचः श्रुत्वा प्रस्थानमकरोन्नृप।
संप्राप्तश्च स तं देशं यत्र बन्दीकृताः प्रजाः।।

पश्यति स्म महाघोरां राक्षसानां महाचमूम्।
दृष्ट्वा सुचिन्तयामास सुदेवो वाहिनीपतिः।।

नेयं शक्या चमूर्जेतुमपि सेन्द्रैः सुरासुरैः।
नाम्बरीषः कलामेकामेषां क्षपयितुं क्षमः।
दिव्यास्त्रबलभूयिष्ठः किमहं पुनरीदृशः।।

ततः सेनां पुनः सर्वां प्रेषयामास पार्थिव।
यत्र त्वं सचिवैः सर्वैर्मन्त्रिभिः सोपधैर्नृप।।

ततो रुद्रं महादेवं प्रपन्नो जगतः पतिम्।
श्मशाननिलयं देवं तुष्टाव वृषभध्वजम्।।

स्तुत्वा शस्त्रं समादाय स्वशिरश्छेत्तुमुद्यतः।।

कारुण्याद्देवदेवेन गृहीतस्तस्य दक्षिणः।
स पाणिः सह शस्त्रेण दृष्ट्वा चेदमुवाच ह।।

किमिदं साहसं पुत्र कुर्तकामो वदस्व मे।
स उवाच महादेवं शिरसा त्ववनीं गतः।।

भगवन्वाहिनीमेनां राक्षसानां सुरेश्वर।
अशक्तोऽहं रणे जेतुं तस्मात्त्यक्ष्यामि जीवितम्।
गतिर्भव महादेव ममार्तस्य जगत्पते।।

नागन्तव्यमजित्वा च मामाह जगतीपतिः।
अम्बरीषो महादेव क्षारितः सचिवैः सह।।

तमुवाच महादेवः सुदेवं पतितं क्षितौ।
अधोमुखं महात्मानं सत्वानां हितकाम्यया।।

धनुर्वेदं समाहूय सगणं सहविग्रहम्।
रथनागाश्वकलिलं दिव्यास्त्रसमलंकृतम्।।

रथं च सुमहाभागं येन तन्त्रिपुरं हतम्।
धनुः पिनाकं खङ्गं च रौद्रमस्त्रं च शंकरः।
निजघानासुरान्सर्वान्येन देवस्त्रियम्बकः।।

उवाच च महादेवः सुदेवं वाहिनीपतिम्।
रथादस्मात्सुदेव त्वं दुर्जयः स सुरासुरैः।।

मायया मोहितो भूमौ न पदं कर्तुमर्हसि।
रथस्थस्त्रिदशान्सर्वाञ्जेष्यसि त्वं सदानवान्।।

राक्षसाश्च पिशाचाश्च न शक्ता द्रष्टुमीदृशम्।
रथं सूर्यसहस्राभं किमु योद्धुं त्वया सह।।

स जित्वा राक्षसान्सर्वान्कृत्वा बन्दीविमोक्षणम्।
घातयित्वा च तान्सर्वान्बाहुयुद्धे त्वयं हतः।
वियमं प्राप्य भूपाल वियमश्च निपातितः।।'

तस्य विक्रमतस्तात सुदेवस्य बभूव ह।
संग्रामयज्ञः सुमहान्यश्चान्यो युध्यते नरः।।

सन्नद्धो दीक्षितः सर्वो योधः प्राप्य चमूमुखम्।
युद्धयज्ञाधिकारस्थो भवतीति विनिश्चयः।।

अम्बरीष उवाच।

कानि यज्ञे हवींष्यस्मिन्किमाज्यं का च दक्षिणा।
ऋत्विजश्चात्र क्रे प्रोक्तास्तन्मे ब्रूहि शतक्रतो।।

इन्द्र उवाच।

ऋत्विजः कुञ्जरास्तत्र वाजिनोऽध्वर्यवस्तथा।
हवींषि परमांसानि रुधिरं त्वाज्यमुच्यते।।

शृगालगृध्रकाकोलाः सदस्यास्तत्र पन्त्रिणः।
आज्यशेषं पिबन्त्येते हविः प्राश्नन्ति चाध्वरे।।

प्रासतोमरसंघाताः खङ्गशक्तिपरश्वथाः।
ज्वलन्तो निशिताः पीताः स्रुचस्तस्याथ सत्रिणः।।

चापवेगायतस्तीक्ष्णः परकायावभेदनः।
ऋजुः सुनिशितः पीतः सायकश्च स्रुवो महान्।।

द्वीपिचर्मावनद्धश्च नागदन्तकृतत्सरुः।
हस्तिहस्तहरः खङ्गः स्फयो भवेत्तस्य संयुगे।।

ज्वलितैर्निशितैः प्रासशक्त्यृष्टिसपरश्वथैः।
शैक्यायसमयैस्तीक्ष्णैरभिघातो भवेद्वसु।।

[सङ्ख्यासमयविस्तीर्णमभिजातोद्भवं बहु।]
आवेधाद्यच्च रुधिरं संग्रामे स्रवते भुवि।
साऽस्य पूर्णाहुतिर्होत्रैः समृद्धा सर्वकामधुक्।।

छिन्धि भिन्धीति यः शब्दः श्रूयते वाहिनीमुखे।
सामानि सामगास्तस्य गायन्ति यमसादने।।

हविर्धानं तु तस्याहुः परेषां वाहिनीमुखम्।।

कुञ्जराणां हयानां च वर्मिणां च समुच्चय।
अग्निः श्येनचितो नाम यज्ञे तस्य विधीयते।।

उत्तिष्ठते कबन्धोऽत्र सहस्रे पतिते तु यः।
स यूपस्तस्य शूरस्य खादिरोऽष्टाश्रिरुच्यते।।

इडोपहूताः क्रोशन्ति कुञ्जरास्त्वङ्कुशेरिताः।
ज्याघुष्टतलतालेन वषट्‌कारेण पार्थिव।।

उद्गाता तत्र संग्रामे त्रिसामा दुन्दुभिर्नृप।
ब्रह्मस्वे ह्रियमाणे तु त्यक्त्वा युद्धे प्रियां तनुम्।
आत्मानं यूपमुच्छ्रित्य स यज्ञोऽनन्तदक्षिणः।।

भर्तुरर्थे च यः शूरो निष्क्रामेद्वाहिनीमुखात्।
न भयाद्विनिवर्तेत तस्य लोका यथा मम।।

द्वीपिचर्मावृतैः खङ्गैर्बाहुभिः परिघोपमैः।
यस्य वेदिरुपस्तीर्णा तस्य लोका यथा मम।।

यस्तु नापेक्षते कंचित्सहायं विषमे स्थितः।
विगाह्य वाहिनीमध्यं तस्य लोका यथा मम।।

यस्य शोणितसंघट्टा भेरीमण्डूककच्छपा।
वीरास्थिशर्करा दुर्गा मांसशोणितकर्दमा।।

असिचर्मप्लवा घोरा केशशैवलशाद्वला।
अश्वनागरथैश्चैव संछिन्नैः कृतसंक्रमा।।

पताकाध्वजवानीरा हतवाहनवारणा।
शोणितोदकसंपूर्णा दुस्तरा पारगैर्नरैः।।

रहतनागमहानक्रा परलोकवहाऽशिवा।
ऋष्टिखङ्गमहामीना गृध्रकङ्कबलप्लवा।।

पुरुषादानुचरिता भीरूणां कश्मलावहा।
नदी योधस्य संग्रामे तदस्यावभृथं नृप।।

वेदिर्यस्य त्वमित्राणां शिरोभिर्व्यवकीर्यते।
अश्वस्कन्धैर्गजस्कन्धैस्तस्य लोका यथा मम।।

पत्नी शालाकृता यस्य परेषां वाहिनीमुखम्।
हविर्धानं स्ववाहिन्यास्तदस्याहुर्मनीषिणः।।

सदस्या दक्षिणा योधा आग्नीध्रश्चोत्तरां दिशम्।
शत्रुसेना अलत्रस्य सर्वलोकानदूरतः।।

यस्य भयतो व्यूहे भवत्याकाशमग्रतः।
सास्य वेदिस्तदा यज्ञैर्नित्यं व्यूहास्त्रयोऽग्नयः।।

यस्तु योधः परावृत्तः संत्रस्तो हन्यते परैः।
अप्रतिष्ठः स नरकं याति नास्त्यत्र संशयः।।

यस्य शोणितवेगेण वेदिः स्यात्संपरिप्लुता।
केशमांसास्थिसंपूर्णा स गच्छेत्परमां गतिम्।।

यस्तु सेनापतिं हत्वा तद्यानमधिरोहति।
स विष्णुविक्रमक्रामी बृहस्पतिसमः प्रभुः।।

नायकं तत्कुमारं वा यो वा स्यात्तत्र पूजितः।
जीवग्राहं प्रगृह्णाति तस्य लोका यथा मम।।

आहवे तु हतं शूरं न शोचेत कथंचन।
अशोच्यो हि हतः शूरः स्वर्गलोके महीयते।।

न ह्यन्नं नोदकं तस्य न स्नानं नाप्यशौचकम्।
हतस्य कर्तुमिच्छन्ति तस्य लोकाञ्शृणुष्व मे।।

वराप्सरः सहस्राणि शूरमत्योधने हतम्।
त्वरमाणानि धावन्ति मम भर्ता भवेदिति।।

एतत्तपश्च पुण्यं च धर्मश्चैव सनातनः।
चत्वारश्चाश्रमास्तस्य यो युद्धे न पलायते।।

वृद्धबालौ न हन्तव्यौ न च स्त्री नैव पृष्ठतः।
तृणपूर्णमुखश्चैव तवास्मीति च यो वदेत्।।

अहं वृत्रं बलं पाकं महाकायं विरोचनम्।
दुरावारं च नमुचिं शतमायं च शम्बरम्।।

विप्रचित्तिं च दैतेयं दनोः पुत्रांश्च सर्वशः।
प्रह्वादं च निहत्याजौ ततो देवाधिपोऽभवम्।।

इत्येतच्छक्रवचनं निशम्य प्रतिपूज्य च।
योधानामात्मनः सिद्धिमम्बरीषोऽभिपन्नवान्।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि अष्टनवतितमोऽध्यायः।। 98।।