शांतिपर्व
अध्यायः ८९
भीष्म उवाच।
वनस्पतीभक्ष्यफलान्न च्छिन्द्युर्विषये तव।
ब्राह्मणानां मूलफलं धर्ममाहुर्मनीषिणः।।
ब्राह्मणेभ्योऽतिरिक्तं च भुञ्जीरन्नितरे जनाः।
न ब्राह्मणोपरोधेन हरेदन्यः कथंचन।।
विप्रश्चेत्त्यागमातिष्ठेदाख्याया वृत्तिकर्शितः।
परिकल्यास्य वृत्तिः स्यात्सदारस्य नराधिप।।
स चेन्नोपनिवर्तेत वाच्यो ब्राह्मणसंसदि।
कस्मिन्निदानीं मर्यादामयं लोकः करिष्यति।।
असंशयं निवर्तेत न चेत्त्यक्ष्यत्यतः परम्।
पूर्वं परोक्षं वक्तव्यमेतत्कौन्तेय शाश्वतम्।।
आहुरेतज्जना ब्रह्मन्न चैतच्छ्रद्दधाम्यहम्।
निमन्त्र्यश्च भवेद्भोगैरवृत्त्या च तदा चरेत्।।
कृषिगोरक्ष्यवाणिज्यं लोकानामिह जीवनम्।
ऊर्ध्वं चैव त्रयी विद्या सा भूतान्भावयत्युत।।
तस्यां प्रपतमानायां ये स्युस्तत्परिपन्थिनः।
दस्यवस्तद्वधायेह ब्रह्मा क्षत्रमथासृजत्।।
शत्रूञ्जय प्रजा रक्ष यजस्व क्रतुभिर्नृप।
युध्यस्व समरे वीरो भूत्वा कौरवनन्दन।।
संरक्ष्यान्रक्षते राजा स राजा राजसत्तमः।
ये केचित्तान्न रक्षन्ति तैरर्थो नास्ति कश्चन।।
सदैव राज्ञा योद्धव्यं सर्वलोकाद्युधिष्ठिर।
तस्याद्धेतोर्हि भुञ्जीत मनुष्यानेव मानवः।।
आन्तरेभ्यः परान्रक्षन्परेभ्यः पुनरान्तरान्।
परान्परेभ्यः स्वान्खेभ्यः सर्वान्पालय नित्यदा।।
आत्मानं सर्वतो रक्षन्राजन्रक्षस्व मेदिनीम्।
आत्ममूलमिदं सर्वमाहुर्वै विदुषो जनाः।।
किं छिद्रं कोनु सङ्गो मे किंवाऽस्त्यविनिपातितम्।
कुतो मामाश्रयेद्दोष इति नित्यं विचिन्तयेत्।।
अतीतदिवसे वृत्तं प्रशंसन्ति न वा पुनः।
गुप्तैश्चारैरनुमतैः पृथिवीमनुसारयेत्।।
जानीत यदि मे वृत्तं प्रशंसन्ति न वा पुनः।
कच्चिद्रोचेज्जनपदे कच्चिद्राष्ट्रे च मे वशः।।
धर्मज्ञानां धृतिमतां संग्रामेष्वपलायिनाम्।
राष्ट्रे तु येऽनुजीवन्ति ये तु राज्ञोऽनुजीविनः।।
अमात्यानां च सर्वेषां मध्यस्थानां च सर्वशः।
ये च त्वाऽभिप्रशंसेयुर्निन्देयुरथवा पुनः।।
सर्वान्सुपरिणीतांस्तान्कारयेथा युधिष्ठिर।
एकान्तेन हि सर्वेषां न शक्यं तात रोचितुम्।
मित्रामित्रमथो मध्यं सर्वभूतेषु भारत।।
युधिष्ठिर उवाच।
तुल्यबाहुबलानां च तुल्यानां च गुणैरपि।
कथं स्यादधिकः कश्चित्स च भुञ्जीत मानवान्।।
भीष्म उवाच।
यच्चरा ह्यचरानद्युरदंष्ट्रान्दंष्ट्रिणस्तथा।
आशीविषा इव क्रुद्धा भुजङ्गान्भुजगा इव।।
एतेभ्यश्चाप्रमत्तः स्यात्सदा शत्रोर्युधिष्ठिर।
भारुण्डसदृशा ह्येते निपतन्ति प्रमादतः।।
कच्चित्ते वणिजो राष्ट्रे नोद्विजन्ति करार्दिताः।
क्रीणन्तो बहुनाऽल्पेन कान्तारकृतविश्रमाः।।
कच्चित्कृषिकरा राष्ट्रं न जहत्यतिपीडिताः।
ये बहन्ति धुरं राज्ञां ते भरन्तीतरानपि।।
`आलस्येन हृतः पादः पादः पाषण्डमाश्रितः।
राजानं सेवते पादः पादः कृषिमुपाश्रितः।।
एकपादं त्रयः पादा भक्षयन्ति दिनेदिने।
तस्मात्सर्वप्रयत्नेन पादं रक्ष युधिष्ठिर।। '
इतो दत्तेन जीवन्ति देवाः पितृगणास्तथा।
मानुषोरगरक्षांसि वयांसि पशवस्तथा।।
एषा ते राष्ट्रवृत्तिश्च राज्ञां गुप्तिश्च भारत।
प्रोक्तोद्दिश्यैतमेवार्थं भूयो वक्ष्यामि पा--व।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि एकोननवतितमोऽध्यायः।। 89।।