शांतिपर्व

अध्यायः १००

Santi Parva (Sanskrit) · Adhyaya 100
अक्षर का आकार

युधिष्ठिर उवाच।

यथा जयार्थिनः सेनां नयन्ति भरतर्षभ।
ईषद्धर्मं प्रपीड्यापि तन्मे ब्रूहि पितामह।।

भीष्म उवाच।

सन्त्येव हि स्थिता धर्म उपपत्त्या तथा परे।
साध्वाचारतया केचित्तथैवौपयिकादपि।।

उपायधर्मान्वक्ष्यामि संसिद्धानर्थसिद्धये।
निर्मर्यादा दस्यवस्तु भवन्ति परिपन्थिनः।।

तेषां प्रतिविघातार्थं प्रवक्ष्याम्यथ नैगमम्।
कार्याणां संप्रसिद्ध्यर्थं तानुपायान्निबोध मे।।

उभे प्रज्ञे वेदितव्ये ऋज्वी वक्रा च भारत।
जानन्वक्रां न सेवेत प्रतिबाधेत चागताम्।।

अमित्रा एव राजानं भेदेनोपचरन्त्युत।
तां राजा विकृतिं जानन्यथाऽमित्रान्प्रबाधते।।

गजानां पार्थ वर्माणि गोवृषाजगराणि च।
शल्यकण्टकलोहानि तनुत्राणि मतानि च।।

शातपीतानि शस्त्राणि सन्नाहाः पीतलोहकाः।
नानारञ्जनरक्ताः स्युः पताकाः केतवश्च ह।।

ऋष्टयस्तोमराः खङ्गा निशिताश्च परश्वथाः।
फलकान्यथ चर्माणि प्रतिकल्प्यान्यनेकशः।।

अभिनीतानि शस्त्राणि योधाश्च कृतनिश्चयाः।
चैत्रे वा मार्गशीर्षे वा सेनायोगः प्रशस्यते।।

पक्वसस्या हि पृथिवी भवत्यम्बुमती तदा।
नैवातिशीतो नात्युष्णः कालो भवति भारत।।

तस्मात्तदा योजयेत परेषां व्यसनेऽथवा।
एते हि योगाः सेनायाः प्रशस्ताः परबाधने।।

जलवांस्तृणवान्मार्गः समो गम्यः प्रशस्यते।
चारैः सुविदिताभ्यासः कुशलैर्वनगोचरैः।।

न ह्यरण्यानि शक्यन्ते गन्तुं मृगगणैरिव।
तस्मात्सेनासु तानेव योजयन्ति जयार्थिनः।।

[अग्रतः पुरुषानीकं शक्तं चापि कुलोद्भवम्।]
आवासस्तोयवान्मार्गः पर्याकाशः प्रशस्यते।।

पोषामपसर्पाणां प्रतिघातस्तथा भवेत्।
आकाशं हि वनाभ्याशे मन्यन्ते गुणवत्तरम्।।

बहुभिर्गुणजातैश्च ये युद्धकुशला जनाः।
[उपन्यासो भवेत्तत्र बलानां नातिदूरतः।।]

उपन्यासोऽपसर्पाणां पदातीनां च गूहनम्।
हतशत्रुप्रतीघातमापदर्थं परायणम्।।

सप्तर्पीन्पृष्ठतः कृत्वा युध्येयुरचला इव।
अनेन विधिना शत्रूञ्जिगीषेतापि दुर्जयान्।।

यतो वायुर्यतः सूर्यो यतः सोमस्ततो जयः।
पूर्वंपूर्वं ज्याय एषां सन्निपाते युधिष्ठिर।।

अकर्द -मनुदकाममर्यादामलोष्टकाम्।
अश्वभूमिं प्रशंसन्ति ये युद्धकुशला जनाः।।

समा निरुदकाकाशा रथभूमिः प्रशस्यते।
नीचद्रुमा महाकक्षा सोदका हस्तियोधिनाम्।।

बहुदुर्गा महाकक्षा वेणुवेत्रतिरस्कृता।
पदातीनां क्षमा भूमिः पर्वतोपवनानि च।।

पदातिबहुला सेना दृढा भवति भारत।
रथाश्वबहुला सेना सुदिनेषु प्रशस्यते।।

पदातिनागबहुला प्रावृट्‌काले प्रशस्यते।
गुणानेतान्प्रसंख्याय देशकालौ प्रयोजयेत्।।

एवं संचिन्त्य यो याति तिथिनक्षत्रपूजितः।
विजयं लभते नित्यं सेनां सम्यक्प्रयोजयन्।।

प्रसुप्तांस्तृषिताञ्श्रान्तान्प्रकीर्णान्नाभिघातयेत्।
मोक्षे प्रयाणे चलने पानभोजनकालयोः।
अतिक्षिप्तान्व्यतिक्षिप्तान्निहतान्प्रतनूकृतान्।।

अविस्रब्धान्कृतारम्भानुपन्यासात्प्रतापितान्।
बहिश्वरानुपन्यासान्कृतवेश्मानुसारिणः।।

पारम्पर्यागते द्वारे ये केचिदनुवर्तिनः।
परिचर्यापरोद्धारो ये च केचन वल्गिनः।।

अनीकं ये विभिदन्ति भिन्नं संस्थापयन्ति च।
समानाशनपानास्ते कार्या द्विगुणवेतनाः।।

`जातिगोत्रं च विज्ञाय कर्म चानुत्तमं शुभम्।
समानदेहरक्षार्थे कार्या द्विगुणवेतनाः।
त्रिगुणं चतुर्गुणं चैव वेतनं तेषु कारयेत्।।'

दशाधिपतयः कार्याः शताधिपतयस्तथा।
ततः सहस्राधिपतिं कुर्याच्छूरमतन्द्रितम्।।

यथा मुख्यान्सन्निपात्य वक्तव्याः संशयामहे।
यथा जयार्थं संग्रामे न जह्याम परस्परम्।।

इहैव ते निवर्तन्तां ये च केचन भीरवः।
न घातयेयुः प्रदरं कुर्वाणास्तुमुले सति।।

[न सन्निपाते प्रदरं वधं वा कुर्युरीदृशाः।।]
आत्मानं च स्वपक्षं च पालयन्हन्ति संयुगे।।

अर्थनाशो वधोऽकीर्तिरयशश्च पलायने।
अमनोज्ञाऽसुखा वाचः पुरुषस्य पलायतः।।

प्रतिध्वस्तोष्ठदन्तस्य न्यस्तसर्वायुधस्य च।
`हित्वा पलायमानस्य सहायान्प्राणसंशये।'
अमित्रैरवरुद्धस्य द्विषतामस्तु नः सदा।।

मनुष्यापसदा ह्येते ये भवन्ति पराङ्भुखाः।
राशिवर्धनमात्रास्ते नैव ते प्रेत्य नो इह।।

अमित्रा हृष्टमनसः प्रत्युद्यान्ति पलायिनम्।
जयिनस्तु नरास्तात मङ्गलैर्वन्दनेन च।।

यस्य स्म व्यसने राजन्ननुमोदन्ति शत्रवः।
तदसह्यतरं दुःखं मन्यन्ते मरणादपि।।

श्रियं जानीत धर्मस्य मूलं सर्वसुखस्य च।
या भीरूणां पराख्यातिः शूरस्तामधिगच्छति।।

ते वयं स्वर्गमिच्छन्तः संग्रामे त्यक्तजीविताः।
जयन्तो वध्यमाना वा प्राप्नुयाम च सद्गतिम्।।

एवं संशप्तशपथाः समभित्यक्तजीविताः।
अमित्रवाहिनीं वीराः प्रतिगाहन्त्यभीरवः।।

अग्रतः पुरुषाऽनीकमसिचर्मवतां भवेत्।
पृष्ठतः शकटानीकं कलत्रं मध्यतस्तथा।।

परेषां प्रतिघातार्थं पदातीनां च गूहनम्।
अपि तस्मिन्पुरे वृद्धा भवेयुर्ये पुरोगमाः।।

ये पुरस्तादभिमताः सत्ववन्तो मनस्विनः।
ते पूर्वमभिवर्तेरंश्चैतानेवेतरे जनाः।।

अपि चोद्धर्षणं कार्यं भीरूणामपि यत्नतः।
स्कन्धदर्शनमात्रात्तु तिष्ठेयुर्वा समीपतः।।

संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून्।
सूचीमुखमनीकं स्यादल्पानां बहुभिः सह।।

संप्रयुक्ते निकृष्टे वा सत्यं वा यदि वाऽनृतम्।
प्रगृह्य बाहून्क्रोशेत हन्त भग्नाः परे इति।।

आगतं मे मित्रबलं प्रहरध्वमभीतवत्।
सत्ववन्तो निधावेयुः कुर्वन्तो भैरवान्रवान्।।

क्ष्वेडाः किलकिलाशब्दाः क्रकचा गोविषाणिकाः।
भेरीमृदङ्गपणवान्नादयेयुश्च जर्झरान्।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि शततमोऽध्यायः।। 100।।