शांतिपर्व
अध्यायः ८८
युधिष्ठिर उवाच।
यदा राजा समर्थोऽपि कोशार्थी स्यान्महामते।
कथं प्रवर्तेत करस्तन्मे ब्रूहि पितामह।।
भीष्म उवाच।
यथादेशं यथाकालं यथाबुद्धि यथाबलम्।
अनुशिष्यात्प्रजा राजा धर्मार्थी तद्धिते रतः।।
यथा तासां च मन्येत श्रेय आत्मन एव च।
तथा धर्माणि सर्वाणि राजा राष्ट्रेषु वर्तयेत्।।
मधुदोहं दुहेद्राष्ट्रं भ्रमरान्न प्रपातयेत्।
वत्सापेक्षी दुहेच्चैव स्तनांश्च न विकुट्टयेत्।।
जलौकावत्पिबेद्राष्ट्रं मृदुनैव नराधिपः।
व्याघ्रीव च हरेत्पुत्रान्संदशेन्न च पीडयेत्।।
यथा शल्यकवानाखुः पदं धूनयते सदा।
अतीक्ष्णेनाभ्युपायेन तथा राष्ट्रं समापिबेत्।।
अल्पेनाल्पेन देयेन वर्धमानं प्रदापयेत्।
ततो भूयस्ततो भूयः क्रमवृद्धिं समाचरेत्।।
दमयन्निव दम्यानि शश्वद्भारं विवर्धयेत्।
मृदुपूर्वं प्रयत्नेन पाशानभ्यवहारयेत्।।
सकृत्पाशावकीर्णास्ते न भविष्यन्ति दुर्दमाः।
उचितेनैव भोक्तव्यास्ते भविष्यन्त्ययत्नतः।।
तस्मात्सर्वसमारम्भो दुर्लभः पुरुषं प्रति।
यथा मुख्यान्सान्त्वयित्वा भोक्तव्या इतरे जनाः।।
ततस्तान्भेदयित्वा तु परस्परविवक्षितान्।
भुञ्जीत सान्त्वयंश्चैव यथासुखमयत्नतः।।
न चास्थाने न चाकाले करांस्तेभ्यो निपातयेत्।
आनुपूर्व्येण सान्त्वेन यथाकालं यथाविधि।।
उपायान्प्रब्रवीम्येतान्न मे माया विवक्षिता।
अनुपायेन दमयन्प्रकोपयति वाजिनः।।
पानागारनिवोशाश्च वेश्याः प्रापणिकास्तथा।
कुशीलवाः सकितवा ये चान्ये केचिदीदृशाः।।
नियम्याः सर्व एवैते ये राष्ट्रस्योपघातकाः।
एते राष्ट्रेऽभितिष्ठन्तो बाधन्ते भद्रिकाः प्रजाः।।
न केनचिद्याचितव्यः कश्चित्किंचिदनापदि।
इति व्यवस्था भूतानां पुरस्तान्मनुना कृता।।
सर्वे तथाऽनुजीवेयुर्न कुर्युः कर्म चेदिह।
सर्व एव इमे लोका न भवेयुरसंशयम्।।
प्रभुर्नियमने राजा य एतान्न नियच्छति।
भुङ्क्ते स तस्य पापस्य चतुर्भागमिति श्रुतिः।।
भोक्ता तस्य तु पापस्य सुकृतस्य यथातथा।
नियन्तव्याः सदा राज्ञा पापा ये स्युर्नराधिप।।
कृतपापस्त्वसौ राजा य एतान्न नियच्छति।
तथा कृतस्य धर्मस्य चतुर्भागमुपाश्नुते।
स्थानान्येतानि संयम्य प्रसङ्गो भूतिनाशनः।
कामे प्रसक्तः पुरुषः किमकार्यं विवर्जयेत्।।
मद्यमांसपरस्वानि तथा दारधनानि च।
आहरेद्रागवशगस्तथा शास्त्रं प्रदर्शयेत्।।
आपद्येव तु याचन्ते येषां नास्ति परिग्रहः।
दातव्यं धर्मतस्तेभ्यस्त्वनुक्रोशाद्भयान्न तु।।
मा ते राष्ट्रे याचनका भवेयुर्मा च दस्यवः।
उपादातार एवैते नैते भूतस्य भावकाः।।
ये भूतान्यनुगृह्णन्ति वर्धयन्ति च ये प्रजाः।
तेते राष्ट्रेषु वर्तन्तां मा भूतानां प्रबाधकाः।।
दण्ड्यास्ते च महाराज धनादानप्रयोजकाः।
प्रयोगं कारयेथास्ते यथा दद्युः करांस्तथा।।
कृषिगोरक्ष्यवाणिज्यं यच्चान्यत्किंचिदीदृशम्।
पुरुषैः कारयेत्कर्म बहुभिः कर्मभेदतः।।
नरश्चेत्कृषिगोरक्ष्यं वाणिज्यं चाप्यनुष्ठितः।
संशयं लभते किंचित्तेन राजा विगर्ह्यते।।
धनिनः पूजयेन्नित्यं पानाच्छादनभोजनैः।
वक्तव्याश्चानुगृह्णीध्वं प्रजाः सह मयेति वै।।
अङ्गमेतन्महद्राज्ये धनिनो नाम भारत।
ककुदं सर्वभूतानां धनस्थो नात्र संशयः।।
प्राज्ञः शूरो धनस्थश्च स्वामी धार्मिक एव च।
तपस्वी सत्यवादी च बुद्धिमांश्चापि रक्षति।।
तस्मात्सर्वेषु भूतेषु प्रीतिमान्भव पार्थिव।
सत्यमार्जवमक्रोधमानृशंस्यं च पालय।।
एवं दण्डं च कोशं च मित्रं भूमिं च लप्स्यसि।
सत्यार्जवपरो राजन्मित्रकोशबलान्वितः।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि अष्टाशीतितमोऽध्यायः।। 88।।