शांतिपर्व

अध्यायः ९०

Santi Parva (Sanskrit) · Adhyaya 90
अक्षर का आकार

भीष्म उवाच।

यानङ्गिराः क्षत्रधर्मानुतथ्यो ब्रह्मवित्तमः।
मान्धात्रे यौवनाश्चाय प्रीतिमानभ्यभाषत।।

स यथाऽनुशशासैनमुतथ्यो ब्रह्मवित्तमः।
तत्तेऽहं संप्रवक्ष्यामि निखिलेन युधिष्ठिर।।

उचथ्य उवाच।

धर्माय राजा भवति न कामकरणाय तु।
मान्धातरभिजानीहि राजा लोकस्य रक्षिता।।

राजा चरति चेद्धर्मं देवत्वायैव कल्पते।
स चेदधर्मं चरति नरकायैव गच्छति।।

धर्मे तिष्ठन्ति भूतानि धर्मो राजनि तिष्ठाति।
तं राजा साधु यः शास्ति स राजा श्रियमश्नुते।।

राजापराधान्मान्धातर्लक्ष्मीवान्पाप उच्यते।
देवाश्च गर्हां गच्छन्ति धर्मो नास्तीति चोच्यते।।

अधर्मे वर्तमानानामर्थसिद्धिः प्रदृश्यते।
तदेव मङ्गलं लोकः सर्वः समनुवर्तते।।

उच्छिद्यते धर्मवृत्तमधर्मो वर्तते महान्।
भयमाहुर्दिवारात्रं यदा पापा न वार्यते।।

इदं मम इदं नेति साधूनां तात धर्मतः।
न वै व्यवस्था भवति यदा पापो न वार्यते।।

नैव भार्या न पशवो न क्षेत्रं न निवेशनम्।
संदृश्येत मनुष्याणां यदा पापबलं भवेत्।।

देवाः पूजां न जानन्ति न स्वधां पितरस्तदा।
न पूज्यन्ते ह्यतिथयो यदा पापो न वार्यते।।

न वेदानधिगच्छन्ति व्रतवन्तो द्विजातयः।
न यज्ञांस्तन्वते विप्रा यदा पापो न वार्यते।।

वध्यानामिव सत्वानां मनो भवति विह्वलम्।
मनुष्याणां महाराज यदा पापो न वार्यते।।

उभौ लोकावभिप्रेक्ष्य राजानमसृजंस्तथा।
मुनयोऽथ महद्भूतमयं धर्मो भविष्यति।।

यस्मिन्धर्मो विराजेत तं राजानं प्रचक्षते।
यस्मिन्विलीयते धर्मस्तं देवा वृषलं विदुः।।

वृषो हि भगवान्धर्मो यस्तस्य कुरुते लयम्।
वृषलं तं वीवदुर्देवास्तस्माद्धर्मं न लोपयेत्।।

धर्मे वर्धति वर्धन्ति सर्वभूतानि सर्वदा।
तस्मिन्ह्रसति हीयन्ते तस्माद्धर्मं विवर्धयेत्।।

धनानि स्पौति धर्मो हि धारणाद्वेति निश्चयः।
मानवान मनुष्येन्द्र स सीमान्तकरः स्मृतः।।

प्रभवार्थंमहि भूतानां धर्मः सृष्टः स्वयंभुवा।
तस्मात्प्रवर्धयेद्धर्मं प्रजानुग्रहकारणात्।।

तस्माद्धि राजशार्दूल धर्मः श्रेष्ठतरः स्मृतः।
स राजायः प्रजाः शास्ति साधुकृत्पुरुषर्षभ।।

कामक्रोधावनादृत्य धर्ममेवानुपालयेत्।
धर्मः श्रेयस्करतमो राज्ञां भरतसत्तम।।

धर्मस्य ब्राह्मणे योनिस्तस्मात्तान्पूजयेत्सदा।
ब्राह्मणानां च मान्धातः कुर्यात्कामानमत्सरी।।

तेषां ह्यकामकरणाद्राज्ञः संजायते भयम्।
मित्राणि न च वर्धन्ते तथाऽमित्रीभवन्त्यपि।।

ब्राह्मणानां सदासूयन्बाल्याद्वैरोचनिर्बलिः।
अथास्माच्छ्रीरपाक्रामद्याऽस्मिन्नासीत्प्रतापिनी।।

ततस्तस्मादपाक्रम्य साऽगच्छत्पाकशासनम्।
अथ सोऽन्वतपत्पश्चाच्छ्रियं दृष्ट्वा पुरंदरे।।

एतत्फलमसूयाया अभिमानस्य चाभिभो।
तस्माद्बुध्यस्व मान्धातर्मा त्वां जह्यात्प्रतापिनी।।

दर्पोनाम श्रियः पुत्रो जज्ञेऽधर्मादिति श्रुतिः।
तेन देवासुरा राजन्नीताः सुबहवोऽव्ययम्।।

राजर्षयश्च बहवस्तथा बुध्यस्व पार्थिव।
राजा भवति तं जित्वा दासस्तेन पराजितः।।

स यथा दर्पसहितमधर्मं नानुसेवते।
तथा वर्तस्व मान्धातश्चिरं चेत्स्थातुमिच्छसि।।

मत्तात्प्रमत्तात्पौगण्डादुन्मत्ताच्च विशेषतः।
निन्दिताच्चासदाचाराद्दुर्हृदां चापि सेवनात्।।

निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः।
पर्वताद्विषमाद्दुर्गाद्धस्तिनोऽश्वात्सरीसृपात्।।

एतेभ्योऽनित्ययुक्तः स्यान्नक्तं चर्यां च वर्जयेत्।
अत्याशां चाभिमानं च दम्भं क्रोधं च वर्जयेत्।।

अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु च।
परभार्यासु कन्यासु नाचरेन्मैथुनं नृप।।

कुलेषु पापरक्षांसि जायन्ते वर्णसंकरात्।
अपुमांसोऽङ्गहीनाश्च स्थूलजिह्वा विचेतसः।।

एते चान्ये च जायन्ते यदा राजा प्रमाद्यति।
तस्माद्राज्ञा विशेषेणं वर्तितव्यं प्रजाहिते।।

क्षत्रियस्य प्रमत्तस्य दोषः संजायते महान्।
अधर्माः संप्रवर्धन्ते प्रजासंकरकारकाः।।

अशीते विद्यते शीतं शीते शीतं न विद्यते।
अवृष्टिरतिवृष्टिश्च व्याधिश्चाप्याविशेत्प्रजाः।।

नक्षत्राण्युपतिष्ठन्ति ग्रहा घोरास्तथागते।
उत्पाताश्चात्र दृश्यन्ते बहवो राजनाशनाः।।

अरक्षितात्मा यो राजा प्रजाश्चापि न रक्षति।
प्रजाश्च तस्य क्षीयन्ते ततः सोऽनु विनश्यति।।

द्वावाददाते ह्येकस्य द्वयोः सुबहवोऽपरे।
कुमार्यः संप्रलुप्यन्ते तदाहुर्नृपदूषणम्।।

ममैतदिति नैतच्च मनुष्येष्ववतिष्ठति।
त्यक्त्वा धर्मं यदा राजा प्रमादमनुतिष्ठित।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि नवतितमोऽध्यायः।। 90।।