शांतिपर्व
अध्यायः ९५
युधिष्ठिर उवाच।
अथ यो विजिगीषेत क्षत्रियः क्षत्रियं युधि।
कस्तस्य विजये धर्मो ह्येतं पृष्टो ब्रवीहि मे।।
भीष्म उवाच।
ससहायोऽसहायो वा राष्ट्रमागम्य भूमिपः।
ब्रूयादहं यो राजेति रक्षिष्यामि च वः सदा।।
मम धर्मबलिं दत्त किंवा मां प्रतिपत्स्यथ।
ते चोक्तमागतं तत्र घृणीयुः कुशलं भवेत्।।
ते चेदक्षत्रियाः सन्तो विरुध्येरन्कथंचन।
सर्वोपायैर्नियन्तव्या विकर्मस्था नराधिप।।
अशस्त्रं क्षत्रियं मत्वा शस्त्रं गृह्णात्यथापरः।
त्राणायाप्यसमर्थं तं मन्यमानमतीव च।।
युधिष्ठिर उवाच।
अथः यः क्षत्रियो राजा क्षत्रियं प्रत्युपाव्रजेत्।
कथं संप्रतियोद्धव्यस्तन्मे ब्रूहि पितामह।।
भीष्म उवाच।
नासन्नह्यो नाकवचो योद्धव्यः क्षत्रियो रणे।
एक एकेन भाव्यश्च विसृजेति क्षिपामि च।।
स चेत्सन्नद्ध आगच्छेत्सन्नद्धव्यं ततो भवेत्।
स चेत्ससैन्य आगच्छेत्ससैन्यस्तमथाह्वयेत्।।
स चेन्निकृत्या युध्येत निकृत्या प्रतियोधयेत्।
अथ चेद्धर्मतो युध्येद्धर्मेणैव निवारयेत्।।
नाश्वेन रथिनं यायादुदियाद्रथिनं रथी।
व्यसने न प्रहर्तव्यं न भीताय जिताय च।।
नेषुर्लिप्तो न कर्णी स्यादसतामेतदायुधम्।
यथार्थमेव योद्धव्यं न क्रुद्ध्येत जिघांसतः।।
`नास्त्येकस्य गजो युद्धे गजश्चेकस्य विद्यते।
न पदातिर्गजं युध्येन्न गतेन पदातिनम्।।
हस्तिना योधयेन्नागं कदाचिच्छिक्षितो हयः।
दिव्यास्त्रबलसंपन्नः कामं युध्येत सर्वदा।
नागे भूमौ समे चैव रथेनाश्वेन वा पुनः।।
रामरावणयोर्युद्धे हरयो वै पदातयः।
लक्ष्मणश्च महाभागस्तथा राजन्विभीषणः।।
रावणस्यान्तकाले च रथेनैन्द्रेण राधवः।
निजघान दुराचारं रावणं पापकारिणम्।।
दिव्यास्त्रबलसंपन्ने सर्वमेतद्विधीयते।
देवासुरेषु सर्वेषु दृष्टमेतत्पुरातनैः।।'
[साधूनां तु यदा भेदात्साधुश्चेद्व्यसनी भवेत्।]
निष्प्राणो नाभिहन्तव्यो नानपत्यः कथंचन।
भग्नशस्त्रो विपन्नश्च कृत्तज्यो हतवाहनः।
चिकित्स्यः स्यात्स्वविषये प्राप्यो वा स्वगृहे भवेत्।
निर्व्रणश्च स भोक्तव्य एष धर्मः सनातनः।।
तस्माद्धर्मेण योद्धव्यमिति स्वायंभुवोऽब्रवात्।
सत्सु नित्यः सतां धर्मस्तमास्थाय न नाशयेत्।।
यो वै जयत्यधर्मेण क्षत्रियो धर्मसंगरः।
आत्मानमात्मना हन्ति पापो निकृतिजीवनः।।
कर्म चैतदसाधूनां साधून्योऽसाधुना जयेत्।
धर्मेण निधनं श्रेयो न जयः पापकर्मणा।।
नाधर्मश्चरितो राजन्सद्यः फलति गौरिव।
मूलानि च प्रशाखाश्च दहन्समधिगच्छते।।
पापेन कर्मणा वित्तं लब्ध्वा पापः प्रहृष्यति।
स वर्धमानस्तेनैव पापः पापे प्रसज्जति।।
न धर्मोऽस्तीति मन्वानः शुचीनवहसन्निव।
अश्रद्दधानश्च भवेद्विनाशमुपगच्छति
स बद्धो वारुणैः पाशैरमर्त्यैरवमन्यते।
महादृतिरिवाध्मातः स्वकृतेनैव वर्धते।
ततः समूलो ह्रियते नदीकूलादिव द्रुमा।।
अथैनमभिनिन्दन्ति भिन्नं कुम्भमिवाश्यानि।
तस्माद्धर्मेण विजयं कोशं लिप्सेत भूमिपः।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि पञ्चनवतितमोऽध्यायः।। 95।।