शांतिपर्व
अध्यायः ९७
युधिष्ठिर उवाच।
क्षत्रधर्माद्धि पापीयान्न धर्मोऽस्ति नराधिप।
अपयाने च युद्धे च राजा हन्ति महाजनम्।।
अथ स्म कर्मणा केन लोकाञ्जयति पार्थिवः।
विद्वञ्जिज्ञासमानाय प्रब्रूहि भरतर्षभ।।
भीष्म उवाच।
निग्रहेण च पापानां साधूनां संग्रहेण च।
यज्ञैर्दानैश्च राजानो भवन्ति शुचयोऽमलाः।।
उपरुन्धन्ति राजानो भूतानि विजयार्थिनः।
त एव विजयं प्राप्य वर्धयन्ति पुनः प्रजाः।।
अपविध्यन्ति पापानि दानयज्ञतपोबलैः।
अनुग्रहेण भूतानां पुण्यमेषां विवर्धते।।
यथैव क्षेत्रनिर्याता निर्यातं क्षेत्रमेव च।
हिनस्ति धान्यकक्षं च न च धान्यं विनश्यति।।
एवं शस्त्राणि मुञ्चन्तो घ्नन्ति वध्याननेकधा।
तस्यैषा निष्कृतिर्दृष्टा भूतानां भावनं पुनः।।
यो भूतानि सदाऽनर्थाद्वधात्क्लेशाच्च रक्षति।
दस्युभ्यः प्राणदानात्स धनदः सुखदो विराट्।।
स सर्वयज्ञारीजानो राजाऽथाभयदक्षिणैः।
अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम्।।
ब्राह्मणार्थे समुत्पन्ने योऽभिनिष्पत्य युध्यति।
आत्मानं यूपमुत्सृज्य स यज्ञोऽनन्तदक्षिणः।।
अभीतो विकिरञ्शत्रून्प्रतिगृह्य शरांस्तथा।
न तस्मान्त्रिदशाः श्रेयो भुवि पश्यन्ति किंचन।।
तस्य शस्त्राणि यावन्ति त्वचं भिन्दन्ति संयुगे।
तावतः सोऽश्नुते लोकान्सर्वकामदुहोऽक्षयान्।।
यदस्य रुधिरं गात्रादाहवे संप्रवर्तते।
सह तेनैव स्रावेण सर्वपापैः प्रमुच्यते।।
यानि दुःखानि सहते प्राणानामतिपातने।
न तपोऽस्ति ततो भूय इति धर्मविदो विदुः।।
पृष्ठतो भीरवः सङ्ख्ये वर्तन्ते धर्मपूरुषाः।
शूराच्छरणमिच्छन्तः पर्जन्यादिव जीवनम्।।
यदि शूरं तथा क्षेमे प्रतीक्षेरन्यथा भये।
प्रतिरूपं जनाः कुर्युर्न च तद्वर्तते तथा।।
यदि ते कृतमाज्ञाय नमस्कुर्युः सदैव तम्।
युक्तं न्याय्यं च कुर्युस्ते न च तद्वर्तते तथा।।
पुरुषाणां समानानां दृश्यते महदन्तरम्।
संग्रामेऽनीकवेलायामुत्कृष्टेषु पतत्सु च।।
पतत्यभिमुखं शूरः परान्भीरुः पलायते।
आस्थाय स्वर्ग्यमध्वानं सहायान्विषमे त्यजन्।।
मा स्म तांस्तादृशांस्तात जनिष्टाऽधर्मपूरुषान्।।
ये सहायान्रणे हित्वा स्वस्तिमन्तो गृहान्ययुः।
अस्वस्ति तेभ्यः कुर्वन्ति देवा इन्द्रपुरोगमाः।।
त्यागेन यः सहायानां स्वान्प्राणांस्त्रातुमिच्छति।
तं हन्युः काष्ठलोहैर्वा दहेयुर्वा कटाग्निना।
पशुवन्मारयेयुर्वा क्षत्रिया ये स्युरीदृशाः।।
अधर्मः क्षत्रियस्यैष यच्छय्यामरणं भवेत्।
विसृजञ्श्लेष्मपित्तानि कृपणं परिदेवयन्।।
अविक्षतेन देहेन प्रलयं योऽधिगच्छति।
क्षत्रियो नास्य तत्कर्म प्रशंसन्ति पुराविदः।।
न गृहे मरणं तात क्षत्रियाणां प्रशस्यते।
शौण्डीराणामशौण्डीर्यमधर्मं कृपणं च तत्।।
इदं कृच्छ्रमहो दुःखं पापीय इति निष्टनन्।
प्रतिध्वस्तमुखः पूतिरमात्याननुशोचयन्।।
अरोगाणां स्पृहयते मुहुर्मृत्युमपीच्छति।
वीरो दृप्तो मनस्वी च नेदृशं मृत्युमर्हति।।
रणेषु कदनं कृत्वा सुहृद्भिः प्रतिपूजित।
तीक्ष्णैः शस्त्रैरभिक्लिष्टः क्षत्रियो मुत्युमर्हति।।
शूरो हि सत्वमन्युभ्यामाविष्टो युध्यते मशम्।
कृत्यमानानि गात्राणि परैर्नैवावबुध्यते।।
स सङ्ख्ये निधनं प्राप्य प्रशस्तं लोकपूजितम्।
स्वधर्मं विपुलं प्राप्य शक्रस्यैति सलोकताम्।।
सर्वोपायै रणमुखमातिष्ठंस्त्यक्तजीवितः।
प्राप्नोतीन्द्रस्य सालोक्यं शूरः पृष्ठमदर्शयन्।।
यत्रयत्र हतः शूरः शत्रुभिः परिवारितः।
अक्षयांल्लभते लोकान्यदि दैन्यं न सेवते।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि सप्तनवतितमोऽध्यायः।। 97।।