शांतिपर्व
अध्यायः ९६
भीष्म उवाच।
नाधर्मेण महीं जेतुं लिप्सेत जगतीपतिः।
अधर्मविजयं लब्ध्वा को नु मन्येत भूमिपः।।
अधर्मयुक्तो विजयो ह्यध्रुवोऽस्वर्ग्य एव च।
पातयत्येव राजानं महीं च भरतर्षभ।।
विशीर्णकवचं चैव तवास्मीति च वादिनम्।
कृताञ्जलिं न्यस्तशस्त्रं गृहीत्वा न विहिंसयेत्।।
बलेन विजितो यश्च न तं युध्येत भूमिपः।
संवत्सरं विप्रणयेत्तस्माज्जातः पुनर्भवेत्।।
नार्वाक्संवत्सरात्कन्या प्रष्टव्या विक्रमाहृता।
एवमेव धनं सर्वं यच्चान्यत्सहसा हृतम्।।
न तु वध्ये धनं तिष्ठेत्पिबेयुर्ब्राह्मणाः पयः।
युञ्जीरन्नप्यनडुहः क्षन्तव्यं वा पुनर्भवेत्।।
राज्ञा राजैव योद्धव्यस्तथा धर्मो विधीयते।
नान्यो राजानमभ्यस्येदराजन्यः कथंचन।।
अनीकयोः संहतयोर्यदीयाद्ब्राह्मणोऽन्तरा।
शान्तिमिच्छन्नुभयतो न योद्धव्यं तदा भवेत्।।
मर्यादां शाश्वतीं भिन्द्याद्ब्राह्मणं योऽभिलङ्घयेत्।
अथ चेल्लङ्घयेदेव मर्यादां क्षत्रियब्रुवः।
असङ्ख्येपतदूर्ध्वं स्यादनादेयश्च संसदि।।
यस्तु धर्मविलोपेन मर्यादाभेदनेन च।
तां वृत्तिं नानुवर्तेत विजिगीषुर्महीपतिः।।
धर्मलब्धाद्धि विजयाल्लाभः कोऽभ्यधिको भवेत्।।
सहसा न्याय्यभूतानि क्षिप्रमेव प्रसादयेत्।
सान्त्वेन भोगदानेन स राज्ञां परमो नयः।।
भुज्यमाना ह्यभोगेन स्वराष्ट्रादभितापिताः।
अमित्रान्पर्युपासीरन्व्यसनौघप्रतीक्षिणः।।
अमित्रोपग्रहं चास्य ते कुर्युः क्षिप्रमापदि।
संतुष्टाः सर्वतो राजन्राजव्यसनकाङ्क्षिणः।।
नामित्रो विनिकर्तव्यो नातिच्छेद्यः कथंचन।
जीवितं ह्यप्यतिच्छिन्नः संत्यजेदेकदा नरः।।
अल्पेनापि च संयुक्तस्तुष्यते नापराधितः।
शुद्धं जीवितमेवापि तादृशो बहुमन्यते।।
यस्य स्फीतो जनपदः संपन्नः प्रियराजकः।
संतुष्टभृत्यसचिवो दृढमूलः स पार्थिवः।।
ऋत्विक्पुरोहिताचार्या ये चान्ये श्रुतसत्तमाः।
पूजार्हाः पूजिता यस्य स वै लोकविदुच्यते।।
एतेनैव च वृत्तेन महीं प्राप सुरोत्तमः।
अन्येऽपि चैव विजयं विजिगीषन्ति पार्थिवाः।।
भूमिवर्जं धनं राजा जित्वा राजन्महाहवे।
अपि चान्नोषधीः शश्वदाजहार प्रतर्दनः।।
अग्रिहोत्राग्निशेषं च हविर्भोजनमेव च।
आजहार दिवोदासस्ततो विप्रकृतोऽभवत्।।
सराजकानि राष्ट्राणि नाभागो दक्षिणां ददौ।
अन्यत्र श्रोत्रियस्वाच्च तापसार्थाच्च भारत।।
उच्चावचानि वित्तानि धर्मज्ञानां युधिष्ठिर।
आसन्राज्ञां पुराणानां सर्वं तन्मम रोचते।।
सर्वविद्यातिरेकेण जयमिच्छेन्महीपतिः।
न मायया न दम्भेन य इच्छेद्भूतिमात्मनः।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
जधर्मपर्वणि षण्णवतितमोऽध्यायः।। 96।।